नारायणीयं दशक 61 – विप्रपत्न्यनुग्रहम्


ततश्च वृंदावनतोऽतिदूरतो
वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदंतरे भक्ततरद्विजांगना-
कदंबकानुग्रहणाग्रहं वहन् ॥1॥

ततो निरीक्ष्याशरणे वनांतरे
किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान् प्रति
व्यसर्जयो दीदिवियाचनाय तान् ॥2॥

गतेष्वथो तेष्वभिधाय तेऽभिधां
कुमारकेष्वोदनयाचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं
न किंचिदूचुश्च महीसुरोत्तमाः ॥3॥

अनादरात् खिन्नधियो हि बालकाः ।
समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः
कथं हि भक्तं त्वयि तैः समर्प्यते ॥4॥

निवेदयध्वं गृहिणीजनाय मां
दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्द्रं भवतेरिता गता-
स्ते दारका दारजनं ययाचिरे ॥5॥

गृहीतनाम्नि त्वयि संभ्रमाकुला-
श्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरंधृतत्वत्प्रविलोकनाग्रहाः
स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥6॥

विलोलपिंछं चिकुरे कपोलयोः
समुल्लसत्कुंडलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि
स्थितं भवंतं समलोकयंत ताः ॥7॥

तदा च काचित्त्वदुपागमोद्यता
गृहीतहस्ता दयितेन यज्वना ।
तदैव संचिंत्य भवंतमंजसा
विवेश कैवल्यमहो कृतिन्यसौ ॥8॥

आदाय भोज्यान्यनुगृह्य ताः पुन-
स्त्वदंगसंगस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमा-
श्चकर्थ भर्तृनपि तास्वगर्हणान् ॥9॥

निरूप्य दोषं निजमंगनाजने
विलोक्य भक्तिं च पुनर्विचारिभिः
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजै-
र्मरुत्पुराधीश निरुंधि मे गदान् ॥10॥

बारम्बार सोधिने प्रश्नहरू

What is नारायणीयं दशक 61 - विप्रपत्न्यनुग्रहम्?

नारायणीयं दशक 61 - विप्रपत्न्यनुग्रहम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 61 - विप्रपत्न्यनुग्रहम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 61 - विप्रपत्न्यनुग्रहम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook