श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)


ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरंगै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ।
स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ नम॑स्ते ग॒णप॑तये ।
त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।
त्वमे॒व के॒वलं॒ कर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ धर्ता॑ऽसि ।
त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि ।
त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ 1 ॥
ऋ॑तं-वँ॒च्मि । स॑त्यं-वँ॒च्मि ॥ 2 ॥

अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्᳚ ।
अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ ।
अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् ।
अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।
अव॑ द॒क्षिणात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् ।
अवाध॒रात्ता᳚त् । सर्वतो मां पाहि पाहि॑ समं॒तात् ॥ 3 ॥

त्वं-वाँङ्मय॑स्त्वं चिन्म॒यः ।
त्वमानंदमय॑स्त्वं ब्रह्म॒मयः ।
त्वं सच्चिदानंदाऽद्वि॑तीयो॒ऽसि ।
त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ 4 ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते ।
सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
सर्वं जगदिदं त्वयि लय॑मेष्य॒ति ।
सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः ।
त्वं चत्वारि वा᳚क्पदा॒नि ॥ 5 ॥

त्वं गु॒णत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः ।
त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः ।
त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।
त्वां-योँगिनो ध्यायं॑ति नि॒त्यम् ।
त्वं ब्रह्मा त्वं-विँष्णुस्त्वं रुद्रस्त्वमिंद्रस्त्वमग्निस्त्वं-वाँयुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ स्वरोम् ॥ 6 ॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं᳚ स्तदनं॒तरम् ।
अनुस्वारः प॑रत॒रः । अर्धें᳚दुल॒सितम् ।
तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् ।
गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।
अनुस्वारश्चां᳚त्यरू॒पम् । बिंदुरुत्त॑ररू॒पम् ।
नादः॑ संधा॒नम् । सग्ंहि॑ता सं॒धिः ।
सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः ।
निचृद्गाय॑त्रीच्छं॒दः । श्री महागणपति॑र्देवता ।
ॐ गं ग॒णप॑तये नमः ॥ 7 ॥

एकदं॒ताय॑ वि॒द्महे॑ वक्रतुं॒डाय॑ धीमहि ।
तन्नो॑ दंतिः प्रचो॒दया᳚त् ॥ 8 ॥

एकदं॒तं च॑तुर्​ह॒स्तं॒ पा॒शमं॑कुश॒धारि॑णम् ।
रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑-लँं॒बोद॑रं शू॒र्प॒कर्णकं॑ रक्त॒वास॑सम् ।
रक्त॑गं॒धानु॑लिप्तां॒गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कंपि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् ।
आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां-वँ॑रः ॥ 9 ॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लंबोदरायैकदंताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नमः ॥ 10 ॥

एतदथर्वशीर्​षं-योँऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते ।
स सर्वविघ्नै᳚र्न बा॒ध्यते । स सर्वतः सुख॑मेध॒ते ।
स पंचमहापापा᳚त् प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति ।
प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सायं प्रातः प्र॑युंजा॒नो॒ पापोऽपा॑पो भ॒वति ।
सर्वत्राधीयानोऽपवि॑घ्नो भवति । धर्मार्थकाममोक्षं॑ च विं॒दति ।
इदमथर्वशीर्​षमशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति ।
सहस्रावर्तनाद्यं-यंँ काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ 11 ॥

अनेन गणपतिम॑भिषिं॒चति । स वा᳚ग्मी भ॒वति ।
चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति ।
इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्या॒चर॑णं-विँ॒द्यान्न बिभेति कदा॑चने॒ति ॥ 12 ॥

यो दूर्वांकु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति ।
यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति ।
यो मोदकसहस्रे॑ण य॒जति स वांछितफलम॑वाप्नो॒ति ।
यः साज्य समि॑द्भिर्य॒जति स सर्वं-लँभते स स॑र्वं-लँ॒भते ॥ 13 ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।
सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धमं॑त्रो भ॒वति ।
महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते ।
महापापा᳚त् प्रमु॒च्यते । [महाप्रत्यवाया᳚त् प्रमु॒च्यते । ]
स सर्व॑विद्भवति स सर्व॑विद्भ॒वति ।
य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ॥ 14 ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरंगै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ।
स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

बारम्बार सोधिने प्रश्नहरू

What is श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)?

श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) is a Ganesha Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook