घट स्तवः


आनंदमंथरपुरंदरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य ।
पादांबुजं भवतु मे विजयाय मंजु-
-मंजीरशिंजितमनोहरमंबिकायाः ॥ 1 ॥

देवि त्र्यंबकपत्नि पार्वति सति त्रैलोक्यमातः शिवे
शर्वाणि त्रिपुरे मृडानि वरदे रुद्राणि कात्यायनि ।
भीमे भैरवि चंडि शर्वरिकले कालक्षये शूलिनि
त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥ 2 ॥

देवि त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम-
-ंत्याजन्मस्फुरदंघ्रिपीठविलुठत्कोटीरकोटिच्छटाः ।
यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते
यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायंति वामभ्रुवः ॥ 3 ॥

उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव
प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवार्ता इव ।
ये ध्यायंति हि शैलराजतनयां धन्यास्त एवाग्रतः
त्यक्तोपाधिविवृद्धरागमनसो ध्यायंति तान्सुभ्रुवः ॥ 4 ॥

ध्यायंति ये क्षणमपि त्रिपुरे हृदि त्वां
लावण्ययौवनधनैरपि विप्रयुक्ताः ।
ते विस्फुरंति ललितायतलोचनानां
चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ 5 ॥

एतं किं नु दृशा पिबाम्युत विशाम्यस्यांगमंगैर्निजैः
किं वाऽमुं निगराम्यनेन सहसा किं वैकतामाश्रये ।
यस्येत्थं विवशो विकल्पललिताकूतेन योषिज्जनः
किं तद्यन्न करोति देवि हृदये यस्य त्वमावर्तसे ॥ 6 ॥

विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः
शब्दः शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः ।
इत्थं सत्यपि शक्नुवंति यदिमाः क्षुद्रा रुजो बाधितुं
त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥ 7 ॥

इंदोर्मध्यगतां मृगांकसदृशच्छायां मनोहारिणीं
पांडूत्फुल्लसरोरुहासनगता स्निग्धप्रदीपच्छविम् ।
वर्षंतीममृतं भवानि भवतीं ध्यायंति ये देहिनः
ते निर्मुक्तरुजो भवंति रिपवः प्रोज्झंति तांदूरतः ॥ 8 ॥

पूर्णेंदोः शकलैरिवातिबहलैः पीयूषपूरैरिव
क्षीराब्धेर्लहरीभरैरिव सुधापंकस्य पिंडैरिव ।
प्रालेयैरिव निर्मितं तव वपुर्ध्यायंति ये श्रद्धया
चित्तांतर्निहितार्तितापविपदस्ते संपदं बिभ्रति ॥ 9 ॥

ये संस्मरंति तरलां सहसोल्लसंतीं
त्वां ग्रंथिपंचकभिदं तरुणार्कशोणाम् ।
रागार्णवे बहलरागिणि मज्जयंतीं
कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ 10 ॥

लाक्षारसस्नपितपंकजतंतुतन्वीं
अंतः स्मरत्यनुदिनं भवतीं भवानि ।
यस्तं स्मरप्रतिममप्रतिमस्वरूपाः
नेत्रोत्पलैर्मृगदृशो भृशमर्चयंति ॥ 11 ॥

स्तुमस्त्वां वाचमव्यक्तां हिमकुंदेंदुरोचिषम् ।
कदंबमालां बिभ्राणामापादतललंबिनीम् ॥ 12 ॥

मूर्ध्नींदोः सितपंकजासनगतां प्रालेयपांडुत्विषं
वर्षंतीममृतं सरोरुहभुवो वक्त्रेऽपि रंध्रेऽपि च ।
अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च
त्वामेवं स्मरतः स्मरारिदयिते वाक्सर्वतो वल्गति ॥ 13 ॥

ददातीष्टान्भोगान् क्षपयति रिपून्हंति विपदो
दहत्याधीन्व्याधीन् शमयति सुखानि प्रतनुते ।
हठादंतर्दुःखं दलयति पिनष्टीष्टविरहं
सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ 14 ॥

यस्त्वां ध्यायति वेत्ति विंदति जपत्यालोकते चिंतय-
-त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति ।
यश्च त्र्यंबकवल्लभे तव गुणानाकर्णयत्यादरात्
तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ 15 ॥

किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां
का का कीर्तिः कुलकमलिनि ख्याप्यते न स्तुतायाम् ।
का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां
कं कं योगं त्वयि न चिनुते चित्तमालंबितायाम् ॥ 16 ॥

ये देवि दुर्धरकृतांतमुखांतरस्थाः
ये कालि कालघनपाशनितांतबद्धाः ।
ये चंडि चंडगुरुकल्मषसिंधुमग्नाः
तान्पासि मोचयसि तारयसि स्मृतैव ॥ 17 ॥

लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपंकजरजांसि चिरं जयंति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुंपंति दैवलिखितानि दुरक्षराणि ॥ 18 ॥

रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते
यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियंते गृहाः ।
भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां
उन्निद्रांबुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ 19 ॥

याचे न कंचन न कंचन वंचयामि
सेवे न कंचन निरस्तसमस्तदैन्यः ।
श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्रीः
देवी हृदि स्फुरति मे कुलकामधेनुः ॥ 20 ॥

नमामि यामिनीनाथलेखालंकृतकुंतलाम् ।
भवानीं भवसंतापनिर्वापणसुधानदीम् ॥ 21 ॥

इति श्रीकालिदास विरचित पंचस्तव्यां तृतीयः घटस्तवः ।

बारम्बार सोधिने प्रश्नहरू

What is घट स्तवः?

घट स्तवः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read घट स्तवः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download घट स्तवः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook