कठोपनिषद् – अध्याय 1, वल्ली 2
अध्याय 1
वल्ली 2
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः।
तयोः श्रेय आददानस्य साधुर्भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥1॥
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मंदो योगक्षेमाद्वृणीते ॥2॥
स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः।
नैतां सृंकां-विँत्तमयीमवाप्तो यस्यां मज्जंति बहवो मनुष्याः ॥3॥
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपंत ॥4॥
अविद्यायामंतरे वर्तमानाः स्वयं धीराः पंडितम्मन्यमानाः।
दंद्रम्यमाणाः परियंति मूढा अंधेनैव नीयमाना यथांधाः ॥5॥
न सांपरायः प्रतिभाति बालं प्रमाद्यंतं-विँत्तमोहेन मूढम्।
अयं-लोँको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥6॥
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वंतोऽपि बहवो यं न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥7॥
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिंत्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ॥8॥
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा ॥9॥
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥10॥
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानंत्यमभयस्य पारम्।
स्तोममह-दुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥11॥
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥12॥
एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥13॥
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥14॥
सर्वे वेदा यत्पदमामनंति तपांसि सर्वाणि च यद्वदंति।
यदिच्छंतो ब्रह्मचर्यं चरंति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ॥15॥
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥16॥
एतदालंबनं श्रेष्ठमेतदालंबनं परम्।
एतदालंबनं ज्ञात्वा ब्रह्मलोके महीयते ॥17॥
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥18॥
हंता चेन्मन्यते हंतुं हतश्चेन्मन्यते हतम्।
उभौ तौ न विजानीतो नायं हंति न हन्यते ॥19॥
अणोरणीयान्महतो महीयानात्मास्य जंतोर्निहितो गुहायाम्।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥20॥
आसीनो दूरं-व्रँजति शयानो याति सर्वतः।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥21॥
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्।
महांतं-विँभुमात्मानं मत्वा धीरो न शोचति ॥22॥
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥23॥
नाविरतो दुश्चरितान्नाशांतो नासमाहितः।
नाशांतमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥24॥
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥25॥
बारम्बार सोधिने प्रश्नहरू
What is कठोपनिषद् - अध्याय 1, वल्ली 2?
कठोपनिषद् - अध्याय 1, वल्ली 2 is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read कठोपनिषद् - अध्याय 1, वल्ली 2 online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download कठोपनिषद् - अध्याय 1, वल्ली 2 as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.