ब्रह्म संहिता
ईश्वरः परमः कृष्णः सच्चिदानंदविग्रहः ।
अनादिरादिर्गोविंदः सर्वकारणकारणम् ॥ 1 ॥
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ।
तत्कर्णिकारं तद्धाम तदनंताशसंभवम् ॥ 2 ॥
कर्णिकारं महद्यंत्रं षट्कोणं वज्रकीलकम्
षडंग षट्पदीस्थानं प्रकृत्या पुरुषेण च ।
प्रेमानंदमहानंदरसेनावस्थितं हि यत्
ज्योतीरूपेण मनुना कामबीजेन संगतम् ॥ 3 ॥
तत्किंजल्कं तदंशानां तत्पत्राणि श्रियामपि ॥ 4 ॥
चतुरस्रं तत्परितः श्वेतद्वीपाख्यमद्भुतम् ।
चतुरस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् ।
चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् ।
शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि ।
अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा ।
मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् ।
श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः ।
शोभितं शक्तिभिस्ताभिरद्भुताभिः समंततः ॥ 5 ॥
एवं ज्योतिर्मयो देवः सदानंदं परात्परः ।
आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः ॥ 6 ॥
माययाऽरममाणस्य न वियोगस्तया सह ।
आत्मना रमया रेमे त्यक्तकालं सिसृक्षया ॥ 7 ॥
नियतिः सा रमादेवी तत्प्रिया तद्वशं तदा ।
तल्लिंगं भगवान् शंभुर्जोतिरूपः सनातनः ।
या योनिः सापराशक्तिः कामो बीजं महद्धरेः ॥ 8 ॥
लिंगयोन्यात्मिका जाता इमा माहेश्वरी प्रजाः ॥ 9 ॥
शक्तिमान् पुरुषः सोऽयं लिंगरूपी महेश्वरः ।
तस्मिन्नाविरभूल्लिंगे महाविष्णुर्जगत्पतिः ॥ 10 ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रसूः ॥ 11 ॥
नारायणः स भगवानापस्तस्मात्सनातनात् ।
आविरासीत्कारणार्णो निधिः संकर्षणात्मकः ।
योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ 12 ॥
तद्रोमबिल जालेषु बीजं संकर्षणस्य च ।
हैमान्यंडानि जातानि महाभूतावृतानि तु ॥ 13 ॥
प्रत्यंडमेवमेकांशादेकांशाद्विशति स्वयम् ।
सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ॥ 14 ॥
वामांगादसृजद्विष्णुं दक्षिणांगात्प्रजापतिम् ।
ज्योतिर्लिंगमयं शंभुं कूर्चदेशादवासृजत् ॥ 15 ॥
अहंकारात्मकं विश्वं तस्मादेतद्व्यजायत ॥ 16 ॥
अथ तैस्त्रिविधैर्वेशैर्लीलामुद्वहतः किल ।
योगनिद्रा भगवती तस्य श्रीरिव संगता ॥ 17 ॥
ससृक्षायां ततो नाभेस्तस्य पद्मं विनिर्ययौ ।
तन्नालं हेमनलिनं ब्रह्मणो लोकमद्भुतम् ॥ 18 ॥
तत्त्वानि पूर्वरूढानि कारणानि परस्परम् ।
समवायाप्रयोगाच्च विभिन्नानि पृथक् पृथक् ।
चिच्छक्त्या सज्जमानोऽथ भगवानादिपूरुषः ।
योजयन्मायया देवो योगनिद्रामकल्पयत् ॥ 19 ॥
योजयित्वा तु तान्येव प्रविवेश स्वयं गुहाम् ।
गुहां प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते ॥ 20 ॥
स नित्यो नित्यसंबंधः प्रकृतिश्च परैव सा ॥ 21 ॥
एवं सर्वात्मसंबंधं नाभ्यां पद्मं हरेरभूत् ।
तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः ॥ 22 ॥
स जातो भगवच्छक्त्या तत्कालं किल चोदितः ।
सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः ।
ददर्श केवलं ध्वांतं नान्यत्किमपि सर्वतः ॥ 23 ॥
उवाच पुरतस्तस्मै तस्य दिव्या सरस्वती ।
कामः कृष्णाय गोविंद हे गोपीजन इत्यपि ।
वल्लभाय प्रिया वह्नेर्मंत्रं ते दास्यति प्रियम् ॥ 24 ॥
तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति ॥ 25 ॥
अथ तेपे स सुचिरं प्रीणन् गोविंदमव्ययम् ।
श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् ।
प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् ।
सहस्रदलसंपन्ने कोटिकिंजल्कबृंहिते ।
भूमिश्चिंतामणिस्तत्र कर्णिकारे महासने ।
समासीनं चिदानंदं ज्योतिरूपं सनातनम् ।
शब्दब्रह्ममयं वेणुं वादयंतं मुखांबुजे ।
विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥ 26 ॥
अथ वेणुनिनादस्य त्रयीमूर्तिमयी गतिः ।
स्फुरंती प्रविवेशाशु मुखाब्जानि स्वयंभुवः ।
गायत्रीं गायतस्तस्मादधिगत्य सरोजजः ।
संस्कृतश्चादिगुरुणा द्विजतामगमत्ततः ॥ 27 ॥
त्रय्या प्रबुद्धोऽथ विधिर्विज्ञाततत्त्वसागरः ।
तुष्टाव वेदसारेण स्तोत्रेणानेन केशवम् ॥ 28 ॥
चिंतामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभीरभिपालयंतम् ।
लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं
गोविंदमादिपुरुषं तमहं भजामि ॥ 29 ॥
वेणुं क्वणंतमरविंददलायताक्षं
बर्हावतंसमसितांबुदसुंदरांगम् ।
कंदर्पकोटिकमनीयविशेषशोभं
गोविंदमादिपुरुषं तमहं भजामि ॥ 30 ॥
आलोलचंद्रकलसद्वनमाल्यवंशी-
-रत्नांगदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभंगललितं नियतप्रकाशं
गोविंदमादिपुरुषं तमहं भजामि ॥ 31 ॥
अंगानि यस्य सकलेंद्रियवृत्तिमंति
पश्यंति पांति कलयंति चिरं जगंति ।
आनंदचिन्मयसदुज्ज्वलविग्रहस्य
गोविंदमादिपुरुषं तमहं भजामि ॥ 32 ॥
अद्वैतमच्युतमनादिमनंतरूपं
आद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ
गोविंदमादिपुरुषं तमहं भजामि ॥ 33 ॥
पंथास्तु कोटिशतवत्सरसंप्रगम्यो
वायोरथापि मनसो मुनिपुंगवानाम् ।
सोऽप्यस्ति यत्प्रपदसीम्न्यविचिंत्यतत्त्वे
गोविंदमादिपुरुषं तमहं भजामि ॥ 34 ॥
एकोऽप्यसौ रचयितुं जगदंडकोटिं
यच्छक्तिरस्ति जगदंडचया यदंतः ।
अंडांतरस्थपरमाणुचयांतरस्थं
गोविंदमादिपुरुषं तमहं भजामि ॥ 35 ॥
यद्भावभावितधियो मनुजास्तथैव
संप्राप्य रूपमहिमासनयानभूषाः ।
सूक्तैर्यमेव निगमप्रथितैः स्तुवंति
गोविंदमादिपुरुषं तमहं भजामि ॥ 36 ॥
आनंदचिन्मयरसप्रतिभाविताभि-
-स्ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविंदमादिपुरुषं तमहं भजामि ॥ 37 ॥
प्रेमांजनच्छुरितभक्तिविलोचनेन
संतः सदैव हृदयेषु विलोकयंति ।
यं श्यामसुंदरमचिंत्यगुणस्वरूपं
गोविंदमादिपुरुषं तमहं भजामि ॥ 38 ॥
रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किंतु ।
कृष्णः स्वयं समभवत्परमः पुमान् यो
गोविंदमादिपुरुषं तमहं भजामि ॥ 39 ॥
यस्य प्रभा प्रभवतो जगदंडकोटि-
-कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनंतमशेषभूतं
गोविंदमादिपुरुषं तमहं भजामि ॥ 40 ॥
माया हि यस्य जगदंडशतानि सूते
त्रैगुण्यतद्विषयवेदवितायमाना ।
सत्त्वावलंबिपरसत्त्वं विशुद्धसत्त्वं
गोविंदमादिपुरुषं तमहं भजामि ॥ 41 ॥
आनंदचिन्मयरसात्मतया मनःसु
यः प्राणिनां प्रतिफलन् स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविंदमादिपुरुषं तमहं भजामि ॥ 42 ॥
गोलोकनाम्नि निजधाम्नि तले च तस्य
देवि महेशहरिधामसु तेषु तेषु ।
ते ते प्रभावनिचया विहिताश्च येन
गोविंदमादिपुरुषं तमहं भजामि ॥ 43 ॥
सृष्टिस्थितिप्रलयसाधनशक्तिरेका
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा
गोविंदमादिपुरुषं तमहं भजामि ॥ 44 ॥
क्षीरं यथा दधि विकारविशेषयोगात्
संजायते न हि ततः पृथगस्ति हेतोः ।
यः शंभुतामपि तथा समुपैति कार्या-
-द्गोविंदमादिपुरुषं तमहं भजामि ॥ 45 ॥
दीपार्चिरेव हि दशांतरमभ्युपेत्य
दीपायते विवृतहेतुसमानधर्मा ।
यस्तादृगेव हि च विष्णुतया विभाति
गोविंदमादिपुरुषं तमहं भजामि ॥ 46 ॥
यः कारणार्णवजले भजति स्म योग-
-निद्रामनंतजगदंडसरोमकूपः ।
आधारशक्तिमवलंब्य परां स्वमूर्तिं
गोविंदमादिपुरुषं तमहं भजामि ॥ 47 ॥
यस्यैकनिश्वसितकालमथावलंब्य
जीवंति लोमबिलजा जगदंडनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो
गोविंदमादिपुरुषं तमहं भजामि ॥ 48 ॥
भास्वान् यथाश्मशकलेषु निजेषु तेजः
स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगदंडविधानकर्ता
गोविंदमादिपुरुषं तमहं भजामि ॥ 49 ॥
यत्पादपल्लवयुगं विनिधाय कुंभ-
-द्वंद्वे प्रणामसमये स गणाधिराजः ।
विघ्नान् विहंतुमलमस्य जगत्त्रयस्य
गोविंदमादिपुरुषं तमहं भजामि ॥ 50 ॥
अग्निर्मही गगनमंबु मरुद्दिशश्च
कालस्तथात्ममनसीति जगत्त्रयाणि ।
यस्माद्भवंति विभवंति विशंति यं च
गोविंदमादिपुरुषं तमहं भजामि ॥ 51 ॥
यच्चक्षुरेष सविता सकलग्रहाणां
राजा समस्तसुरमूर्तिरशेषतेजाः ।
यस्याज्ञया भ्रमति संभृतकालचक्रो
गोविंदमादिपुरुषं तमहं भजामि ॥ 52 ॥
धर्मोऽथ पापनिचयः श्रुतयस्तपांसि
ब्रह्मादिकीटपतगावधयश्च जीवाः ।
यद्दतमात्रविभवप्रकटप्रभावा
गोविंदमादिपुरुषं तमहं भजामि ॥ 53 ॥
यस्त्विंद्रगोपमथवेंद्रमहो स्वकर्म-
-बंधानुरूपफलभाजनमातनोति ।
कर्माणि निर्दहति किंतु च भक्तिभाजां
गोविंदमादिपुरुषं तमहं भजामि ॥ 54 ॥
यं क्रोधकामसहजप्रणयादिभीति-
-वात्सल्यमोहगुरुगौरवसेव्यभावैः ।
संचिंत्य तस्य सदृशीं तनुमापुरेते
गोविंदमादिपुरुषं तमहं भजामि ॥ 55 ॥
श्रियः कांताः कांतः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिंतामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिदानंदं ज्योतिः परमपि तदास्वाद्यमपि च ।
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदंतस्ते संतः क्षितिविरलचाराः कतिपये ॥ 56 ॥
अथोवाच महाविष्णुर्भगवंतं प्रजापतिम् ।
ब्रह्मन् महत्त्वविज्ञाने प्रजासर्गे च चेन्मतिः ।
पंचश्लोकीमिमां विद्यां वत्स दत्तां निबोध मे ॥ 57 ॥
प्रबुद्धे ज्ञानभक्तिभ्यामात्मन्यानंदचिन्मयी ।
उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥ 58 ॥
प्रमाणैस्तत् सदाचारैस्तदभ्यासैर्निरंतरम् ।
बोधयनात्मनात्मानं भक्तिमप्युत्तमां लभेत् ॥ 59 ॥
यस्याः श्रेयस्करं नास्ति यया निर्वृतिमाप्नुयात् ।
या साधयति मामेव भक्तिं तामेव साधयेत् ॥ 60 ॥
धर्मानन्यान् परित्यज्य मामेकं भज विश्वसन् ।
यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ।
कुर्वन्निरंतरं कर्म लोकोऽयमनुवर्तते ।
तेनैव कर्मणा ध्यायन्मां परां भक्तिमिच्छति ॥ 61 ॥
अहं हि विश्वस्य चराचरस्य
बीजं प्रधानं प्रकृतिः पुमांश्च ।
मयाहितं तेज इदं बिभर्षि
विधे विधेहि त्वमथो जगंति ॥ 62 ॥
इति श्री ब्रह्म संहिता संपूर्णम् ।
बारम्बार सोधिने प्रश्नहरू
What is ब्रह्म संहिता?
ब्रह्म संहिता is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read ब्रह्म संहिता online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download ब्रह्म संहिता as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.