गीतगोविंदं षष्टः सर्गः – कुंठ वैकुंठः
॥ षष्ठः सर्गः ॥
॥ कुंठवैकुंठः ॥
अथ तां गंतुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविंदे मनसिजमंदे सखी प्राह ॥ 37 ॥
॥ गीतं 12 ॥
पश्यति दिशि दिशि रहसि भवंतम् ।
तदधरमधुरमधूनि पिबंतम् ॥
नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे – ध्रुवम् ॥ 1 ॥
त्वदभिसरणरभसेन वलंती ।
पतति पदानि कियंति चलंती ॥ 2 ॥
विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ 3 ॥
मुहुरवलोकितमंडनलीला ।
मधुरिपुरहमिति भावनशीला ॥ 4 ॥
त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ 5 ॥
श्लिष्यति चुंबति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥ 6 ॥
भवति विलंबिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥ 7 ॥
श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥ 8 ॥
विपुलपुलकपालिः स्फीतसीत्कारमंत-र्जनितजडिमकाकुव्याकुलं व्याहरंती ।
तव कितव विधत्तेऽमंदकंदर्पचिंतां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ 38 ॥
अंगेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशंकते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ 39 ॥
किं विश्राम्यसि कृष्णभोगिभवने भांडीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानंदनंदास्पदम्।
रधायावचनं तदध्वगमुखान्नंदांतिकेगोपतो गोविंदस्यजयंति सायमतिथिप्राशस्त्यगर्भागिरः॥ 40 ॥
॥ इति गीतगोविंदे वासकसज्जावर्णने कुंठवैकुंठो नाम षष्ठः सर्गः ॥
बारम्बार सोधिने प्रश्नहरू
What is गीतगोविंदं षष्टः सर्गः - कुंठ वैकुंठः?
गीतगोविंदं षष्टः सर्गः - कुंठ वैकुंठः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read गीतगोविंदं षष्टः सर्गः - कुंठ वैकुंठः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गीतगोविंदं षष्टः सर्गः - कुंठ वैकुंठः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.