नारायणीयं दशक 63 – गोवर्धनोद्धारणम्


ददृशिरे किल तत्क्षणमक्षत-
स्तनितजृंभितकंपितदिक्तटाः ।
सुषमया भवदंगतुलां गता
व्रजपदोपरि वारिधरास्त्वया ॥1॥

विपुलकरकमिश्रैस्तोयधारानिपातै-
र्दिशिदिशि पशुपानां मंडले दंड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
वचनमजित शृण्वन् मा बिभीतेत्यभाणीः ॥2॥

कुल इह खलु गोत्रो दैवतं गोत्रशत्रो-
र्विहतिमिह स रुंध्यात् को नु वः संशयोऽस्मिन् ।
इति सहसितवादी देव गोवर्द्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बालदोर्भ्याम् ॥3॥

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान् धेनुगोपानधस्ता-
दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥4॥

भवति विधृतशैले बालिकाभिर्वयस्यै-
रपि विहितविलासं केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कंडू-
यति सति पशुपालास्तोषमैषंत सर्वे ॥5॥

अतिमहान् गिरिरेष तु वामके
करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलं न्विति
त्वदवलोकिभिराकथि गोपकैः ॥6॥

अहह धार्ष्ट्यममुष्य वटोर्गिरिं
व्यथितबाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो
दिवससप्तकमुग्रमवर्षयत् ॥7॥

अचलति त्वयि देव पदात् पदं
गलितसर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पति-
स्त्वदभिशंकितधीः समुपाद्रवत् ॥8॥

शममुपेयुषि वर्षभरे तदा
पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहितभूधरः
प्रमुदितैः पशुपैः परिरेभिषे ॥9॥

धरणिमेव पुरा धृतवानसि
क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कमलापते
गुरुपुरालय पालय मां गदात् ॥10॥

बारम्बार सोधिने प्रश्नहरू

What is नारायणीयं दशक 63 - गोवर्धनोद्धारणम्?

नारायणीयं दशक 63 - गोवर्धनोद्धारणम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 63 - गोवर्धनोद्धारणम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 63 - गोवर्धनोद्धारणम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook