नारायणीयं दशक 46 – विश्वरूपदर्शनम्
अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनंधये ।
परिजृंभणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥1॥
पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।
फलसंचयवंचनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥2॥
अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥3॥
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता ।
इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥4॥
अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥5॥
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥6॥
कुहचिद्वनमंबुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् ।
मनुजा दनुजाः क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥7॥
कलशांबुधिशायिनं पुनः परवैकुंठपदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥8॥
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥9॥
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमंब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥10॥
बारम्बार सोधिने प्रश्नहरू
What is नारायणीयं दशक 46 - विश्वरूपदर्शनम्?
नारायणीयं दशक 46 - विश्वरूपदर्शनम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 46 - विश्वरूपदर्शनम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 46 - विश्वरूपदर्शनम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.