गीतगोविंदं प्रथमः सर्गः – सामोद दामोदरः
॥ गीतगोविंदम् ॥
॥ अष्टपदी ॥
॥ श्री गोपालक ध्यानम् ॥
यद्गोपीवदनेंदुमंडनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिंदीवरम् ।
यन्निर्वाणविधानसाधनविधौ सिद्धांजनं योगिनां तन्नश्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ 1 ॥
॥ श्री जयदेव ध्यानम् ॥
राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् ।
श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ 2 ॥
श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानंदाब्धिमग्नोऽनिशम् ॥
लोके सत्कविराजराज इति यः ख्यातो दयांभोनिधिः तं वंदे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ 3 ॥
॥ प्रथमः सर्गः ॥
॥ सामोददामोदरः ॥
मेघैर्मेदुरमंबरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नंदनिदेशितश्चलितयोः प्रत्यध्वकुंजद्रुमं राधामाधवयोर्जयंति यमुनाकूले रहःकेलयः ॥ 1 ॥
वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।
श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबंधम् ॥ 2 ॥
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकांतपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ 3 ॥
वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
शृंगारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ 4 ॥
॥ गीतं 1 ॥
प्रलयपयोधिजले धृतवानसि वेदम् ।
विहितवहित्रचरित्रमखेदम् ॥
केशव धृतमीनशरीर जय जगदीश हरे ॥ 1 ॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ॥
केशव धृतकच्छपरूप जय जगदीश हरे ॥ 2 ॥
वसति दशनशिखरे धरणी तव लग्ना ।
शशिनि कलंककलेव निमग्ना ॥
केशव धृतसूकररूप जय जगदीश हरे ॥ 3 ॥
तव करकमलवरे नखमद्भुतशृंगम् ।
दलितहिरण्यकशिपुतनुभृंगम् ॥
केशव धृतनरहरिरूप जय जगदीश हरे ॥ 4 ॥
छलयसि विक्रमणे बलिमद्भुतवामन ।
पदनखनीरजनितजनपावन ॥
केशव धृतवामनरूप जय जगदीश हरे ॥ 5 ॥
क्षत्रियरुधिरमये जगदपगतपापम् ।
स्नपयसि पयसि शमितभवतापम् ॥
केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ 6 ॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
दशमुखमौलिबलिं रमणीयम् ॥
केशव धृतरामशरीर जय जगदीश हरे ॥ 7 ॥
वहसि वपुषि विशदे वसनं जलदाभम् ।
हलहतिभीतिमिलितयमुनाभम् ॥
केशव धृतहलधररूप जय जगदीश हरे ॥ 8 ॥
निंदसि यज्ञविधेरहह श्रुतिजातम् ।
सदयहृदयदर्शितपशुघातम् ॥
केशव धृतबुद्धशरीर जय जगदीश हरे ॥ 9 ॥
म्लेच्छनिवहनिधने कलयसि करवालम् ।
धूमकेतुमिव किमपि करालम् ॥
केशव धृतकल्किशरीर जय जगदीश हरे ॥ 10 ॥
श्रीजयदेवकवेरिदमुदितमुदारम् ।
शृणु सुखदं शुभदं भवसारम् ॥
केशव धृतदशविधरूप जय जगदीश हरे ॥ 11 ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ 5 ॥
॥ गीतं 2 ॥
श्रितकमलाकुचमंडल! धृतकुंडल! ।
कलितललितवनमाल! जय, जय, देव! हरे! ॥ 1 ॥
दिनमणीमंडलमंडन! भवखंडन! ।
मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ 2 ॥
कालियविषधरगंजन! जनरंजन! ।
यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ 3 ॥
मधुमुरनरकविनाशन! गरुडासन! ।
सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ 4 ॥
अमलकमलदललोचन! भवमोचन्! ।
त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ 5 ॥
जनकसुताकृतभूषण! जितदूषण! ।
समरशमितदशकंठ! जय, जय, देव! हरे! ॥ 6 ॥
अभिनवजलधरसुंदर! धृतमंदर! ।
श्रीमुखचंद्रचकोर! जय, जय, देव! हरे! ॥ 7 ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ।
मंगलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ 8 ॥
पद्मापयोधरतटीपरिरंभलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनंगखेद-स्वेदांबुपूरमनुपूरयतु प्रियं वः ॥ 6 ॥
वसंते वासंतीकुसुमसुकुमारैरवयवै-र्भ्रमंतीं कांतारे बहुविहितकृष्णानुसरणाम् ।
अमंदं कंदर्पज्वरजनितचिंताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ 7 ॥
॥ गीतं 3 ॥
ललितलवंगलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरंबितकोकिलकूजितकुंजकुटीरे ॥
विहरति हरिरिह सरसवसंते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरंते ॥ 1 ॥
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ 2 ॥
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ 3 ॥
मदनमहीपतिकनकदंडरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ 4 ॥
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृंतनकुंतमुखाकृतिकेतकदंतुरिताशे ॥ 5 ॥
माधविकापरिमलललिते नवमालिकजातिसुगंधौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबंधौ ॥ 6 ॥
स्फुरदतिमुक्तलतापरिरंभणमुकुलितपुलकितचूते ।
बृंदावनविपिने परिसरपरिगतयमुनाजलपूते ॥ 7 ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसंतसमयवनवर्णनमनुगतमदनविकारम् ॥ 8 ॥
दरविदलितमल्लीवल्लिचंचत्पराग-प्रकटितपटवासैर्वासयन् काननानि ।
इह हि दहति चेतः केतकीगंधबंधुः प्रसरदसमबाणप्राणवद्गंधवाहः ॥ 8 ॥
उन्मीलन्मधुगंधलुब्धमधुपव्याधूतचूतांकुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयंते पथिकैः कथंकथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ 9 ॥
अनेकनारीपरिरंभसंभ्रम-स्फुरन्मनोहारिविलासलालसम् ।
मुरारिमारादुपदर्शयंत्यसौ सखी समक्षं पुनराह राधिकाम् ॥ 10 ॥
॥ गीतं 4 ॥
चंदनचर्चितनीलकलेबरपीतवसनवनमाली ।
केलिचलन्मणिकुंडलमंडितगंडयुगस्मितशाली ॥
हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ 1 ॥
पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।
गोपवधूरनुगायति काचिदुदंचितपंचमरागम् ॥ 2 ॥
कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ 3 ॥
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चारु चुचुंब नितंबवती दयितं पुलकैरनुकूले ॥ 4 ॥
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मंजुलवंजुलकुंजगतं विचकर्ष करेण दुकूले ॥ 5 ॥
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ 6 ॥
श्लिष्यति कामपि चुंबति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ 7 ॥
श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।
वृंदावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ 8 ॥
विश्वेषामनुरंजनेन जनयन्नानंदमिंदीवर-श्रेणीश्यामलकोमलैरुपनयन्नंगैरनंगोत्सवम् ।
स्वच्छंदं व्रजसुंदरीभिरभितः प्रत्यंगमालिंकितः शृंगारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ 11 ॥
अद्योत्संगवसद्भुजंगकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखंडशैलानिलः ।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलंति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ 12 ॥
रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमांधया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-व्याजादुद्भटचुंबितस्मितमनोहरी हरिः पातु वः ॥ 13 ॥
॥ इति श्रीगीतगोविंदे सामोददामोदरो नाम प्रथमः सर्गः ॥
बारम्बार सोधिने प्रश्नहरू
What is गीतगोविंदं प्रथमः सर्गः - सामोद दामोदरः?
गीतगोविंदं प्रथमः सर्गः - सामोद दामोदरः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read गीतगोविंदं प्रथमः सर्गः - सामोद दामोदरः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गीतगोविंदं प्रथमः सर्गः - सामोद दामोदरः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.