चाणक्य नीति – दशमोऽध्यायः


धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥ 01 ॥

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत् ॥ 02 ॥

सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् ।
सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥ 03 ॥

कवयः किं न पश्यंति किं न भक्षंति वायसाः ।
मद्यपाः किं न जल्पंति किं न कुर्वंति योषितः ॥ 04 ॥

रंकं करोति राजानं राजानं रंकमेव च ।
धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥ 05 ॥

लुब्धानां याचकः शत्रुर्मूर्खानां बोधको रिपुः ।
जारस्त्रीणां पतिः शत्रुश्चौराणां चंद्रमा रिपुः ॥ 06 ॥

येषां न विद्या न तपो न दानं
ज्ञानं न शीलां न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता
मनुष्यरूपेण मृगाश्चरंति ॥ 07 ॥

अंतःसारविहीनानामुपदेशो न जायते ।
मलयाचलसंसर्गान्न वेणुश्चंदनायते ॥ 08 ॥

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ 09 ॥

दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले ।
अपानं शातधा धौतं न श्रेष्ठमिंद्रियं भवेत् ॥ 10 ॥

आप्तद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः ।
राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥ 11 ॥

वरं वनं व्याघ्रगजेंद्रसेवितं
द्रुमालयं पत्रफलांबुसेवनम् ।
तृणेषु शय्या शतजीर्णवल्कलं
न बंधुमध्ये धनहीनजीवनम् ॥ 12 ॥

विप्रो वृक्षस्तस्य मूलं च संध्या
वेदः शाखा धर्मकर्माणि पत्रम् ।
तस्मान्मूलं यत्नतो रक्षणीयं
छिन्ने मूले नैव शाखा न पत्रम् ॥ 13 ॥

माता च कमला देवी पिता देवो जनार्दनः ।
बांधवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥ 14 ॥

एकवृक्षसमारूढा नानावर्णा विहंगमाः ।
प्रभाते दिक्षु दशसु यांति का तत्र वेदना ॥ 15 ॥

बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् ।
वने सिंहो यदोन्मत्तः मशकेन निपातितः ॥ 16 ॥

का चिंता मम जीवने यदि हरिर्विश्वंभरो गीयते
नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे ।
इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं
त्वत्पादांबुजसेवनेन सततं कालो मया नीयते ॥ 17 ॥

गीर्वाणवाणीषु विशिष्टबुद्धि-
स्तथापि भाषांतरलोलुपोऽहम् ।
यथा सुधायाममरेषु सत्यां
स्वर्गांगनानामधरासवे रुचिः ॥ 18 ॥

अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः ।
पयसोऽष्टगुणं मांसां मांसाद्दशगुणं घृतम् ॥ 19 ॥

शोकेन रोगा वर्धंते पयसा वर्धते तनुः ।
घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥ 20 ॥

बारम्बार सोधिने प्रश्नहरू

What is चाणक्य नीति - दशमोऽध्यायः?

चाणक्य नीति - दशमोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Nepali. Use the language selector to view another available edition.

Can I read चाणक्य नीति - दशमोऽध्यायः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download चाणक्य नीति - दशमोऽध्यायः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook