गोपिका गीता (भागवत पुराण)


गोप्य ऊचुः ।
जयति तेऽधिकं जन्मना व्रजः
श्रयत इंदिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ॥ 1॥

शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥ 2॥

विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः ॥ 3॥

न खलु गोपिकानंदनो भवा-
नखिलदेहिनामंतरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥ 4॥

विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कांत कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥ 5॥

व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥ 6॥

प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृंधि हृच्छयम् ॥ 7॥

मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥ 8॥

तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमंगलं श्रीमदाततं
भुवि गृणंति ते भूरिदा जनाः ॥ 9॥

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमंगलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयंति हि ॥ 10॥

चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुंदरं नाथ ते पदम् ।
शिलतृणांकुरैः सीदतीति नः
कलिलतां मनः कांत गच्छति ॥ 11॥

दिनपरिक्षये नीलकुंतलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥ 12॥

प्रणतकामदं पद्मजार्चितं
धरणिमंडनं ध्येयमापदि ।
चरणपंकजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥ 13॥

सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुंबितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥ 14॥

अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुंतलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ 15॥

पतिसुतान्वयभ्रातृबांधवा-
नतिविलंघ्य तेऽंत्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥ 16॥

रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥ 17॥

व्रजवनौकसां व्यक्तिरंग ते
वृजिनहंत्र्यलं विश्वमंगलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥ 18॥

यत्ते सुजातचरणांबुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ 19॥

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कंधे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥

बारम्बार सोधिने प्रश्नहरू

What is गोपिका गीता (भागवत पुराण)?

गोपिका गीता (भागवत पुराण) is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read गोपिका गीता (भागवत पुराण) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download गोपिका गीता (भागवत पुराण) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook