गीतगोविंदं एकादशः सर्गः – सानंद दामोदरः
॥ एकादशः सर्गः ॥
॥ सानंददामोदरः ॥
सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुंजशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ 59 ॥
॥ गीतं 20 ॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
संप्रति मंजुलवंजुलसीमनि केलिशयनमनुयातम् ॥
मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ 1 ॥
घनजघनस्तनभारभरे दरमंथरचरणविहारम् ।
मुखरितमणीमंजीरमुपैहि विधेहि मरालविकारम् ॥ 2 ॥
शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।
कुसुमशरासनशासनबंदिनि पिकनिकरे भज भावम् ॥ 3 ॥
अनिलतरलकिसलयनिकरेण करेण लतानिकुरंबम् ।
प्रेरणमिव करभोरु करोति गतिं प्रतिमुंच विलंबम् ॥ 4 ॥
स्फुरितमनंगतरंगवशादिव सूचितहरिपरिरंभम् ।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुंभम् ॥ 5 ॥
अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
चंडि रसितरशनारवडिंडिममभिसर सरसमलज्जम् ॥ 6 ॥
स्मरशरसुभगनखेन करेण सखीमवलंब्य सलीलम् ।
चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ 7 ॥
श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
हरिविनिहितमनसामधितिष्ठतु कंठतटीमविरामम् ॥ 8 ॥
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यंगमालिंगनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिंताकुलः ।
स त्वां पश्यति वेपते पुलकयत्यानंदति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुंजे निकुंजे प्रियः ॥ 60 ॥
अक्ष्णोर्निक्षिपदंजनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।
धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुंजे सखि ध्वांतं नीलनिचोलचारु सदृशां प्रत्यंगमालिंगति ॥ 61 ॥
काश्मीरगौरवपुषामभिसारिकाणां आबद्धरेखमभितो रुचिमंजरीभिः ।
एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ 62 ॥
हारावलीतरलकांचनकांचिदाम-केयूरकंकणमणिद्युतिदीपितस्य ।
द्वारे निकुंजनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ 63 ॥
॥ गीतं 21 ॥
मंजुतरकुंजतलकेलिसदने ।
विलस रतिरभसहसितवदने ॥
प्रविश राधे माधवसमीपमिह ॥ 1 ॥
नवभवदशोकदलशयनसारे ।
विलस कुचकलशतरलहारे ॥ 2 ॥
कुसुमचयरचितशुचिवासगेहे ।
विलस कुसुमसुकुमारदेहे ॥ 3 ॥
चलमलयवनपवनसुरभिशीते ।
विलस रसवलितललितगीते ॥ 4 ॥
मधुमुदितमधुपकुलकलितरावे ।
विलस मदनरससरसभावे ॥ 5 ॥
मधुतरलपिकनिकरनिनदमुखरे ।
विलस दशनरुचिरुचिरशिखरे ॥ 6 ॥
वितत बहुवल्लिनवपल्लवघने ।
विलस चिरमलसपीनजघने ॥ 7 ॥
विहितपद्मावतीसुखसमाजे ।
भणति जयदेवकविराजे ॥ 8 ॥
त्वां चित्तेन चिरं वहन्नयमतिश्रांतो भृशं तापितः कंदर्पेण तु पातुमिच्छति सुधासंबाधबिंबाधरम् ।
अस्यांगं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-क्रीते दास इवोपसेवितपदांभोजे कुतः संभ्रमः ॥ 64 ॥
सा ससाध्वससानंदं गोविंदे लोललोचना ।
सिंजानमंजुमंजीरं प्रविवेश निवेशनम् ॥ 65 ॥
॥ गीतं 22 ॥
राधावदनविलोकनविकसितविविधविकारविभंगम् ।
जलनिधिमिव विधुमंडलदर्शनतरलिततुंगतरंगम् ॥
हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनंगनिवासम् ॥ 1 ॥
हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
स्फुटतरफेनकदंबकरंबितमिव यमुनाजलपूरम् ॥ 2 ॥
श्यामलमृदुलकलेवरमंडलमधिगतगौरदुकूलम् ।
नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ 3 ॥
तरलदृगंचलचलनमनोहरवदनजनितरतिरागम् ।
स्फुटकमलोदरखेलितखंजनयुगमिव शरदि तडागम् ॥ 4 ॥
वदनकमलपरिशीलनमिलितमिहिरसमकुंडलशोभम् ।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ 5 ॥
शशिकिरणच्छुरितोदरजलधरसुंदरसकुसुमकेशम् ।
तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ 6 ॥
विपुलपुलकभरदंतुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ 7 ॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ 8 ॥
अतिक्रम्यापांगं श्रवणपथपर्यंतगमन-प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदांबुप्रसर इव हर्षाश्रुनिकरः ॥ 66 ॥
भवंत्यास्तल्पांतं कृतकपटकंडूतिपिहित-स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
प्रियास्यं पश्यंत्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ 67 ॥
॥ इति श्रीगीतगोविंदे राधिकामिलने सानंददामोदरो नामैकादशः सर्गः ॥
बारम्बार सोधिने प्रश्नहरू
What is गीतगोविंदं एकादशः सर्गः - सानंद दामोदरः?
गीतगोविंदं एकादशः सर्गः - सानंद दामोदरः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read गीतगोविंदं एकादशः सर्गः - सानंद दामोदरः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गीतगोविंदं एकादशः सर्गः - सानंद दामोदरः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.