श्री नरसिंह कवचम्


नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥

सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥

विवृतास्यं त्रिनयनं शरदिंदुसमप्रभम् ।
लक्ष्म्यालिंगितवामांगं विभूतिभिरुपाश्रितम् ॥ 3 ॥

चतुर्भुजं कोमलांगं स्वर्णकुंडलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥ [रत्नकेयूरशोभितम्]

तप्तकांचनसंकाशं पीतनिर्मलवासनम् ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥

विराजितपदद्वंद्वं शंखचक्रादिहेतिभिः ।
गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥ 6 ॥

स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षात्मसंभवः ॥ 7 ॥

सर्वगोऽपि स्तंभवासः फालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ 8 ॥

स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ 9 ॥

सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विंदुवदनः सदा प्रह्लादवंदितः ॥ 10 ॥

नृसिंहः पातु मे कंठं स्कंधौ भूभरणांतकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ 11 ॥

करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ 12 ॥

मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ 13 ॥

ब्रह्मांडकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरूपधृक् ॥ 14 ॥

ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ 15 ॥

सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ 16 ॥

महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ 17 ॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ 18 ॥

ईशान्यां पातु भद्रो मे सर्वमंगलदायकः ।
संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी ॥ 19 ॥

इदं नृसिंहकवचं प्रह्लादमुखमंडितम् ।
भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ 20 ॥

पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21 ॥

सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यंतरिक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22 ॥

वृश्चिकोरगसंभूतविषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23 ॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24 ॥

देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसंध्यं त्रिसंध्यं वा यः पठेन्नियतो नरः ॥ 25 ॥

सर्वमंगलमांगल्यं भुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ॥ 26 ॥

कवचस्यास्य मंत्रस्य मंत्रसिद्धिः प्रजायते ।
अनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम् ॥ 27 ॥

तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥ 28 ॥

प्राशयेद्यो नरो मंत्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यंति ये च स्युः कुक्षिसंभवाः ॥ 29 ॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिंतितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30 ॥

गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हठंतं
रूप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं क्षिपंतम् ।
क्रंदंतं रोषयंतं दिशि दिशि सततं संहरंतं भरंतं
वीक्षंतं घूर्णयंतं शरनिकरशतैर्दिव्यसिंहं नमामि ॥

इति श्रीब्रह्मांडपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।

बारम्बार सोधिने प्रश्नहरू

What is श्री नरसिंह कवचम्?

श्री नरसिंह कवचम् is a Vishnu Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read श्री नरसिंह कवचम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री नरसिंह कवचम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook