नारायणीयं दशक 51 – अघासुरवधम्


कदाचन व्रजशिशुभिः समं भवान्
वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समंडलैः
सतेमनैर्निरगमदीश जेमनैः ॥1॥

विनिर्यतस्तव चरणांबुजद्वया-
दुदंचितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेबरै-
रुदूहिरे धृतभवदीक्षणोत्सवाः ॥2॥

प्रचारयत्यविरलशाद्वले तले
पशून् विभो भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनी
भयानकः सपदि शयानकाकृतिः ॥3॥

महाचलप्रतिमतनोर्गुहानिभ-
प्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद्गताः
कुमारकाः किमपि विदूरगे त्वयि ॥4॥

प्रमादतः प्रविशति पन्नगोदरं
क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो
सुहृज्जनं विशरणमाशु रक्षितुम् ॥5॥

गलोदरे विपुलितवर्ष्मणा त्वया
महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान् विदलितकंठमंडलो
विमोचयन् पशुपपशून् विनिर्ययौ ॥6॥

क्षणं दिवि त्वदुपगमार्थमास्थितं
महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमंजसा
नभःस्थले ननृतुरथो जगुः सुराः ॥7॥

सविस्मयैः कमलभवादिभिः सुरै-
रनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि
स्वकैर्भवानतनुत भोजनोत्सवम् ॥8॥

विषाणिकामपि मुरलीं नितंबके
निवेशयन् कबलधरः करांबुजे ।
प्रहासयन् कलवचनैः कुमारकान्
बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥9॥

सुखाशनं त्विह तव गोपमंडले
मखाशनात् प्रियमिव देवमंडले ।
इति स्तुतस्त्रिदशवरैर्जगत्पते
मरुत्पुरीनिलय गदात् प्रपाहि माम् ॥10॥

बारम्बार सोधिने प्रश्नहरू

What is नारायणीयं दशक 51 - अघासुरवधम्?

नारायणीयं दशक 51 - अघासुरवधम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 51 - अघासुरवधम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 51 - अघासुरवधम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook