नारायणीयं दशक 14 – कपिलावतारम्
समनुस्मृततावकांघ्रियुग्मः
स मनुः पंकजसंभवांगजन्मा ।
निजमंतरमंतरायहीनं
चरितं ते कथयन् सुखं निनाय ॥1॥
समये खलु तत्र कर्दमाख्यो
द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं
भगवंस्त्वामयुतं समाः सिषेवे ॥2॥
गरुडोपरि कालमेघक्रमं
विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं
वपुराविष्कुरुषे स्म कर्दमाय ॥3॥
स्तुवते पुलकावृताय तस्मै
मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात्
स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥4॥
स मनुः शतरूपया महिष्या
गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः
समगात् कर्दममागतिप्रतीक्षम् ॥5॥
मनुनोपहृतां च देवहूतिं
तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिवृतोऽपि तस्यां
दृढशुश्रूषणया दधौ प्रसादम् ॥6॥
स पुनस्त्वदुपासनप्रभावा-
द्दयिताकामकृते कृते विमाने ।
वनिताकुलसंकुलो नवात्मा
व्यहरद्देवपथेषु देवहूत्या ॥7॥
शतवर्षमथ व्यतीत्य सोऽयं
नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कांता-
हितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥8॥
निजभर्तृगिरा भवन्निषेवा-
निरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां
प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥9॥
वनमेयुषि कर्दमे प्रसन्ने
मतसर्वस्वमुपादिशन् जनन्यै ।
कपिलात्मक वायुमंदिरेश
त्वरितं त्वं परिपाहि मां गदौघात् ॥10॥
बारम्बार सोधिने प्रश्नहरू
What is नारायणीयं दशक 14 - कपिलावतारम्?
नारायणीयं दशक 14 - कपिलावतारम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 14 - कपिलावतारम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 14 - कपिलावतारम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.