गीतगोविंदं दशमः सर्गः – चतुर चतुर्भुजः


॥ दशमः सर्गः ॥
॥ चतुरचतुर्भुजः ॥

अत्रांतरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनांते सानंदगद्गदपदं हरिरित्युवाच ॥ 53 ॥

॥ गीतं 19 ॥

वदसि यदि किंचिदपि दंतरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
स्फुरदधरसीधवे तव वदनचंद्रमा रोचयतु लोचनचकोरम् ॥
प्रिये चारुशीले मुंच मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ 1 ॥

सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।
घटय भुजबंधनं जनय रदखंडनं येन वा भवति सुखजातम् ॥ 2 ॥

त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ 3 ॥

नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रंजयसि कृष्णमिदमेतदनुरूपम् ॥ 4 ॥

स्फुरतु कुचकुंभयोरुपरि मणिमंजरी रंजयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमंडले घोषयतु मन्मथनिदेशम् ॥ 5 ॥

स्थलकमलगंजनं मम हृदयरंजनं जनितरतिरंगपरभागम् ।
भण मसृणवाणि करवाणि पदपंकजं सरसलसदलक्तकरागम् ॥ 6 ॥

स्मरगरलखंडनं मम शिरसि मंडनं देहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ 7 ॥

इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।
जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ 8 ॥

परिहर कृतातंके शंकां त्वया सततं घन-स्तनजघनयाक्रांते स्वांते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममांतरं स्तनभरपरीरंभारंभे विधेहि विधेयताम् ॥ 54 ॥

मुग्धे विधेहि मयि निर्दयदंतदंश-दोर्वल्लिबंधनिबिडस्तनपीडनानि ।
चंडि त्वमेव मुदमंच न पंचबाण-चंडालकांडदलनादसवः प्रयांतु ॥ 55 ॥

व्यथयति वृथा मौनं तन्वि प्रपंचय पंचमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावद्विमुंच न मुंच मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ 56 ॥

बंधूकद्युतिबांधवोऽयमधरः स्निग्धो मधूकच्चवि-र्गंडश्चंडि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुंदाभदांति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ 57 ॥

दृशौ तव मदालसे वदनमिंदुसंदीपकं गतिर्जनमनोरमा विधुतरंभमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ 58 ॥

॥ इति श्रीगीतगोविंदे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥

बारम्बार सोधिने प्रश्नहरू

What is गीतगोविंदं दशमः सर्गः - चतुर चतुर्भुजः?

गीतगोविंदं दशमः सर्गः - चतुर चतुर्भुजः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read गीतगोविंदं दशमः सर्गः - चतुर चतुर्भुजः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download गीतगोविंदं दशमः सर्गः - चतुर चतुर्भुजः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook