नारायणीयं दशक 100 – भगवतः केशादिपादवर्णनम्


अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं
पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।
तारुण्यारंभरम्यं परमसुखरसास्वादरोमांचितांगै-
रावीतं नारदाद्यैर्विलसदुपनिषत्सुंदरीमंडलैश्च ॥1॥

नीलाभं कुंचिताग्रं घनममलतरं संयतं चारुभंग्या
रत्नोत्तंसाभिरामं वलयितमुदयच्चंद्रकैः पिंछजालैः ।
मंदारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं
स्निग्धश्वेतोर्ध्वपुंड्रामपि च सुललितां फालबालेंदुवीथीम् ॥2

हृद्यं पूर्णानुकंपार्णवमृदुलहरीचंचलभ्रूविलासै-
रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते ।
सांद्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥3॥

उत्तुंगोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गंडपाली-
व्यालोलत्कर्णपाशांचितमकरमणीकुंडलद्वंद्वदीप्रम् ।
उन्मीलद्दंतपंक्तिस्फुरदरुणतरच्छायबिंबाधरांतः-
प्रीतिप्रस्यंदिमंदस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥4॥

बाहुद्वंद्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले-
नोपात्तां वेणुनाली प्रसृतनखमयूखांगुलीसंगशाराम् ।
कृत्वा वक्त्रारविंदे सुमधुरविकसद्रागमुद्भाव्यमानैः
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिंच मे कर्णवीथीम् ॥5॥

उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कंठदेशं
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् ।
नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल-
ल्लोलंबां लंबमानामुरसि तव तथा भावये रत्नमालाम् ॥6॥

अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं
लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं
ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिंकिणीमंडितं त्वाम् ॥7॥

ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः
विश्वक्षोभं विशंक्य ध्रुवमनिशमुभौ पीतचेलावृतांगौ ।
आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग-
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जंघे निषेवे ॥8॥

मंजीरं मंजुनादैरिव पदभजनं श्रेय इत्यालपंतं
पादाग्रं भ्रांतिमज्जत्प्रणतजनमनोमंदरोद्धारकूर्मम् ।
उत्तुंगाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां
संतापध्वांतहंत्रीं ततिमनुकलये मंगलामंगुलीनाम् ॥9॥

योगींद्राणां त्वदंगेष्वधिकसुमधुरं मुक्तिभाजां निवासो
भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिंधो
हृत्वा निश्शेषतापान् प्रदिशतु परमानंदसंदोहलक्ष्मीम् ॥10॥

अज्ञात्वा ते महत्वं यदिह निगदितं विश्वनाथ क्षमेथाः
स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् ।
द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन
स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥11॥

बारम्बार सोधिने प्रश्नहरू

What is नारायणीयं दशक 100 - भगवतः केशादिपादवर्णनम्?

नारायणीयं दशक 100 - भगवतः केशादिपादवर्णनम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 100 - भगवतः केशादिपादवर्णनम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 100 - भगवतः केशादिपादवर्णनम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook