अमृत संजीवनि धन्वंतरी स्तोत्रम्
अथापरमहं वक्ष्येऽमृतसंजीवनं स्तवम् ।
यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते ॥ 1 ॥
असाध्याः कष्टसाध्याश्च महारोगा भयंकराः ।
शीघ्रं नश्यंति पठनादस्यायुश्च प्रवर्धते ॥ 2 ॥
शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः ।
प्रेतवेतालयक्षोत्था बाधा नश्यंति चाखिलाः ॥ 3 ॥
दुरितानि समस्तानि नानाजन्मोद्भवानि च ।
संसर्गजविकाराणि विलीयंतेऽस्य पाठतः ॥ 4 ॥
सर्वोपद्रवनाशाय सर्वबाधाप्रशांतये ।
आयुः प्रवृद्धये चैतत् स्तोत्रं परममद्भुतम् ॥ 5 ॥
बालग्रहाभिभूतानां बालानां सुखदायकम् ।
सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ 6 ॥
बालानां जीवनायैतत् स्तोत्रं दिव्यं सुधोपमम् ।
मृतवत्सत्वहरणं चिरंजीवित्वकारकम् ॥ 7 ॥
महारोगाभिभूतानां भयव्याकुलितात्मनाम् ।
सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ 8 ॥
अल्पमृत्युश्चापमृत्युः पाठादस्यः प्रणश्यति ।
जलाऽग्निविषशस्त्रारि न हि शृंगि भयं तथा ॥ 9 ॥
गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् ।
महारोगहरं नॄणामल्पमृत्युहरं परम् ॥ 10 ॥
बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः ।
भवंति सुखिनः पाठादस्य लोके चिरायुषः ॥ 11 ॥
अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः ।
तस्मात् सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ 12 ॥
अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा ।
तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः ॥ 13 ॥
कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः ।
सायं प्रातश्च विधिवत् स्तोत्रमेतत् पठेत् सुधीः ॥ 14 ॥
सर्पिषा हविषा वाऽपि संयावेनाथ भक्तितः ।
दशांशमानतो होमं कुर्यात् सर्वार्थसिद्धये ॥ 15 ॥
अथ स्तोत्रम्
नमो नमो विश्वविभावनाय
नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय
नमो नमो मुक्तिवरप्रदाय ॥ 1 ॥
नमो नमस्तेऽखिललोकपाय
नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलरक्षकाय ॥ 2 ॥
नमो नमस्ते सकलार्तिहर्त्रे
नमो नमस्ते विरुजः प्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे
नमो नमस्तेऽखिललोकभर्त्रे ॥ 3 ॥
सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रितये तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 4 ॥
यो धन्वंतरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 5 ॥
स्त्रीरूपं वरभूषणांबरधरं त्रैलोक्यसम्मोहनं
कृत्वा पाययति स्म यः सुरगणान् पीयूषमत्युत्तमम् ।
चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 6 ॥
चाक्षुषोदधिसंप्लाव भूवेदप झषाकृते ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 7 ॥
पृष्ठमंदरनिर्घूर्णनिद्राक्ष कमठाकृते ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 8 ॥
यांचाच्छलबलित्रासमुक्तनिर्जर वामन ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 9 ॥
धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 10 ॥
भक्तत्रासविनाशात्तचंडत्व नृहरे विभो ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 11 ॥
क्षत्रियारण्यसंछेदकुठारकररैणुक ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 12 ॥
रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 13 ॥
भूभारासुरसंदोहकालाग्ने रुक्मिणीपते ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 14 ॥
वेदमार्गरतानर्हविभ्रांत्यै बुद्धरूपधृक् ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 15 ॥
कलिवर्णाश्रमास्पष्टधर्मर्ध्यै कल्किरूपभाक् ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 16 ॥
असाध्याः कष्टसाध्या ये महारोगा भयंकराः ।
छिंधि तानाशु चक्रेण चिरं जीवय जीवय ॥ 17 ॥
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।
भिंधि भिंधि गदाघातैश्चिरं जीवय जीवय ॥ 18 ॥
अहं न जाने किमपि त्वदन्यत्
समाश्रये नाथ पदांबुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते
सुकर्मणा केन समक्षमीयाम् ॥ 19 ॥
त्वमेव तातो जननी त्वमेव
त्वमेव नाथश्च त्वमेव बंधुः ।
विद्याधनागारकुलं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ 20 ॥
न मेऽपराधं प्रविलोकय प्रभो-
-ऽपराधसिंधोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्षते
दयालुता तेऽवतु सर्वदाऽस्मान् ॥ 21 ॥
अहह विस्मर नाथ न मां सदा
करुणया निजया परिपूरितः ।
भुवि भवान् यदि मे न हि रक्षकः
कथमहो मम जीवनमत्र वै ॥ 22 ॥
दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ 23 ॥
न यत्र धर्माचरणं न जानं
व्रतं न योगो न च विष्णुचर्चा ।
न पितृगोविप्रवरामरार्चा
स्वल्पायुषस्तत्र जना भवंति ॥ 24 ॥
अथ मंत्रम्
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकल दुरितानि नाशय नाशय ।
क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि देहि स्वाहा ॥
फलश्रुतिः
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ 1 ॥
शतं पंचाशतं शक्त्याऽथवा पंचाधिविंशतिम् ।
पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ 2 ॥
भूर्जपत्रे विलिख्येदं कंठे वा बाहुमूलके ।
संधारयेद्गर्भरक्षा बालरक्षा च जायते ॥ 3 ॥
सर्वे रोगा विनश्यंति सर्वा बाधाः प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ 4 ॥
मया कथितमेतत्तेऽमृतसंजीवनं परम् ।
अल्पमृत्युहरं स्तोत्रं मृतवत्सत्वनाशनम् ॥ 5 ॥
इति सुदर्शनसंहितोक्तं अमृतसंजीवन धन्वंतरि स्तोत्रम् ॥
बारम्बार सोधिने प्रश्नहरू
What is अमृत संजीवनि धन्वंतरी स्तोत्रम्?
अमृत संजीवनि धन्वंतरी स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Nepali. Use the language selector to view another available edition.
Can I read अमृत संजीवनि धन्वंतरी स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download अमृत संजीवनि धन्वंतरी स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.