विवेक चूडामणि


सर्ववेदांतसिद्धांतगोचरं तमगोचरम् ।
गोविंदं परमानंदं सद्गुरुं प्रणतोऽस्म्यहम् ॥ 1॥

जंतूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ 2॥ (पाठभेदः – शतकोटिजन्मसु कृतैः)

दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ 3॥

लब्ध्वा कथंचिन्नरजन्म दुर्लभं (पाठभेदः – कथंचिन्)
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्त्वात्ममुक्तौ न यतेत मूढधीः
स ह्यात्महा स्वं विनिहंत्यसद्ग्रहात् ॥ 4॥ (पाठभेदः – आत्महा स्वं)

इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ 5॥

वदंतु शास्त्राणि यजंतु देवान् (पाठभेदः – पठंतु)
कुर्वंतु कर्माणि भजंतु देवताः ।
आत्मैक्यबोधेन विनापि मुक्ति- (पाठभेदः – विना विमुक्तिः न)
र्न सिध्यति ब्रह्मशतांतरेऽपि ॥ 6॥

अमृतत्त्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ 7॥

अतो विमुक्त्यै प्रयतेत विद्वान्
सन्न्यस्तबाह्यार्थसुखस्पृहः सन् ।
संतं महांतं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा ॥ 8॥

उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ ।
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ 9॥

सन्न्यस्य सर्वकर्माणि भवबंधविमुक्तये ।
यत्यतां पंडितैर्धीरैरात्माभ्यास उपस्थितैः ॥ 10॥

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः ॥ 11॥

सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा ।
भ्रांतोदितमहासर्पभयदुःखविनाशिनी ॥ 12॥ (पाठभेदः – भ्रांत्यो)
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ 13॥

अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः ।
उपाया देशकालाद्याः संत्यस्मिन्सहकारिणः ॥ 14॥ (पाठभेदः – संत्यस्यां)
अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ॥

समासाद्य दयासिंधुं गुरुं ब्रह्मविदुत्तमम् ॥ 15॥

मेधावी पुरुषो विद्वानूहापोहविचक्षणः ।
अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥ 16॥

विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥ 17॥

साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।
येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥ 18॥

आदौ नित्यानित्यवस्तुविवेकः परिगण्यते ।
इहामुत्रफलभोगविरागस्तदनंतरम् ।
शमादिषट्कसंपत्तिर्मुमुक्षुत्वमिति स्फुटम् ॥ 19॥

ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ।
सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥ 20॥

तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः । (पाठभेदः – जुगुप्सा या)
देहादिब्रह्मपर्यंते ह्यनित्ये भोगवस्तुनि ॥ 21॥ (पाठभेदः – भोग्यवस्तुनि)
विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः ।
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥ 22॥

विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।
उभयेषामिंद्रियाणां स दमः परिकीर्तितः ।
बाह्यानालंबनं वृत्तेरेषोपरतिरुत्तमा ॥ 23॥

सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।
चिंताविलापरहितं सा तितिक्षा निगद्यते ॥ 24॥

शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् । (पाठभेदः – सत्यबुद्ध्यावधारणा)
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ 25॥

सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । (पाठभेदः – सम्यगास्थापनं)
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ 26॥

अहंकारादिदेहांतान् बंधानज्ञानकल्पितान् ।
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ 27॥

मंदमध्यमरूपापि वैराग्येण शमादिना ।
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ 28॥

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।
तस्मिन्नेवार्थवंतः स्युः फलवंतः शमादयः ॥ 29॥

एतयोर्मंदता यत्र विरक्तत्वमुमुक्षयोः ।
मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥ 30॥

मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसंधानं भक्तिरित्यभिधीयते ॥ 31॥

स्वात्मतत्त्वानुसंधानं भक्तिरित्यपरे जगुः ।
उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः ।
उपसीदेद्गुरुं प्राज्ञं यस्माद्बंधविमोक्षणम् ॥ 32॥

श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ।
ब्रह्मण्युपरतः शांतो निरिंधन इवानलः ।
अहेतुकदयासिंधुर्बंधुरानमतां सताम् ॥ 33॥

तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः । (पाठभेदः – प्रह्वः)
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥ 34॥

स्वामिन्नमस्ते नतलोकबंधो
कारुण्यसिंधो पतितं भवाब्धौ ।
मामुद्धरात्मीयकटाक्षदृष्ट्या
ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥ 35॥

दुर्वारसंसारदवाग्नितप्तं
दोधूयमानं दुरदृष्टवातैः ।
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यद्यदहं न जाने ॥ 36॥ (पाठभेदः – अन्यं)

शांता महांतो निवसंति संतो
वसंतवल्लोकहितं चरंतः ।
तीर्णाः स्वयं भीमभवार्णवं जना-
नहेतुनान्यानपि तारयंतः ॥ 37॥

अयं स्वभावः स्वत एव यत्पर-
श्रमापनोदप्रवणं महात्मनाम् ।
सुधांशुरेष स्वयमर्ककर्कश-
प्रभाभितप्तामवति क्षितिं किल ॥ 38॥

ब्रह्मानंदरसानुभूतिकलितैः पूतैः सुशीतैर्युतै- (पाठभेदः – सुशीतैः सितैः)
र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय ।
संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥ 39॥

कथं तरेयं भवसिंधुमेतं
का वा गतिर्मे कतमोऽस्त्युपायः ।
जाने न किंचित्कृपयाऽव मां प्रभो
संसारदुःखक्षतिमातनुष्व ॥ 40॥

तथा वदंतं शरणागतं स्वं
संसारदावानलतापतप्तम् ।
निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या
दद्यादभीतिं सहसा महात्मा ॥ 41॥

विद्वान् स तस्मा उपसत्तिमीयुषे
मुमुक्षवे साधु यथोक्तकारिणे ।
प्रशांतचित्ताय शमान्विताय
तत्त्वोपदेशं कृपयैव कुर्यात् ॥ 42॥

मा भैष्ट विद्वंस्तव नास्त्यपायः
संसारसिंधोस्तरणेऽस्त्युपायः ।
येनैव याता यतयोऽस्य पारं
तमेव मार्गं तव निर्दिशामि ॥ 43॥

अस्त्युपायो महान्कश्चित्संसारभयनाशनः ।
तेन तीर्त्वा भवांभोधिं परमानंदमाप्स्यसि ॥ 44॥

वेदांतार्थविचारेण जायते ज्ञानमुत्तमम् ।
तेनात्यंतिकसंसारदुःखनाशो भवत्यनु ॥ 45॥

श्रद्धाभक्तिध्यानयोगान्मुमुक्षोः
मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः ।
यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽविद्याकल्पिताद्देहबंधात् ॥ 46॥

अज्ञानयोगात्परमात्मनस्तव
ह्यनात्मबंधस्तत एव संसृतिः ।
तयोर्विवेकोदितबोधवह्निः
अज्ञानकार्यं प्रदहेत्समूलम् ॥ 47॥

शिष्य उवाच ।
कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया ।
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ 48॥

को नाम बंधः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः ।
कोऽसावनात्मा परमः क आत्मा
तयोर्विवेकः कथमेतदुच्यताम् ॥ 49॥

श्रीगुरुवाच ।
धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । (पाठभेदः – पावितं)
यदविद्याबंधमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ 50॥

ऋणमोचनकर्तारः पितुः संति सुतादयः ।
बंधमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ 51॥

मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते ।
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ 52॥

पथ्यमौषधसेवा च क्रियते येन रोगिणा ।
आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ॥ 53॥

वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पंडितेन ।
चंद्रस्वरूपं निजचक्षुषैव
ज्ञातव्यमन्यैरवगम्यते किम् ॥ 54॥

अविद्याकामकर्मादिपाशबंधं विमोचितुम् ।
कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ॥ 55॥

न योगेन न सांख्येन कर्मणा नो न विद्यया ।
ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥ 56॥

वीणाया रूपसौंदर्यं तंत्रीवादनसौष्ठवम् ।
प्रजारंजनमात्रं तन्न साम्राज्याय कल्पते ॥ 57॥

वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।
वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ 58॥

अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ 59॥

शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।
अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः ॥ 60॥ तत्त्वज्ञात्तत्त्व
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।
किमु वेदैश्च शास्त्रैश्च किमु मंत्रैः किमौषधैः ॥ 61॥

न गच्छति विना पानं व्याधिरौषधशब्दतः ।
विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥ 62॥

अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः ।
ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥ 63॥ (पाठभेदः – बाह्यशब्दैः)

अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् ।
राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥ 64॥

आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं (पाठभेदः – परिशिलापाकर्षणं)
निक्षेपः समपेक्षते न हि बहिःशब्दैस्तु निर्गच्छति ।
तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते
मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ 65॥

तस्मात्सर्वप्रयत्नेन भवबंधविमुक्तये ।
स्वैरेव यत्नः कर्तव्यो रोगादाविव पंडितैः ॥ 66॥ (पाठभेदः – रोगादेरिव)

यस्त्वयाद्य कृतः प्रश्नो वरीयांछास्त्रविन्मतः । (पाठभेदः – सम्मतः)
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ 67॥

शऋणुष्वावहितो विद्वन्यन्मया समुदीर्यते ।
तदेतच्छ्रवणात्सद्यो भवबंधाद्विमोक्ष्यसे ॥ 68॥

मोक्षस्य हेतुः प्रथमो निगद्यते
वैराग्यमत्यंतमनित्यवस्तुषु ।
ततः शमश्चापि दमस्तितिक्षा
न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ 69॥

ततः श्रुतिस्तन्मननं सतत्त्व-
ध्यानं चिरं नित्यनिरंतरं मुनेः ।
ततोऽविकल्पं परमेत्य विद्वान्
इहैव निर्वाणसुखं समृच्छति ॥ 70॥

यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।
तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥ 71॥

मज्जास्थिमेदःपलरक्तचर्म-
त्वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षोभुजपृष्ठमस्तकैः
अंगैरुपांगैरुपयुक्तमेतत् ॥ 72॥

अहम्ममेति प्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः ।
नभोनभस्वद्दहनांबुभूमयः
सूक्ष्माणि भूतानि भवंति तानि ॥ 73॥

परस्परांशैर्मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः ।
मात्रास्तदीया विषया भवंति
शब्दादयः पंच सुखाय भोक्तुः ॥ 74॥

य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन ।
आयांति निर्यांत्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः ॥ 75॥

शब्दादिभिः पंचभिरेव पंच
पंचत्वमापुः स्वगुणेन बद्धाः ।
कुरंगमातंगपतंगमीन-
भृंगा नरः पंचभिरंचितः किम् ॥ 76॥

दोषेण तीव्रो विषयः कृष्णसर्पविषादपि ।
विषं निहंति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥ 77॥

विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ॥ 78॥

आपातवैराग्यवतो मुमुक्षून्
भवाब्धिपारं प्रतियातुमुद्यतान् ।
आशाग्रहो मज्जयतेऽंतराले
निगृह्य कंठे विनिवर्त्य वेगात् ॥ 79॥

विषयाख्यग्रहो येन सुविरक्त्यसिना हतः ।
स गच्छति भवांभोधेः पारं प्रत्यूहवर्जितः ॥ 80॥

विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः (पाठभेदः – विषयमार्गे गच्छतो)
प्रतिपदमभियातो मृत्युरप्येष विद्धि । (पाठभेदः – प्रतिपदमभिघातो मृत्युरप्येष सिद्धः)
हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥ 81॥

मोक्षस्य कांक्षा यदि वै तवास्ति
त्यजातिदूराद्विषयान्विषं यथा ।
पीयूषवत्तोषदयाक्षमार्जव-
प्रशांतिदांतीर्भज नित्यमादरात् ॥ 82॥

अनुक्षणं यत्परिहृत्य कृत्यं
अनाद्यविद्याकृतबंधमोक्षणम् ।
देहः परार्थोऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हंति ॥ 83॥

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति । (पाठभेदः – दिदृक्षते)
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स गच्छति ॥ 84॥ (पाठभेदः – स इच्छति)

मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ 85॥

मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यांति तद्विष्णोः परमं पदम् ॥ 86॥

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् ।
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निंद्यमिदं वपुः ॥ 87॥

पंचीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ 88॥

बाह्येंद्रियैः स्थूलपदार्थसेवां
स्रक्चंदनस्त्र्यादिविचित्ररूपाम् ।
करोति जीवः स्वयमेतदात्मना
तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ॥ 89॥

सर्वोऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः ।
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ 90॥

स्थूलस्य संभवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः ।
वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः
पूजावमानबहुमानमुखा विशेषाः ॥ 91॥

बुद्धींद्रियाणि श्रवणं त्वगक्षि
घ्राणं च जिह्वा विषयावबोधनात् ।
वाक्पाणिपादा गुदमप्युपस्थः (पाठभेदः – उपस्थं)
कर्मेंद्रियाणि प्रवणेन कर्मसु ॥ 92॥ (पाठभेदः – प्रवणानि)

निगद्यतेऽंतःकरणं मनोधीः
अहंकृतिश्चित्तमिति स्ववृत्तिभिः ।
मनस्तु संकल्पविकल्पनादिभिः
बुद्धिः पदार्थाध्यवसायधर्मतः ॥ 93॥

अत्राभिमानादहमित्यहंकृतिः ।
स्वार्थानुसंधानगुणेन चित्तम् ॥ 94॥

प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः ।
स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् ॥ 95॥ (पाठभेदः – विकृतेर्भेदात्सुवर्णसलिलमिव)

वागादि पंच श्रवणादि पंच
प्राणादि पंचाभ्रमुखानि पंच ।
बुद्ध्याद्यविद्यापि च कामकर्मणी
पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥ 96॥

इदं शरीरं श‍ऋणु सूक्ष्मसंज्ञितं
लिंगं त्वपंचीकृतभूतसंभवम् ।
सवासनं कर्मफलानुभावकं
स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ 97॥

स्वप्नो भवत्यस्य विभक्त्यवस्था
स्वमात्रशेषेण विभाति यत्र ।
स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्
कालीननानाविधवासनाभिः ॥ 98॥

कर्त्रादिभावं प्रतिपद्य राजते
यत्र स्वयं भाति ह्ययं परात्मा । (पाठभेदः – स्वयंज्योतिरयं)
धीमात्रकोपाधिरशेषसाक्षी
न लिप्यते तत्कृतकर्मलेशैः । कर्मलेपैः
यस्मादसंगस्तत एव कर्मभिः
न लिप्यते किंचिदुपाधिना कृतैः ॥ 99॥

सर्वव्यापृतिकरणं लिंगमिदं स्याच्चिदात्मनः पुंसः ।
वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसंगोऽयम् ॥ 100॥

अंधत्वमंदत्वपटुत्वधर्माः
सौगुण्यवैगुण्यवशाद्धि चक्षुषः ।
बाधिर्यमूकत्वमुखास्तथैव
श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥ 101॥

उच्छ्वासनिःश्वासविजृंभणक्षु-
त्प्रस्यंदनाद्युत्क्रमणादिकाः क्रियाः । (पाठभेदः – प्रस्पंदनाद्य्)
प्राणादिकर्माणि वदंति तज्ञाः (पाठभेदः – तज्ज्ञाः)
प्राणस्य धर्मावशनापिपासे ॥ 102॥

अंतःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ 103॥

अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् ।
सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ॥ 104॥ (पाठभेदः – योगेनावस्थात्रितयम्श्नुते)

विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।
सुखं दुःखं च तद्धर्मः सदानंदस्य नात्मनः ॥ 105॥

आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः ।
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ।
तत आत्मा सदानंदो नास्य दुःखं कदाचन ॥ 106॥

यत्सुषुप्तौ निर्विषय आत्मानंदोऽनुभूयते ।
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ 107॥

अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा ।
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते ॥ 108॥

सन्नाप्यसन्नाप्युभयात्मिका नो
भिन्नाप्यभिन्नाप्युभयात्मिका नो ।
सांगाप्यनंगा ह्युभयात्मिका नो (पाठभेदः – अनंगाप्युभयात्मिका)
महाद्भुताऽनिर्वचनीयरूपा ॥ 109॥

शुद्धाद्वयब्रह्मविबोधनाश्या
सर्पभ्रमो रज्जुविवेकतो यथा ।
रजस्तमःसत्त्वमिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ 110॥

विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी ।
रागादयोऽस्याः प्रभवंति नित्यं
दुःखादयो ये मनसो विकाराः ॥ 111॥

कामः क्रोधो लोभदंभाद्यसूया (पाठभेदः – लोभदंभाभ्यसूया)
अहंकारेर्ष्यामत्सराद्यास्तु घोराः ।
धर्मा एते राजसाः पुंप्रवृत्ति-
र्यस्मादेषा तद्रजो बंधहेतुः ॥ 112॥ (पाठभेदः – यस्मादेतत्तद्रजो)

एषाऽऽवृतिर्नाम तमोगुणस्य
शक्तिर्मया वस्त्ववभासतेऽन्यथा । शक्तिर्यया
सैषा निदानं पुरुषस्य संसृतेः
विक्षेपशक्तेः प्रवणस्य हेतुः ॥ 113॥ (पाठभेदः – प्रसरस्य)

प्रज्ञावानपि पंडितोऽपि चतुरोऽप्यत्यंतसूक्ष्मात्मदृग्- (पाठभेदः – सूक्ष्मार्थदृग्)
व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् ।
भ्रांत्यारोपितमेव साधु कलयत्यालंबते तद्गुणान्
हंतासौ प्रबला दुरंततमसः शक्तिर्महत्यावृतिः ॥ 114॥

अभावना वा विपरीतभावनाऽ- (पाठभेदः – विपरीतभावना)
संभावना विप्रतिपत्तिरस्याः ।
संसर्गयुक्तं न विमुंचति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ 115॥

अज्ञानमालस्यजडत्वनिद्रा-
प्रमादमूढत्वमुखास्तमोगुणाः ।
एतैः प्रयुक्तो न हि वेत्ति किंचित्
निद्रालुवत्स्तंभवदेव तिष्ठति ॥ 116॥

सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते ।
यत्रात्मबिंबः प्रतिबिंबितः सन्
प्रकाशयत्यर्क इवाखिलं जडम् ॥ 117॥

मिश्रस्य सत्त्वस्य भवंति धर्माः
त्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च
दैवी च संपत्तिरसन्निवृत्तिः ॥ 118॥

विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशांतिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानंदरसं समृच्छति ॥ 119॥

अव्यक्तमेतत्त्रिगुणैर्निरुक्तं
तत्कारणं नाम शरीरमात्मनः ।
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रलीनसर्वेंद्रियबुद्धिवृत्तिः ॥ 120॥

सर्वप्रकारप्रमितिप्रशांतिः
बीजात्मनावस्थितिरेव बुद्धेः ।
सुषुप्तिरेतस्य किल प्रतीतिः (पाठभेदः – सुषुप्तिरत्रास्य)
किंचिन्न वेद्मीति जगत्प्रसिद्धेः ॥ 121॥

देहेंद्रियप्राणमनोऽहमादयः
सर्वे विकारा विषयाः सुखादयः ।
व्योमादिभूतान्यखिलं च विश्वं
अव्यक्तपर्यंतमिदं ह्यनात्मा ॥ 122॥

माया मायाकार्यं सर्वं महदादिदेहपर्यंतम् ।
असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥ 123॥

अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः ।
यद्विज्ञाय नरो बंधान्मुक्तः कैवल्यमश्नुते ॥ 124॥

अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलंबनः ।
अवस्थात्रयसाक्षी सन्पंचकोशविलक्षणः ॥ 125॥

यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु ।
बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥ 126॥

यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन । (पाठभेदः – किंचन)
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ 127॥

येन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन ।
आभारूपमिदं सर्वं यं भांतमनुभात्ययम् ॥ 128॥

यस्य सन्निधिमात्रेण देहेंद्रियमनोधियः ।
विषयेषु स्वकीयेषु वर्तंते प्रेरिता इव ॥ 129॥

अहंकारादिदेहांता विषयाश्च सुखादयः ।
वेद्यंते घटवद्येन नित्यबोधस्वरूपिणा ॥ 130॥

एषोऽंतरात्मा पुरुषः पुराणो
निरंतराखंडसुखानुभूतिः ।
सदैकरूपः प्रतिबोधमात्रो
येनेषिता वागसवश्चरंति ॥ 131॥

अत्रैव सत्त्वात्मनि धीगुहायां
अव्याकृताकाश उशत्प्रकाशः । (पाठभेदः – उरुप्रकाशः)
आकाश उच्चै रविवत्प्रकाशते
स्वतेजसा विश्वमिदं प्रकाशयन् ॥ 132॥

ज्ञाता मनोऽहंकृतिविक्रियाणां
देहेंद्रियप्राणकृतक्रियाणाम् ।
अयोऽग्निवत्ताननुवर्तमानो
न चेष्टते नो विकरोति किंचन ॥ 133॥

न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः ।
विलीयमानेऽपि वपुष्यमुष्मि-
न्न लीयते कुंभ इवांबरं स्वयम् ॥ 134॥

प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भासयन्निर्विशेषः ।
विलसति परमात्मा जाग्रदादिष्ववस्था-
स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥ 135॥

नियमितमनसामुं त्वं स्वमात्मानमात्म-
न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
जनिमरणतरंगापारसंसारसिंधुं
प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ 136॥

अत्रानात्मन्यहमिति मतिर्बंध एषोऽस्य पुंसः
प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः ।
येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या
पुष्यत्युक्षत्यवति विषयैस्तंतुभिः कोशकृद्वत् ॥ 137॥

अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।
ततोऽनर्थव्रातो निपतति समादातुरधिकः
ततो योऽसद्ग्राहः स हि भवति बंधः शऋणु सखे ॥ 138॥

अखंडनित्याद्वयबोधशक्त्या
स्फुरंतमात्मानमनंतवैभवम् ।
समावृणोत्यावृतिशक्तिरेषा
तमोमयी राहुरिवार्कबिंबम् ॥ 139॥

तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति ।
ततः कामक्रोधप्रभृतिभिरमुं बंधनगुणैः (पाठभेदः – बंधकगुणैः)
परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ 140॥

महामोहग्राहग्रसनगलितात्मावगमनो
धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया । (पाठभेदः – नानावस्थाः)
अपारे संसारे विषयविषपूरे जलनिधौ
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥ 141॥

भानुप्रभासंजनिताभ्रपंक्तिः
भानुं तिरोधाय विजृंभते यथा ।
आत्मोदिताहंकृतिरात्मतत्त्वं
तथा तिरोधाय विजृंभते स्वयम् ॥ 142॥

कवलितदिननाथे दुर्दिने सांद्रमेघैः
व्यथयति हिमझंझावायुरुग्रो यथैतान् ।
अविरततमसाऽऽत्मन्यावृते मूढबुद्धिं
क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ 143॥

एताभ्यामेव शक्तिभ्यां बंधः पुंसः समागतः ।
याभ्यां विमोहितो देहं मत्वाऽऽत्मानं भ्रमत्ययम् ॥ 144॥

बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरंकुरो
रागः पल्लवमंबु कर्म तु वपुः स्कंधोऽसवः शाखिकाः ।
अग्राणींद्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं
नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ 145॥

अज्ञानमूलोऽयमनात्मबंधो
नैसर्गिकोऽनादिरनंत ईरितः ।
जन्माप्ययव्याधिजरादिदुःख-
प्रवाहपातं जनयत्यमुष्य ॥ 146॥

नास्त्रैर्न शस्त्रैरनिलेन वह्निना
छेत्तुं न शक्यो न च कर्मकोटिभिः ।
विवेकविज्ञानमहासिना विना
धातुः प्रसादेन शितेन मंजुना ॥ 147॥

श्रुतिप्रमाणैकमतेः स्वधर्म
निष्ठा तयैवात्मविशुद्धिरस्य ।
विशुद्धबुद्धेः परमात्मवेदनं
तेनैव संसारसमूलनाशः ॥ 148॥

कोशैरन्नमयाद्यैः पंचभिरात्मा न संवृतो भाति ।
निजशक्तिसमुत्पन्नैः शैवालपटलैरिवांबु वापीस्थम् ॥ 149॥

तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् ।
तृष्णासंतापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ 150॥

पंचानामपि कोशानामपवादे विभात्ययं शुद्धः ।
नित्यानंदैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः ॥ 151॥

आत्मानात्मविवेकः कर्तव्यो बंधमुक्तये विदुषा ।
तेनैवानंदी भवति स्वं विज्ञाय सच्चिदानंदम् ॥ 152॥

मुंजादिषीकामिव दृश्यवर्गात्
प्रत्यंचमात्मानमसंगमक्रियम् ।
विविच्य तत्र प्रविलाप्य सर्वं
तदात्मना तिष्ठति यः स मुक्तः ॥ 153॥

देहोऽयमन्नभवनोऽन्नमयस्तु कोश- (पाठभेदः – कोशो)
श्चान्नेन जीवति विनश्यति तद्विहीनः । (पाठभेदः – ह्यन्नेन)
त्वक्चर्ममांसरुधिरास्थिपुरीषराशि-
र्नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ 154॥

पूर्वं जनेरधिमृतेरपि नायमस्ति (पाठभेदः – जनेरपिमृतेरथ)
जातक्षणः क्षणगुणोऽनियतस्वभावः ।
नैको जडश्च घटवत्परिदृश्यमानः
स्वात्मा कथं भवति भावविकारवेत्ता ॥ 155॥

पाणिपादादिमांदेहो नात्मा व्यंगेऽपि जीवनात् ।
तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ 156॥

देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः ।
सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः ॥ 157॥

शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः ।
कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ 158॥

त्वङ्मांसमेदोऽस्थिपुरीषराशा-
वहम्मतिं मूढजनः करोति ।
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थभूतम् ॥ 159॥

देहोऽहमित्येव जडस्य बुद्धिः
देहे च जीवे विदुषस्त्वहंधीः ।
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि ॥ 160॥

अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मांसमेदोऽस्थिपुरीषराशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शांतिं परमां भजस्व ॥ 161॥

देहेंद्रियादावसति भ्रमोदितां
विद्वानहंतां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ता-
प्यस्त्वेष वेदांतनयांतदर्शी ॥ 162॥

छायाशरीरे प्रतिबिंबगात्रे
यत्स्वप्नदेहे हृदि कल्पितांगे ।
यथात्मबुद्धिस्तव नास्ति काचि-
ज्जीवच्छरीरे च तथैव माऽस्तु ॥ 163॥

देहात्मधीरेव नृणामसद्धियां
जन्मादिदुःखप्रभवस्य बीजम् ।
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा ॥ 164॥

कर्मेंद्रियैः पंचभिरंचितोऽयं
प्राणो भवेत्प्राणमयस्तु कोशः ॥

येनात्मवानन्नमयोऽनुपूर्णः
प्रवर्ततेऽसौ सकलक्रियासु ॥ 165॥

नैवात्मापि प्राणमयो वायुविकारो (पाठभेदः – नैवात्मायं)
गंताऽऽगंता वायुवदंतर्बहिरेषः ।
यस्मात्किंचित्क्वापि न वेत्तीष्टमनिष्टं
स्वं वान्यं वा किंचन नित्यं परतंत्रः ॥ 166॥

ज्ञानेंद्रियाणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तुविकल्पहेतुः ।
संज्ञादिभेदकलनाकलितो बलीयां-
स्तत्पूर्वकोशमभिपूर्य विजृंभते यः ॥ 167॥ (पाठभेदः – अनुपूर्य)
पंचेंद्रियैः पंचभिरेव होतृभिः
प्रचीयमानो विषयाज्यधारया ।
जाज्वल्यमानो बहुवासनेंधनैः
मनोमयाग्निर्दहति प्रपंचम् ॥ 168॥ (पाठभेदः – मनोमयोऽग्निर्दहति)

न ह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबंधहेतुः ।
तस्मिन्विनष्टे सकलं विनष्टं
विजृंभितेऽस्मिन्सकलं विजृंभते ॥ 169॥

स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या
भोक्त्रादिविश्वं मन एव सर्वम् ।
तथैव जाग्रत्यपि नो विशेषः
तत्सर्वमेतन्मनसो विजृंभणम् ॥ 170॥

सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किंचित्सकलप्रसिद्धेः ।
अतो मनःकल्पित एव पुंसः
संसार एतस्य न वस्तुतोऽस्ति ॥ 171॥

वायुनाऽऽनीयते मेघः पुनस्तेनैव नीयते । (पाठभेदः – वायुना नीयते मेघः पुनस्तेनैव लीयते)
मनसा कल्प्यते बंधो मोक्षस्तेनैव कल्प्यते ॥ 172॥

देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन ।
वैरस्यमत्र विषवत् सुविधाय पश्चाद्
एनं विमोचयति तन्मन एव बंधात् ॥ 173॥

तस्मान्मनः कारणमस्य जंतोः
बंधस्य मोक्षस्य च वा विधाने ।
बंधस्य हेतुर्मलिनं रजोगुणैः
मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ 174॥

विवेकवैराग्यगुणातिरेका-
च्छुद्धत्वमासाद्य मनो विमुक्त्यै ।
भवत्यतो बुद्धिमतो मुमुक्षो-
स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥ 175॥

मनो नाम महाव्याघ्रो विषयारण्यभूमिषु ।
चरत्यत्र न गच्छंतु साधवो ये मुमुक्षवः ॥ 176॥

मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरीरवर्णाश्रमजातिभेदान्
गुणक्रियाहेतुफलानि नित्यम् ॥ 177॥

असंगचिद्रूपममुं विमोह्य
देहेंद्रियप्राणगुणैर्निबद्ध्य ।
अहम्ममेति भ्रमयत्यजस्रं
मनः स्वकृत्येषु फलोपभुक्तिषु ॥ 178॥

अध्यासदोषात्पुरुषस्य संसृतिः (पाठभेदः – अध्यासयोगात्)
अध्यासबंधस्त्वमुनैव कल्पितः ।
रजस्तमोदोषवतोऽविवेकिनो
जन्मादिदुःखस्य निदानमेतत् ॥ 179॥

अतः प्राहुर्मनोऽविद्यां पंडितास्तत्त्वदर्शिनः ।
येनैव भ्राम्यते विश्वं वायुनेवाभ्रमंडलम् ॥ 180॥

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।
विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ॥ 181॥

मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य सन्न्यस्य च सर्वकर्म ।
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजःस्वभावं स धुनोति बुद्धेः ॥ 182॥

मनोमयो नापि भवेत्परात्मा
ह्याद्यंतवत्त्वात्परिणामिभावात् ।
दुःखात्मकत्वाद्विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ 183॥

बुद्धिर्बुद्धींद्रियैः सार्धं सवृत्तिः कर्तृलक्षणः ।
विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ 184॥

अनुव्रजच्चित्प्रतिबिंबशक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावानहमित्यजस्रं
देहेंद्रियादिष्वभिमन्यते भृशम् ॥ 185॥

अनादिकालोऽयमहंस्वभावो
जीवः समस्तव्यवहारवोढा ।
करोति कर्माण्यपि पूर्ववासनः (पाठभेदः – कर्माण्यनु)
पुण्यान्यपुण्यानि च तत्फलानि ॥ 186॥

भुंक्ते विचित्रास्वपि योनिषु व्रज-
न्नायाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्रत्-
स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ 187॥

देहादिनिष्ठाश्रमधर्मकर्म-
गुणाभिमानः सततं ममेति ।
विज्ञानकोशोऽयमतिप्रकाशः
प्रकृष्टसान्निध्यवशात्परात्मनः ।
अतो भवत्येष उपाधिरस्य
यदात्मधीः संसरति भ्रमेण ॥ 188॥

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः । (पाठभेदः – स्फुरत्स्वयंज्योतिः)
कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ 189॥

स्वयं परिच्छेदमुपेत्य बुद्धेः
तादात्म्यदोषेण परं मृषात्मनः ।
सर्वात्मकः सन्नपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटानिव ॥ 190॥

उपाधिसंबंधवशात्परात्मा
ह्युपाधिधर्माननुभाति तद्गुणः । (पाठभेदः – ऽप्युपाधि)
अयोविकारानविकारिवह्निवत्
सदैकरूपोऽपि परः स्वभावात् ॥ 191॥

शिष्य उवाच ।
भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः ।
तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥ 192॥

अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः ।
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ 193॥

श्रीगुरुरुवाच ।
सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु ।
प्रामाणिकी न भवति भ्रांत्या मोहितकल्पना ॥ 194॥

भ्रांतिं विना त्वसंगस्य निष्क्रियस्य निराकृतेः ।
न घटेतार्थसंबंधो नभसो नीलतादिवत् ॥ 195॥

स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य
प्रत्यग्बोधानंदरूपस्य बुद्धेः ।
भ्रांत्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्यवस्तुस्वभावात् ॥ 196॥

यावद्भ्रांतिस्तावदेवास्य सत्ता
मिथ्याज्ञानोज्जृंभितस्य प्रमादात् ।
रज्ज्वां सर्पो भ्रांतिकालीन एव
भ्रांतेर्नाशे नैव सर्पोऽपि तद्वत् ॥ 197॥ (पाठभेदः – सर्पोऽस्ति)

अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते ।
उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि ॥ 198॥

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ॥ 199॥

अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ।
यद्बुद्ध्युपाधिसंबंधात्परिकल्पितमात्मनि ॥ 200॥

जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः । (पाठभेदः – ततोऽन्यत्तु)
संबंधस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ॥ 201॥ (पाठभेदः – संबंधः स्वात्मनो)

विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ।
ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥ 202॥

तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति ।
ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः ॥ 203॥ (पाठभेदः – प्रत्यगात्मासदात्मनोः)

जलं पंकवदत्यंतं पंकापाये जलं स्फुटम् । (पाठभेदः – पंकवदस्पष्टं)
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥ 204॥

असन्निवृत्तौ तु सदात्मना स्फुटं
प्रतीतिरेतस्य भवेत्प्रतीचः ।
ततो निरासः करणीय एव
सदात्मनः साध्वहमादिवस्तुनः ॥ 205॥ (पाठभेदः – असदात्मनः)

अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् ।
विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः ।
दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥ 206॥

आनंदप्रतिबिंबचुंबिततनुर्वृत्तिस्तमोजृंभिता
स्यादानंदमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः ।
पुण्यस्यानुभवे विभाति कृतिनामानंदरूपः स्वयं
सर्वो नंदति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ 207॥ (पाठभेदः – भूत्वा नंदति)

आनंदमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।
स्वप्नजागरयोरीषदिष्टसंदर्शनादिना ॥ 208॥

नैवायमानंदमयः परात्मा
सोपाधिकत्वात्प्रकृतेर्विकारात् ।
कार्यत्वहेतोः सुकृतक्रियाया
विकारसंघातसमाहितत्वात् ॥ 209॥

पंचानामपि कोशानां निषेधे युक्तितः श्रुतेः । (पाठभेदः – युक्तितः कृते)
तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते ॥ 210॥ (पाठभेदः – तन्निषेधावधिः)

योऽयमात्मा स्वयंज्योतिः पंचकोशविलक्षणः ।
अवस्थात्रयसाक्षी सन्निर्विकारो निरंजनः ।
सदानंदः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ 211॥

शिष्य उवाच ।
मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पंचसु ।
सर्वाभावं विना किंचिन्न पश्याम्यत्र हे गुरो ।
विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ॥ 212॥ (पाठभेदः – स्वात्मनात्र विपश्चिता)

श्रीगुरुरुवाच ।
सत्यमुक्तं त्वया विद्वन्निपुणोऽसि विचारणे ।
अहमादिविकारास्ते तदभावोऽयमप्यनु ॥ 213॥ (पाठभेदः – ऽयमप्यथ)

सर्वे येनानुभूयंते यः स्वयं नानुभूयते ।
तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ 214॥

तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते ।
कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥ 215॥ (पाठभेदः – नोपपद्यते)

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते ।
अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ॥ 216॥

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृंभते
प्रत्यग्रूपतया सदाहमहमित्यंतः स्फुरन्नैकधा । (पाठभेदः – स्फुरन्नेकधा)
नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान् (पाठभेदः – भाजिन)
नित्यानंदचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥ 217॥

घटोदके बिंबितमर्कबिंब-
मालोक्य मूढो रविमेव मन्यते ।
तथा चिदाभासमुपाधिसंस्थं
भ्रांत्याहमित्येव जडोऽभिमन्यते ॥ 218॥

घटं जलं तद्गतमर्कबिंबं
विहाय सर्वं विनिरीक्ष्यतेऽर्कः । (पाठभेदः – दिवि वीक्ष्यतेऽर्कः)
तटस्थ एतत्त्रितयावभासकः (पाठभेदः – तटस्थितः तत्त्रि)
स्वयंप्रकाशो विदुषा यथा तथा ॥ 219॥

देहं धियं चित्प्रतिबिंबमेवं (पाठभेदः – चित्प्रतिबिंबमेतं)
विसृज्य बुद्धौ निहितं गुहायाम् ।
द्रष्टारमात्मानमखंडबोधं
सर्वप्रकाशं सदसद्विलक्षणम् ॥ 220॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं
अंतर्बहिःशून्यमनन्यमात्मनः ।
विज्ञाय सम्यङ्निजरूपमेतत्
पुमान् विपाप्मा विरजो विमृत्युः ॥ 221॥

विशोक आनंदघनो विपश्चित्
स्वयं कुतश्चिन्न बिभेति कश्चित् ।
नान्योऽस्ति पंथा भवबंधमुक्तेः
विना स्वतत्त्वावगमं मुमुक्षोः ॥ 222॥

ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् ।
येनाद्वितीयमानंदं ब्रह्म संपद्यते बुधैः ॥ 223॥ (पाठभेदः – संपद्यते बुधः)

ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।
विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः ॥ 224॥

सत्यं ज्ञानमनंतं ब्रह्म विशुद्धं परं स्वतःसिद्धम् ।
नित्यानंदैकरसं प्रत्यगभिन्नं निरंतरं जयति ॥ 225॥

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।
न ह्यन्यदस्ति किंचित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥ 226॥ (पाठभेदः – परतत्त्वबोधसुदशायाम्)

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।
तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ 227॥

मृत्कार्यभूतोऽपि मृदो न भिन्नः
कुंभोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुंभरूपं पृथगस्ति कुंभः
कुतो मृषा कल्पितनाममात्रः ॥ 228॥

केनापि मृद्भिन्नतया स्वरूपं
घटस्य संदर्शयितुं न शक्यते ।
अतो घटः कल्पित एव मोहा-
न्मृदेव सत्यं परमार्थभूतम् ॥ 229॥

सद्ब्रह्मकार्यं सकलं सदेवं (पाठभेदः – सदैव)
तन्मात्रमेतन्न ततोऽन्यदस्ति । (पाठभेदः – सन्मात्रमेतन्न)
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रितवत्प्रजल्पः ॥ 230॥

ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा ।
तस्मादेतद्ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ॥ 231॥

सत्यं यदि स्याज्जगदेतदात्मनोऽ
नंतत्त्वहानिर्निगमाप्रमाणता ।
असत्यवादित्वमपीशितुः स्या-
न्नैतत्त्रयं साधु हितं महात्मनाम् ॥ 232॥

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानीत्येवमेव व्यचीक्लृपत् ॥ 233॥ (पाठभेदः – व्यचीकथत्)

यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।
यन्नोपलभ्यते किंचिदतोऽसत्स्वप्नवन्मृषा ॥ 234॥

अतः पृथङ्नास्ति जगत्परात्मनः
पृथक्प्रतीतिस्तु मृषा गुणादिवत् । गुणाहिवत्
आरोपितस्यास्ति किमर्थवत्ताऽ-
धिष्ठानमाभाति तथा भ्रमेण ॥ 235॥

भ्रांतस्य यद्यद्भ्रमतः प्रतीतं
ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदंतया ब्रह्म सदैव रूप्यते (पाठभेदः – सदेव)
त्वारोपितं ब्रह्मणि नाममात्रम् ॥ 236॥

अतः परं ब्रह्म सदद्वितीयं
विशुद्धविज्ञानघनं निरंजनम् ।
प्रशांतमाद्यंतविहीनमक्रियं
निरंतरानंदरसस्वरूपम् ॥ 237॥

निरस्तमायाकृतसर्वभेदं
नित्यं सुखं निष्कलमप्रमेयम् । (पाठभेदः – नित्यं ध्रुवं)
अरूपमव्यक्तमनाख्यमव्ययं
ज्योतिः स्वयं किंचिदिदं चकास्ति ॥ 238॥

ज्ञातृज्ञेयज्ञानशून्यमनंतं निर्विकल्पकम् ।
केवलाखंडचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ 239॥

अहेयमनुपादेयं मनोवाचामगोचरम् ।
अप्रमेयमनाद्यंतं ब्रह्म पूर्णमहं महः ॥ 240॥ (पाठभेदः – पूर्णं महन्महः)

तत्त्वंपदाभ्यामभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । (पाठभेदः – शोधितयोर्यदित्थम्)
श्रुत्या तयोस्तत्त्वमसीति सम्यग्
एकत्वमेव प्रतिपाद्यते मुहुः ॥ 241-

एक्यं तयोर्लक्षितयोर्न वाच्ययोः
निगद्यतेऽन्योन्यविरुद्धधर्मिणोः ।
खद्योतभान्वोरिव राजभृत्ययोः
कूपांबुराश्योः परमाणुमेर्वोः ॥ 242॥

तयोर्विरोधोऽयमुपाधिकल्पितो
न वास्तवः कश्चिदुपाधिरेषः ।
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शऋणु पंचकोशम् ॥ 243॥ (पाठभेदः – पंचकोशाः)

एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः ।
राज्यं नरेंद्रस्य भटस्य खेटक्-
स्तयोरपोहे न भटो न राजा ॥ 244॥

अथात आदेश इति श्रुतिः स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् ।
श्रुतिप्रमाणानुगृहीतबोधा- (पाठभेदः – प्रमाणानुगृहीतयुक्त्या)
त्तयोर्निरासः करणीय एव ॥ 245॥

नेदं नेदं कल्पितत्वान्न सत्यं
रज्जुदृष्टव्यालवत्स्वप्नवच्च । (पाठभेदः – रज्जौ)
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चादेकभावस्तयोर्यः ॥ 246॥

ततस्तु तौ लक्षणया सुलक्ष्यौ
तयोरखंडैकरसत्वसिद्धये ।
नालं जहत्या न तथाऽजहत्या
किंतूभयार्थात्मिकयैव भाव्यम् ॥ 247॥ (पाठभेदः – भयार्थैकतयैव)

स देवदत्तोऽयमितीह चैकता
विरुद्धधर्मांशमपास्य कथ्यते ।
यथा तथा तत्त्वमसीतिवाक्ये
विरुद्धधर्मानुभयत्र हित्वा ॥ 248॥

संलक्ष्य चिन्मात्रतया सदात्मनोः
अखंडभावः परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते
ब्रह्मात्मनोरैक्यमखंडभावः ॥ 249॥

अस्थूलमित्येतदसन्निरस्य
सिद्धं स्वतो व्योमवदप्रतर्क्यम् ।
अतो मृषामात्रमिदं प्रतीतं
जहीहि यत्स्वात्मतया गृहीतम् ।
ब्रह्माहमित्येव विशुद्धबुद्ध्या
विद्धि स्वमात्मानमखंडबोधम् ॥ 250॥

मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं (पाठभेदः – मृन्मात्रमेवाभितः)
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात्तत्त्वमसि प्रशांतममलं ब्रह्माद्वयं यत्परम् ॥ 251॥

निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः ।
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशांतममलं ब्रह्माद्वयं यत्परम् ॥ 252॥

यत्र भ्रांत्या कल्पितं तद्विवेके (पाठभेदः – यद्विवेके)
तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।
स्वप्ने नष्टं स्वप्नविश्वं विचित्रं
स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे ॥ 253॥

जातिनीतिकुलगोत्रदूरगं
नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 254॥

यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः ।
शुद्धचिद्घनमनादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 255॥

षड्भिरूर्मिभिरयोगि योगिहृद्-
भावितं न करणैर्विभावितम् ।
बुद्ध्यवेद्यमनवद्यमस्ति यद् (पाठभेदः – भूति यद्)
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 256॥

भ्रांतिकल्पितजगत्कलाश्रयं
स्वाश्रयं च सदसद्विलक्षणम् ।
निष्कलं निरुपमानवद्धि यद् (पाठभेदः – निरुपमानमृद्धिमत्)
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 257॥

जन्मवृद्धिपरिणत्यपक्षय-
व्याधिनाशनविहीनमव्ययम् ।
विश्वसृष्ट्यवविघातकारणं (पाठभेदः – वनघातकारणं)
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 258॥

अस्तभेदमनपास्तलक्षणं
निस्तरंगजलराशिनिश्चलम् ।
नित्यमुक्तमविभक्तमूर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 259॥

एकमेव सदनेककारणं
कारणांतरनिरास्यकारणम् । (पाठभेदः – सकारणम्)
कार्यकारणविलक्षणं स्वयं
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 260॥

निर्विकल्पकमनल्पमक्षरं
यत्क्षराक्षरविलक्षणं परम् ।
नित्यमव्ययसुखं निरंजनं
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 261॥

यद्विभाति सदनेकधा भ्रमा-
न्नामरूपगुणविक्रियात्मना ।
हेमवत्स्वयमविक्रियं सदा
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 262॥

यच्चकास्त्यनपरं परात्परं
प्रत्यगेकरसमात्मलक्षणम् ।
सत्यचित्सुखमनंतमव्ययं
ब्रह्म तत्त्वमसि भावयात्मनि ॥ 263॥

उक्तमर्थमिममात्मनि स्वयं
भावयेत्प्रथितयुक्तिभिर्धिया । (पाठभेदः – भावय प्रथित)
संशयादिरहितं करांबुवत्
तेन तत्त्वनिगमो भविष्यति ॥ 264॥

संबोधमात्रं परिशुद्धतत्त्वं (पाठभेदः – स्वं बोधमात्रं)
विज्ञाय संघे नृपवच्च सैन्ये ।
तदाश्रयः स्वात्मनि सर्वदा स्थितो (पाठभेदः – तदात्मनैवात्मनि)
विलापय ब्रह्मणि विश्वजातम् ॥ 265॥ (पाठभेदः – दृश्यजातम्)

बुद्धौ गुहायां सदसद्विलक्षणं
ब्रह्मास्ति सत्यं परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गुहायां
पुनर्न तस्यांगगुहाप्रवेशः ॥ 266॥

ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा
कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः ।
प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्ना-
न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ 267॥

अहं ममेति यो भावो देहाक्षादावनात्मनि ।
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ 268॥

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।
सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि ॥ 269॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ 270॥

लोकवासनया जंतोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥ 271

संसारकारागृहमोक्षमिच्छो-
रयोमयं पादनिबंधशऋंखलम् । (पाठभेदः – निबद्ध)
वदंति तज्ज्ञाः पटु वासनात्रयं
योऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥ 272॥

जलादिसंसर्गवशात्प्रभूत- (पाठभेदः – जलादिसंपर्कवशात्)
दुर्गंधधूताऽगरुदिव्यवासना ।
संघर्षणेनैव विभाति सम्य-
ग्विधूयमाने सति बाह्यगंधे ॥ 273॥

अंतःश्रितानंतदुरंतवासना-
धूलीविलिप्ता परमात्मवासना ।
प्रज्ञातिसंघर्षणतो विशुद्धा
प्रतीयते चंदनगंधवत् स्फुटम् ॥ 274॥ (पाठभेदः – स्फुटा)

अनात्मवासनाजालैस्तिरोभूतात्मवासना ।
नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् ॥ 275॥ (पाठभेदः – स्फुटा)

यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुंचति बाह्यवासनाम् । (पाठभेदः – बाह्यवासनाः)
निःशेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबंधशून्या ॥ 276॥

स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । (पाठभेदः – स्थित्या)
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ 277॥

तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति ।
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥ 278॥

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालंब्य यत्नेन स्वाध्यासापनयं कुरु ॥ 279॥

नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् ।
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ 280॥

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।
क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥ 281॥

अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः । (पाठभेदः – अन्नादानविसर्गा)
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ 282॥

तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।
ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ 283॥

अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ 284॥

प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता ।
तावन्निरंतरं विद्वन्स्वाध्यासापनयं कुरु ॥ 285॥

निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः ।
क्वचिन्नावसरं दत्त्वा चिंतयात्मानमात्मनि ॥ 286॥

मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः ।
त्यक्त्वा चांडालवद्दूरं ब्रह्मीभूय कृती भव ॥ 287॥

घटाकाशं महाकाश इवात्मानं परात्मनि ।
विलाप्याखंडभावेन तूष्णी भव सदा मुने ॥ 288॥ (पाठभेदः – तूष्णीं)

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना ।
ब्रह्मांडमपि पिंडांडं त्यज्यतां मलभांडवत् ॥ 289॥

चिदात्मनि सदानंदे देहारूढामहंधियम् ।
निवेश्य लिंगमुत्सृज्य केवलो भव सर्वदा ॥ 290॥

यत्रैष जगदाभासो दर्पणांतः पुरं यथा ।
तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ 291॥

यत्सत्यभूतं निजरूपमाद्यं
चिदद्वयानंदमरूपमक्रियम् ।
तदेत्य मिथ्यावपुरुत्सृजेत (पाठभेदः – सृजैत)
शैलूषवद्वेषमुपात्तमात्मनः ॥ 292॥

सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणिकत्वदर्शनात् ।
जानाम्यहं सर्वमिति प्रतीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ 293॥

अहंपदार्थस्त्वहमादिसाक्षी
नित्यं सुषुप्तावपि भावदर्शनात् ।
ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ॥ 294॥

विकारिणां सर्वविकारवेत्ता
नित्याविकारो भवितुं समर्हति । (पाठभेदः – नित्योऽविकारो)
मनोरथस्वप्नसुषुप्तिषु स्फुटं
पुनः पुनर्दृष्टमसत्त्वमेतयोः ॥ 295॥

अतोऽभिमानं त्यज मांसपिंडे
पिंडाभिमानिन्यपि बुद्धिकल्पिते ।
कालत्रयाबाध्यमखंडबोधं
ज्ञात्वा स्वमात्मानमुपैहि शांतिम् ॥ 296॥

त्यजाभिमानं कुलगोत्रनाम-
रूपाश्रमेष्वार्द्रशवाश्रितेषु ।
लिंगस्य धर्मानपि कर्तृतादीं-
स्त्यक्त्वा भवाखंडसुखस्वरूपः ॥ 297॥

संत्यन्ये प्रतिबंधाः पुंसः संसारहेतवो दृष्टाः ।
तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः ॥ 298॥ (पाठभेदः – तेषामेषां)

यावत्स्यात्स्वस्य संबंधोऽहंकारेण दुरात्मना ।
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ 299॥

अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते ।
चंद्रवद्विमलः पूर्णः सदानंदः स्वयंप्रभः ॥ 300॥

यो वा पुरे सोऽहमिति प्रतीतो (पाठभेदः – पुरैषोऽहमिति)
बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया । (पाठभेदः – बुद्ध्याऽविविक्तस्तमसा)
तस्यैव निःशेषतया विनाशे
ब्रह्मात्मभावः प्रतिबंधशून्यः ॥ 301॥

ब्रह्मानंदनिधिर्महाबलवताऽहंकारघोराहिना
संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चंडेस्त्रिभिर्मस्तकैः (पाठभेदः – चंडै)
विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं (पाठभेदः – द्युतिमता)
निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुंक्षमः ॥ 302॥

यावद्वा यत्किंचिद्विषदोषस्फूर्तिरस्ति चेद्देहे ।
कथमारोग्याय भवेत्तद्वदहंतापि योगिनो मुक्त्यै ॥ 303॥

अहमोऽत्यंतनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या ।
प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विंदते तत्त्वम् ॥ 304॥ (पाठभेदः – विवेकादयम्)

अहंकारे कर्तर्यहमिति मतिं मुंच सहसा (पाठभेदः – अहंकर्तर्यस्मिन्नहमिति)
विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।
यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला
प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ 305॥

सदैकरूपस्य चिदात्मनो विभो-
रानंदमूर्तेरनवद्यकीर्तेः ।
नैवान्यथा क्वाप्यविकारिणस्ते
विनाहमध्यासममुष्य संसृतिः ॥ 306॥

तस्मादहंकारमिमं स्वशत्रुं
भोक्तुर्गले कंटकवत्प्रतीतम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं
भुंक्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ 307॥

ततोऽहमादेर्विनिवर्त्य वृत्तिं
संत्यक्तरागः परमार्थलाभात् ।
तूष्णीं समास्स्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ 308॥

समूलकृत्तोऽपि महानहं पुनः
व्युल्लेखितः स्याद्यदि चेतसा क्षणम् ।
संजीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ॥ 309॥

निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिंतया ।
स एव संजीवनहेतुरस्य
प्रक्षीणजंबीरतरोरिवांबु ॥ 310॥

देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् ।
अतोऽर्थसंधानपरत्वमेव
भेदप्रसक्त्या भवबंधहेतुः ॥ 311॥

कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते ।
कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥ 312॥

वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना ।
वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ 313॥

संसारबंधविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः ।
वासनावृद्धिरेताभ्यां चिंतया क्रियया बहिः ॥ 314॥ (पाठभेदः – वासना प्रेर्यते ह्यंतः)

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ 315॥

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः । (पाठभेदः – मात्रावलोकनम्)
सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ॥ 316॥

क्रियानाशे भवेच्चिंतानाशोऽस्माद्वासनाक्षयः ।
वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ 317॥ (पाठभेदः – स)

सद्वासनास्फूर्तिविजृंभणे सति
ह्यसौ विलीनाप्यहमादिवासना । (पाठभेदः – विलीना त्वहमादिवासना)
अतिप्रकृष्टाप्यरुणप्रभायां
विलीयते साधु यथा तमिस्रा ॥ 318॥

तमस्तमःकार्यमनर्थजालं
न दृश्यते सत्युदिते दिनेशे ।
तथाऽद्वयानंदरसानुभूतौ
नैवास्ति बंधो न च दुःखगंधः ॥ 319॥

दृश्यं प्रतीतं प्रविलापयन्सन् (पाठभेदः – प्रविलापयन्स्वयं)
सन्मात्रमानंदघनं विभावयन् ।
समाहितः सन्बहिरंतरं वा
कालं नयेथाः सति कर्मबंधे ॥ 320॥

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ॥ 321॥

न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोहस्ततोऽहंधीस्ततो बंधस्ततो व्यथा ॥ 322॥

विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।
विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ॥ 323॥

यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ 324॥

लक्ष्यच्युतं चेद्यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत्ततस्ततः ।
प्रमादतः प्रच्युतकेलिकंदुकः
सोपानपंक्तौ पतितो यथा तथा ॥ 325॥

विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् ।
सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥ 326॥

अतः प्रमादान्न परोऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ ।
समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः ॥ 327॥

ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ॥ 328॥

संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् ।
अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजे ।
जीवतो यस्य कैवल्यं विदेहे स च केवलः ।
यत्किंचित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ 329॥

यदा कदा वापि विपश्चिदेष
ब्रह्मण्यनंतेऽप्यणुमात्रभेदम् ।
पश्यत्यथामुष्य भयं तदैव
यद्वीक्षितं भिन्नतया प्रमादात् ॥ 330॥ (पाठभेदः – यदीक्षितं)

श्रुतिस्मृतिन्यायशतैर्निषिद्धे
दृश्येऽत्र यः स्वात्ममतिं करोति ।
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा ॥ 331॥

सत्याभिसंधानरतो विमुक्तो
महत्त्वमात्मीयमुपैति नित्यम् ।
मिथ्याभिसंधानरतस्तु नश्येद्
दृष्टं तदेतद्यदचौरचौरयोः ॥ 332॥ (पाठभेदः – चोरचोरयोः)

यतिरसदनुसंधिं बंधहेतुं विहाय
स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत्
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति परमविद्याकार्यदुःखं प्रतीतम् ॥ 333॥

बाह्यानुसंधिः परिवर्धयेत्फलं (पाठभेदः – बाह्याभिसंधिः)
दुर्वासनामेव ततस्ततोऽधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मानुसंधिं विदधीत नित्यम् ॥ 334॥

बाह्ये निरुद्धे मनसः प्रसन्नता
मनःप्रसादे परमात्मदर्शनम् ।
तस्मिन्सुदृष्टे भवबंधनाशो
बहिर्निरोधः पदवी विमुक्तेः ॥ 335॥

कः पंडितः सन्सदसद्विवेकी
श्रुतिप्रमाणः परमार्थदर्शी ।
जानन्हि कुर्यादसतोऽवलंबं
स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ 336॥

देहादिसंसक्तिमतो न मुक्तिः
मुक्तस्य देहाद्यभिमत्यभावः ।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥ 337॥

अंतर्बहिः स्वं स्थिरजंगमेषु
ज्ञात्वाऽऽत्मनाधारतया विलोक्य । (पाठभेदः – ज्ञानात्मन्)
त्यक्ताखिलोपाधिरखंडरूपः
पूर्णात्मना यः स्थित एष मुक्तः ॥ 338॥

सर्वात्मना बंधविमुक्तिहेतुः
सर्वात्मभावान्न परोऽस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेऽसौ
सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ 339॥

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः ।
सन्न्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः
तत्त्वज्ञैः करणीयमात्मनि सदानंदेच्छुभिर्यत्नतः ॥ 340॥

सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः । (पाठभेदः – सार्वात्म्य)
समाधिं विदधात्येषा शांतो दांत इति श्रुतिः ॥ 341॥

आरूढशक्तेरहमो विनाशः
कर्तुन्न शक्य सहसापि पंडितैः । (पाठभेदः – कर्तुं न)
ये निर्विकल्पाख्यसमाधिनिश्चलाः
तानंतराऽनंतभवा हि वासनाः ॥ 342॥

अहंबुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् ।
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ 343॥

विक्षेपशक्तिविजयो विषमो विधातुं
निःशेषमावरणशक्तिनिवृत्त्यभावे ।
दृग्दृश्ययोः स्फुटपयोजलवद्विभागे
नश्येत्तदावरणमात्मनि च स्वभावात् ।
निःसंशयेन भवति प्रतिबंधशून्यो
विक्षेपणं न हि तदा यदि चेन्मृषार्थे ॥ 344॥ (पाठभेदः – निक्षेपणं)

सम्यग्विवेकः स्फुटबोधजन्यो
विभज्य दृग्दृश्यपदार्थतत्त्वम् ।
छिनत्ति मायाकृतमोहबंधं
यस्माद्विमुक्तस्तु पुनर्न संसृतिः ॥ 345॥ (पाठभेदः – विमुक्तस्य)

परावरैकत्वविवेकवह्निः
दहत्यविद्यागहनं ह्यशेषम् ।
किं स्यात्पुनः संसरणस्य बीजं
अद्वैतभावं समुपेयुषोऽस्य ॥ 346॥

आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः ।
मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः ॥ 347॥

एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् ।
तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बंधमुक्तये विदुषा ॥ 348॥

अयोऽग्नियोगादिव सत्समन्वयान्
मात्रादिरूपेण विजृंभते धीः ।
तत्कार्यमेतद्द्वितयं यतो मृषा (पाठभेदः – तत्कार्यमेव त्रितयं)
दृष्टं भ्रमस्वप्नमनोरथेषु ॥ 349॥

ततो विकाराः प्रकृतेरहम्मुखा
देहावसाना विषयाश्च सर्वे ।
क्षणेऽन्यथाभावितया ह्यमीषा- (पाठभेदः – भाविन एष आत्मा)
मसत्त्वमात्मा तु कदापि नान्यथा ॥ 350॥ (पाठभेदः – मसत्त्वमात्मा तु कदापि)

नित्याद्वयाखंडचिदेकरूपो
बुद्ध्यादिसाक्षी सदसद्विलक्षणः ।
अहंपदप्रत्ययलक्षितार्थः
प्रत्यक् सदानंदघनः परात्मा ॥ 351॥

इत्थं विपश्चित्सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या ।
ज्ञात्वा स्वमात्मानमखंडबोधं
तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ 352॥

अज्ञानहृदयग्रंथेर्निःशेषविलयस्तदा ।
समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ॥ 353॥

त्वमहमिदमितीयं कल्पना बुद्धिदोषात्
प्रभवति परमात्मन्यद्वये निर्विशेषे ।
प्रविलसति समाधावस्य सर्वो विकल्पो
विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥ 354॥

शांतो दांतः परमुपरतः क्षांतियुक्तः समाधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।
तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्
ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥ 355॥

समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतः स्वमहं चिदात्मनि ।
त एव मुक्ता भवपाशबंधैः
नान्ये तु पारोक्ष्यकथाभिधायिनः ॥ 356॥

उपाधिभेदात्स्वयमेव भिद्यते (पाठभेदः – योगात्स्वयमेव)
चोपाध्यपोहे स्वयमेव केवलः ।
तस्मादुपाधेर्विलयाय विद्वान्
वसेत्सदाऽकल्पसमाधिनिष्ठया ॥ 357॥

सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥ 358॥

क्रियांतरासक्तिमपास्य कीटको
ध्यायन्नलित्वं ह्यलिभावमृच्छति । (पाठभेदः – ध्यायन्यथालिं)
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया ॥ 359॥

अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।
समाधिनात्यंतसुसूक्ष्मवृत्त्या
ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥ 360॥

यथा सुवर्णं पुटपाकशोधितं
त्यक्त्वा मलं स्वात्मगुणं समृच्छति ।
तथा मनः सत्त्वरजस्तमोमलं
ध्यानेन संत्यज्य समेति तत्त्वम् ॥ 361॥

निरंतराभ्यासवशात्तदित्थं
पक्वं मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः सविकल्पवर्जितः (पाठभेदः – स विकल्पवर्जितः)
स्वतोऽद्वयानंदरसानुभावकः ॥ 362॥

समाधिनाऽनेन समस्तवासना-
ग्रंथेर्विनाशोऽखिलकर्मनाशः ।
अंतर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ 363॥

श्रुतेः शतगुणं विद्यान्मननं मननादपि ।
निदिध्यासं लक्षगुणमनंतं निर्विकल्पकम् ॥ 364॥

निर्विकल्पकसमाधिना स्फुटं
ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः
प्रत्ययांतरविमिश्रितं भवेत् ॥ 365॥

अतः समाधत्स्व यतेंद्रियः सन्
निरंतरं शांतमनाः प्रतीचि ।
विध्वंसय ध्वांतमनाद्यविद्यया
कृतं सदेकत्वविलोकनेन ॥ 366॥

योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः । (पाठभेदः – प्रथमं द्वारं)
निराशा च निरीहा च नित्यमेकांतशीलता ॥ 367॥

एकांतस्थितिरिंद्रियोपरमणे हेतुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना ।
तेनानंदरसानुभूतिरचला ब्राह्मी सदा योगिनः
तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः ॥ 368॥ प्रयत्नान्मुनेः
वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शांतिं परमां भजस्व ॥ 369॥

देहप्राणेंद्रियमनोबुद्ध्यादिभिरुपाधिभिः ।
यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः ॥ 370॥

तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् ।
संदृश्यते सदानंदरसानुभवविप्लवः ॥ 371॥

अंतस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
त्यजत्यंतर्बहिःसंगं विरक्तस्तु मुमुक्षया ॥ 372॥

बहिस्तु विषयैः संगं तथांतरहमादिभिः । (पाठभेदः – संगः)
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥ 373॥

वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् ।
विमुक्तिसौधाग्रलताधिरोहणं
ताभ्यां विना नान्यतरेण सिध्यति ॥ 374॥

अत्यंतवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः ।
प्रबुद्धतत्त्वस्य हि बंधमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः ॥ 375॥

वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् ।
एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥ 376॥

आशां छिंद्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति- (पाठभेदः – मृत्योः सृति)
स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुंचातिदूरात्क्रियाः ।
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ॥ 377॥ (पाठभेदः – द्रष्टास्यमलो)

लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येंद्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् ।
ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखंडवृत्त्याऽनिशं
ब्रह्मानंदरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् ॥ 378॥ (पाठभेदः – किमन्यैर्भ्रमैः)

अनात्मचिंतनं त्यक्त्वा कश्मलं दुःखकारणम् ।
चिंतयात्मानमानंदरूपं यन्मुक्तिकारणम् ॥ 379॥

एष स्वयंज्योतिरशेषसाक्षी
विज्ञानकोशो विलसत्यजस्रम् । विज्ञानकोशे
लक्ष्यं विधायैनमसद्विलक्षण-
मखंडवृत्त्याऽऽत्मतयाऽनुभावय ॥ 380॥

एतमच्छिन्नया वृत्त्या प्रत्ययांतरशून्यया ।
उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ॥ 381॥

अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् ।
उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् ॥ 382॥ (पाठभेदः – तिष्ठेद्घटपटादिवत्)

विशुद्धमंतःकरणं स्वरूपे
निवेश्य साक्षिण्यवबोधमात्रे ।
शनैः शनैर्निश्चलतामुपानयन्
पूर्णं स्वमेवानुविलोकयेत्ततः ॥ 383॥ (पाठभेदः – पूर्णत्वमेवानु)

देहेंद्रियप्राणमनोऽहमादिभिः
स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः ।
विमुक्तमात्मानमखंडरूपं
पूर्णं महाकाशमिवावलोकयेत् ॥ 384॥

घटकलशकुसूलसूचिमुख्यैः
गगनमुपाधिशतैर्विमुक्तमेकम् ।
भवति न विविधं तथैव शुद्धं
परमहमादिविमुक्तमेकमेव ॥ 385॥

ब्रह्मादिस्तंबपर्यंता मृषामात्रा उपाधयः । (पाठभेदः – ब्रह्माद्याः स्तंब)
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ 386॥

यत्र भ्रांत्या कल्पितं तद्विवेके (पाठभेदः – यद्विवेके)
तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।
भ्रांतेर्नाशे भाति दृष्टाहितत्त्वं (पाठभेदः – भ्रांतिदृष्टा)
रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ॥ 387॥

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिंद्रः स्वयं शिवः ।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन ॥ 388॥

अंतः स्वयं चापि बहिः स्वयं च
स्वयं पुरस्तात् स्वयमेव पश्चात् ।
स्वयं ह्यावाच्यां स्वयमप्युदीच्यां (पाठभेदः – ह्यवाच्यां)
तथोपरिष्टात्स्वयमप्यधस्तात् ॥ 389॥

तरंगफेनभ्रमबुद्बुदादि
सर्वं स्वरूपेण जलं यथा तथा ।
चिदेव देहाद्यहमंतमेतत्
सर्वं चिदेवैकरसं विशुद्धम् ॥ 390॥

सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः ।
पृथक् किं मृत्स्नायाः कलशघटकुंभाद्यवगतं
वदत्येष भ्रांतस्त्वमहमिति मायामदिरया ॥ 391॥

क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥ 392॥

आकाशवन्निर्मलनिर्विकल्पं (पाठभेदः – निर्विकल्प)
निःसीमनिःस्पंदननिर्विकारम् ।
अंतर्बहिःशून्यमनन्यमद्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ 393॥

वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं
ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः । (पाठभेदः – जगदापराणु सकलं)
ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं
ब्रह्मीभूय वसंति संततचिदानंदात्मनैतद्ध्रुवम् ॥ 394॥ (पाठभेदः – आनंदात्मनैव ध्रुवम्)

जहि मलमयकोशेऽहंधियोत्थापिताशां
प्रसभमनिलकल्पे लिंगदेहेऽपि पश्चात् ।
निगमगदितकीर्तिं नित्यमानंदमूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ 395॥

शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः । (पाठभेदः – व्याधिनिरयाः)
यदात्मानं शुद्धं कलयति शिवाकारमचलम्
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ 396॥

स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः ।
स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ 397॥

समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे ।
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते यतः ॥ 398॥ (पाठभेदः – ततः)

असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 399॥

द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि । (पाठभेदः – द्रष्टृदर्शन)
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 400॥

कल्पार्णव इवात्यंतपरिपूर्णैकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 401॥

तेजसीव तमो यत्र प्रलीनं भ्रांतिकारणम् । (पाठभेदः – यत्र विलीनं)
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ 402॥

एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् । (पाठभेदः – कथं भवेत्)
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ 403॥

न ह्यस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षितो गुणे
न ह्यंबुबिंदुर्मृगतृष्णिकायाम् ॥ 404॥

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।
इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ॥ 405॥

अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।
पंडितै रज्जुसर्पादौ विकल्पो भ्रांतिजीवनः ॥ 406॥

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ 407॥

किमपि सततबोधं केवलानंदरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् ।
निरवधिगगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 408॥

प्रकृतिविकृतिशून्यं भावनातीतभावं
समरसमसमानं मानसंबंधदूरम् ।
निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 409॥

अजरममरमस्ताभाववस्तुस्वरूपं (पाठभेदः – भासवस्तु)
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।
शमितगुणविकारं शाश्वतं शांतमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 410॥

समाहितांतःकरणः स्वरूपे
विलोकयात्मानमखंडवैभवम् ।
विच्छिंद्धि बंधं भवगंधगंधितं (पाठभेदः – गंधगंधिलं)
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ 411-

सर्वोपाधिविनिर्मुक्तं सच्चिदानंदमद्वयम् ।
भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ 412॥

छायेव पुंसः परिदृश्यमान-
माभासरूपेण फलानुभूत्या ।
शरीरमाराच्छववन्निरस्तं
पुनर्न संधत्त इदं महात्मा ॥ 413॥

सततविमलबोधानंदरूपं समेत्य (पाठभेदः – स्वमेत्य)
त्यज जडमलरूपोपाधिमेतं सुदूरे ।
अथ पुनरपि नैष स्मर्यतां वांतवस्तु (पाठभेदः – पुनरपि नैव)
स्मरणविषयभूतं कल्पते कुत्सनाय ॥ 414॥

समूलमेतत्परिदाह्य वह्नौ (पाठभेदः – परिदह्य)
सदात्मनि ब्रह्मणि निर्विकल्पे ।
ततः स्वयं नित्यविशुद्धबोधा-
नंदात्मना तिष्ठति विद्वरिष्ठः ॥ 415॥

प्रारब्धसूत्रग्रथितं शरीरं
प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्त्ववेत्ता-
ऽऽनंदात्मनि ब्रह्मणि लीनवृत्तिः ॥ 416॥

अखंडानंदमात्मानं विज्ञाय स्वस्वरूपतः ।
किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥ 417॥

संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः ।
बहिरंतः सदानंदरसास्वादनमात्मनि ॥ 418॥

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् ।
स्वानंदानुभवाच्छांतिरेषैवोपरतेः फलम् ॥ 419॥

यद्युत्तरोत्तराभावः पूर्वपूर्वंतु निष्फलम् ।
निवृत्तिः परमा तृप्तिरानंदोऽनुपमः स्वतः ॥ 420॥

दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् ।
यत्कृतं भ्रांतिवेलायां नाना कर्म जुगुप्सितम् ।
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥ 421॥

विद्याफलं स्यादसतो निवृत्तिः
प्रवृत्तिरज्ञानफलं तदीक्षितम् ।
तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ
नोचेद्विदां दृष्टफलं किमस्मात् ॥ 422॥ (पाठभेदः – नोचेद्विदो)

अज्ञानहृदयग्रंथेर्विनाशो यद्यशेषतः ।
अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ॥ 423॥ (पाठभेदः – विदुषः किं)

वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
अहंभावोदयाभावो बोधस्य परमावधिः ।
लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥ 424॥ (पाठभेदः – वृत्तेर)

ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी-
रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् ।
स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी-
रास्ते कश्चिदनंतपुण्यफलभुग्धन्यः स मान्यो भुवि ॥ 425॥

स्थितप्रज्ञो यतिरयं यः सदानंदमश्नुते ।
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ 426॥

ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते ॥ 427॥

यस्य स्थिता भवेत्प्रज्ञा यस्यानंदो निरंतरः ।
प्रपंचो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ 428॥

लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः ।
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ 429॥

शांतसंसारकलनः कलावानपि निष्कलः ।
यस्य चित्तं विनिश्चिंतं स जीवन्मुक्त इष्यते ॥ 430॥ (पाठभेदः – यः सचित्तोऽपि निश्चित्तः)

वर्तमानेऽपि देहेऽस्मिंछायावदनुवर्तिनि ।
अहंताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥ 431॥

अतीताननुसंधानं भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् ॥ 432॥ (पाठभेदः – प्राप्ते)

गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे ।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ 433॥

इष्टानिष्टार्थसंप्राप्तौ समदर्शितयाऽऽत्मनि ।
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ 434॥

ब्रह्मानंदरसास्वादासक्तचित्ततया यतेः ।
अंतर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ 435॥

देहेंद्रियादौ कर्तव्ये ममाहंभाववर्जितः ।
औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ॥ 436॥ (पाठभेदः – स जीवन्मुक्त इष्यते)

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।
भवबंधविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥ 437॥ (पाठभेदः – स जीवन्मुक्त इष्यते)

देहेंद्रियेष्वहंभाव इदंभावस्तदन्यके ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ 438॥

जीवेशोभयसंसाररूपदुर्वासनोज्झिता ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः ।
प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः ॥ 439॥ (पाठभेदः – स जीवन्मुक्त इष्यते)
साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥ 440॥ (पाठभेदः – स जीवन्मुक्त इष्यते)

यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ ।
लिनंति सन्मात्रतया न विक्रियां
उत्पादयंत्येष यतिर्विमुक्तः ॥ 441॥

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।
अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ 442॥

प्राचीनवासनावेगादसौ संसरतीति चेत् ।
न सदेकत्वविज्ञानान्मंदी भवति वासना ॥ 443॥

अत्यंतकामुकस्यापि वृत्तिः कुंठति मातरि ।
तथैव ब्रह्मणि ज्ञाते पूर्णानंदे मनीषिणः ॥ 444॥

निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ 445॥

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते ।
फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ 446॥

अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् ।
संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ 447॥

यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।
सुप्तोत्थितस्य किंतत्स्यात्स्वर्गाय नरकाय वा ॥ 448॥

स्वमसंगमुदासीनं परिज्ञाय नभो यथा ।
न श्लिष्यति च यत्किंचित्कदाचिद्भाविकर्मभिः ॥ 449॥ (पाठभेदः – श्लिष्यते यतिः किंचित्)

न नभो घटयोगेन सुरागंधेन लिप्यते ।
तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥ 450॥

ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति ।
अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ 451॥

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥ 452॥

प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्यग्ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् ।
ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ 453॥

उपाधितादात्म्यविहीनकेवल-
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।
प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसंबंधकथेव जाग्रतः ॥ 454॥

न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपंचे ।
करोत्यहंतां ममतामिदंतां
किंतु स्वयं तिष्ठति जागरेण ॥ 455॥

न तस्य मिथ्यार्थसमर्थनेच्छा
न संग्रहस्तज्जगतोऽपि दृष्टः ।
तत्रानुवृत्तिर्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम् ॥ 456॥

तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतिर्यथा स्वप्नविलोकितार्थे
तथा विदः प्राशनमोचनादौ ॥ 457॥

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ 458॥

अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् । (पाठभेदः – अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक्)
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ 459॥

प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ 460॥

शरीरस्यापि प्रारब्धकल्पना भ्रांतिरेव हि ।
अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः । (पाठभेदः – सत्त्वमसत्त्वस्य)
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ 461॥

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
तिष्ठत्ययं कथं देह इति शंकावतो जडान् ॥ 462॥

समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ।
न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ।
यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥ 463॥

परिपूर्णमनाद्यंतमप्रमेयमविक्रियम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 464॥

सद्घनं चिद्घनं नित्यमानंदघनमक्रियम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 465॥

प्रत्यगेकरसं पूर्णमनंतं सर्वतोमुखम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 466॥

अहेयमनुपादेयमनादेयमनाश्रयम् । मनाधेयमना
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 467॥

निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरंजनम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 468॥

अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 469॥

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 470॥

निरस्तरागा विनिरस्तभोगाः (पाठभेदः – निरपास्तभोगाः)
शांताः सुदांता यतयो महांतः ।
विज्ञाय तत्त्वं परमेतदंते
प्राप्ताः परां निर्वृतिमात्मयोगात् ॥ 471॥

भवानपीदं परतत्त्वमात्मनः
स्वरूपमानंदघनं विचार्य । (पाठभेदः – निचाय्य)
विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ 472॥

समाधिना साधुविनिश्चलात्मना (पाठभेदः – सुनिश्चलात्मना)
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा ।
निःसंशयं सम्यगवेक्षितश्चे-
च्छ्रुतः पदार्थो न पुनर्विकल्प्यते ॥ 473॥ (पाठभेदः – पुनर्विकल्पते)

स्वस्याविद्याबंधसंबंधमोक्षा-
त्सत्यज्ञानानंदरूपात्मलब्धौ ।
शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
चांतःसिद्धा स्वानुभूतिः प्रमाणम् ॥ 474॥

बंधो मोक्षश्च तृप्तिश्च चिंताऽऽरोग्यक्षुधादयः ।
स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ 475॥

तटस्थिता बोधयंति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥ 476॥

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखंडितम् ।
संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि ॥ 477॥ (पाठभेदः – सुसुखं तिष्ठेन्)
वेदांतसिद्धांतनिरुक्तिरेषा
ब्रह्मैव जीवः सकलं जगच्च ।
अखंडरूपस्थितिरेव मोक्षो
ब्रह्माद्वितीये श्रुतयः प्रमाणम् ॥ 478॥ (पाठभेदः – ब्रह्माद्वितीयं)

इति गुरुवचनाच्छ्रुतिप्रमाणात्
परमवगम्य सतत्त्वमात्मयुक्त्या ।
प्रशमितकरणः समाहितात्मा
क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् ॥ 479॥ (पाठभेदः – आत्मनिष्ठितो)

किंचित्कालं समाधाय परे ब्रह्मणि मानसम् । (पाठभेदः – कंचित्कालं)
उत्थाय परमानंदादिदं वचनमब्रवीत् ॥ 480॥ (पाठभेदः – व्युत्थाय)

बुद्धिर्विनष्टा गलिता प्रवृत्तिः
ब्रह्मात्मनोरेकतयाऽधिगत्या ।
इदं न जानेऽप्यनिदं न जाने
किं वा कियद्वा सुखमस्त्यपारम् ॥ 481॥ (पाठभेदः – सुखमस्य पारम्)

वाचा वक्तुमशक्यमेव मनसा मंतुं न वा शक्यते
स्वानंदामृतपूरपूरितपरब्रह्मांबुधेर्वैभवम् ।
अंभोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो
यस्यांशांशलवे विलीनमधुनाऽऽनंदात्मना निर्वृतम् ॥ 482॥

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् ।
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ 483॥

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् ।
अखंडानंदपीयूषपूर्णे ब्रह्ममहार्णवे ॥ 484॥

न किंचिदत्र पश्यामि न शऋणोमि न वेद्म्यहम् ।
स्वात्मनैव सदानंदरूपेणास्मि विलक्षणः ॥ 485॥

नमो नमस्ते गुरवे महात्मने
विमुक्तसंगाय सदुत्तमाय ।
नित्याद्वयानंदरसस्वरूपिणे
भूम्ने सदाऽपारदयांबुधाम्ने ॥ 486॥

यत्कटाक्षशशिसांद्रचंद्रिका-
पातधूतभवतापजश्रमः ।
प्राप्तवानहमखंडवैभवा-
नंदमात्मपदमक्षयं क्षणात् ॥ 487॥

धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् ।
नित्यानंदस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥ 488॥

असंगोऽहमनंगोऽहमलिंगोऽहमभंगुरः ।
प्रशांतोऽहमनंतोऽहममलोऽहं चिरंतनः ॥ 489॥ (पाठभेदः – ऽहमतांतोऽहं)

अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।
शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ 490॥

द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् ।
नित्यनिरंतरनिष्क्रियनिःसीमासंगपूर्णबोधात्मा ॥ 491॥

नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् ।
बाह्याभ्यंतरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥ 492॥

निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।
नित्यानंदैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ 493॥

नारायणोऽहं नरकांतकोऽहं
पुरांतकोऽहं पुरुषोऽहमीशः ।
अखंडबोधोऽहमशेषसाक्षी
निरीश्वरोऽहं निरहं च निर्ममः ॥ 494॥

सर्वेषु भूतेष्वहमेव संस्थितो
ज्ञानात्मनाऽंतर्बहिराश्रयः सन् ।
भोक्ता च भोग्यं स्वयमेव सर्वं
यद्यत्पृथग्दृष्टमिदंतया पुरा ॥ 495॥

मय्यखंडसुखांभोधौ बहुधा विश्ववीचयः ।
उत्पद्यंते विलीयंते मायामारुतविभ्रमात् ॥ 496॥

स्थुलादिभावा मयि कल्पिता भ्रमा-
दारोपितानुस्फुरणेन लोकैः ।
काले यथा कल्पकवत्सराय-
णर्त्वादयो निष्कलनिर्विकल्पे ॥ 497॥

आरोपितं नाश्रयदूषकं भवेत्
कदापि मूढैरतिदोषदूषितैः । मूढैर्मति
नार्द्रीकरोत्यूषरभूमिभागं
मरीचिकावारि महाप्रवाहः ॥ 498॥

आकाशवल्लेपविदूरगोऽहं (पाठभेदः – आकाशवत् कल्पवि)
आदित्यवद्भास्यविलक्षणोऽहम् ।
अहार्यवन्नित्यविनिश्चलोऽहं
अंभोधिवत्पारविवर्जितोऽहम् ॥ 499॥

न मे देहेन संबंधो मेघेनेव विहायसः ।
अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः ॥ 500॥

उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुंक्ते ।
स एव जीर्यन् म्रियते सदाहं (पाठभेदः – एव जीवन्)
कुलाद्रिवन्निश्चल एव संस्थितः ॥ 501॥

न मे प्रवृत्तिर्न च मे निवृत्तिः
सदैकरूपस्य निरंशकस्य ।
एकात्मको यो निविडो निरंतरो (पाठभेदः – निबिडो)
व्योमेव पूर्णः स कथं नु चेष्टते ॥ 502॥

पुण्यानि पापानि निरिंद्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः ।
कुतो ममाखंडसुखानुभूतेः
ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥ 503॥

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा ।
न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम् ॥ 504॥

न साक्षिणं साक्ष्यधर्माः संस्पृशंति विलक्षणम् ।
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।
देहेंद्रियमनोधर्मा नैवात्मानं स्पृशंत्यहो ॥ 505॥ एक्ष्त्र

रवेर्यथा कर्मणि साक्षिभावो
वह्नेर्यथा दाहनियामकत्वम् । (पाठभेदः – वाऽयसि दाहकत्वम्)
रज्जोर्यथाऽऽरोपितवस्तुसंगः
तथैव कूटस्थचिदात्मनो मे ॥ 506॥

कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम् ।
द्रष्टापि वा दर्शयितापि नाहं
सोऽहं स्वयंज्योतिरनीदृगात्मा ॥ 507॥

चलत्युपाधौ प्रतिबिंबलौल्य-
मौपाधिकं मूढधियो नयंति ।
स्वबिंबभूतं रविवद्विनिष्क्रियं
कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥ 508॥

जले वापि स्थले वापि लुठत्वेष जडात्मकः ।
नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ 509॥

कर्तृत्वभोक्तृत्वखलत्वमत्तता-
जडत्वबद्धत्वविमुक्ततादयः ।
बुद्धेर्विकल्पा न तु संति वस्तुतः
स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥ 510॥

संतु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।
किं मेऽसंगचितस्तैर्न घनः क्वचिदंबरं स्पृशति ॥ 511॥ (पाठभेदः – तैः किं मेऽसंगचितेर्न ह्यंबुदडंबरोऽंबरं)

अव्यक्तादिस्थूलपर्यंतमेतत्
विश्वं यत्राभासमात्रं प्रतीतम् ।
व्योमप्रख्यं सूक्ष्ममाद्यंतहीनं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 512॥

सर्वाधारं सर्ववस्तुप्रकाशं
सर्वाकारं सर्वगं सर्वशून्यम् ।
नित्यं शुद्धं निश्चलं निर्विकल्पं (पाठभेदः – निष्कलं)
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 513॥

यत्प्रत्यस्ताशेषमायाविशेषं
प्रत्यग्रूपं प्रत्ययागम्यमानम् ।
सत्यज्ञानानंतमानंदरूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 514॥

निष्क्रियोऽस्म्यविकारोऽस्मि
निष्कलोऽस्मि निराकृतिः ।
निर्विकल्पोऽस्मि नित्योऽस्मि
निरालंबोऽस्मि निर्द्वयः ॥ 515॥

सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।
केवलाखंडबोधोऽहमानंदोऽहं निरंतरः ॥ 516॥

स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहिमप्रसादात् ।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ 517॥

महास्वप्ने मायाकृतजनिजरामृत्युगहने
भ्रमंतं क्लिश्यंतं बहुलतरतापैरनुदिनम् । (पाठभेदः – रनुकलम्)
अहंकारव्याघ्रव्यथितमिममत्यंतकृपया
प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥ 518॥

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः । (पाठभेदः – सदेकस्मै नमश्चिन्महसे मुहुः)
यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ 519॥

इति नतमवलोक्य शिष्यवर्यं
समधिगतात्मसुखं प्रबुद्धतत्त्वम् ।
प्रमुदितहृदयं स देशिकेंद्रः (पाठभेदः – हृदयः)
पुनरिदमाह वचः परं महात्मा ॥ 520॥

ब्रह्मप्रत्ययसंततिर्जगदतो ब्रह्मैव तत्सर्वतः (पाठभेदः – सत्सर्वतः)
पश्याध्यात्मदृशा प्रशांतमनसा सर्वास्ववस्थास्वपि ।
रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते (पाठभेदः – विद्यते)
तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥ 521॥

कस्तां परानंदरसानुभूति-
मृत्सृज्य शून्येषु रमेत विद्वान् । (पाठभेदः – मुत्सृज्य
चंद्रे महाह्लादिनि दीप्यमाने)
चित्रेंदुमालोकयितुं क इच्छेत् ॥ 522॥

असत्पदार्थानुभवेन किंचिन्
न ह्यस्ति तृप्तिर्न च दुःखहानिः ।
तदद्वयानंदरसानुभूत्या
तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ 523॥

स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् । (पाठभेदः – सर्वतः)
स्वानंदमनुभुंजानः कालं नय महामते ॥ 524॥

अखंडबोधात्मनि निर्विकल्पे
विकल्पनं व्योम्नि पुरप्रकल्पनम् ।
तदद्वयानंदमयात्मना सदा
शांतिं परामेत्य भजस्व मौनम् ॥ 525॥

तूष्णीमवस्था परमोपशांतिः
बुद्धेरसत्कल्पविकल्पहेतोः ।
ब्रह्मात्मनो ब्रह्मविदो महात्मनो
यत्राद्वयानंदसुखं निरंतरम् ॥ 526॥

नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् ।
विज्ञातात्मस्वरूपस्य स्वानंदरसपायिनः ॥ 527॥

गच्छंस्तिष्ठन्नुपविशंछयानो वाऽन्यथापि वा ।
यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ 528॥

न देशकालासनदिग्यमादि-
लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः । (पाठभेदः – प्रतिबद्ध
संसिद्धतत्त्वस्य महात्मनोऽस्ति)
स्ववेदने का नियमाद्यवस्था ॥ 529॥

घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते । (पाठभेदः – अपेक्ष्यते)
विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ॥ 530॥

अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ।
न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ 531॥

देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ।
तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ 532॥

भानुनेव जगत्सर्वं भासते यस्य तेजसा ।
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥ 533॥

वेदशास्त्रपुराणानि भूतानि सकलान्यपि ।
येनार्थवंति तं किन्नु विज्ञातारं प्रकाशयेत् ॥ 534॥

एष स्वयंज्योतिरनंतशक्तिः
आत्माऽप्रमेयः सकलानुभूतिः ।
यमेव विज्ञाय विमुक्तबंधो
जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ 535॥

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नंदति स्वयं
निरंतरानंदरसेन तृप्तः ॥ 536॥

क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः । (पाठभेदः – वस्तुनि)
तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ 537॥

चिंताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु
स्वातंत्र्येण निरंकुशा स्थितिरभीर्निद्रा श्मशाने वने ।
वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही
संचारो निगमांतवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ 538॥

विमानमालंब्य शरीरमेतद्
भुनक्त्यशेषान्विषयानुपस्थितान् ।
परेच्छया बालवदात्मवेत्ता
योऽव्यक्तलिंगोऽननुषक्तबाह्यः ॥ 539॥

दिगंबरो वापि च सांबरो वा
त्वगंबरो वापि चिदंबरस्थः ।
उन्मत्तवद्वापि च बालवद्वा
पिशाचवद्वापि चरत्यवन्याम् ॥ 540॥

कामान्निष्कामरूपी संश्चरत्येकचरो मुनिः । (पाठभेदः – कामान्नी कामरूपी)
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ 541॥

क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः
क्वचिद्भ्रांतः सौम्यः क्वचिदजगराचारकलितः ।
क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः
चरत्येवं प्राज्ञः सततपरमानंदसुखितः ॥ 542॥

निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ।
नित्यतृप्तोऽप्यभुंजानोऽप्यसमः समदर्शनः ॥ 543॥

अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि ।
शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ 544॥

अशरीरं सदा संतमिमं ब्रह्मविदं क्वचित् ।
प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ 545॥

स्थूलादिसंबंधवतोऽभिमानिनः
सुखं च दुःखं च शुभाशुभे च ।
विध्वस्तबंधस्य सदात्मनो मुनेः
कुतः शुभं वाऽप्यशुभं फलं वा ॥ 546॥

तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ।
ग्रस्त इत्युच्यते भ्रांत्यां ह्यज्ञात्वा वस्तुलक्षणम् ॥ 547॥ (पाठभेदः – भ्रांत्या)
तद्वद्देहादिबंधेभ्यो विमुक्तं ब्रह्मवित्तमम् ।
पश्यंति देहिवन्मूढाः शरीराभासदर्शनात् ॥ 548॥

अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति । (पाठभेदः – अहिनि)
इतस्ततश्चाल्यमानो यत्किंचित्प्राणवायुना ॥ 549॥

स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् ।
दैवेन नीयते देहो यथाकालोपभुक्तिषु ॥ 550॥

प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः ।
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ 551॥

नैवेंद्रियाणि विषयेषु नियुंक्त एष
नैवापयुंक्त उपदर्शनलक्षणस्थः ।
नैव क्रियाफलमपीषदवेक्षते स (पाठभेदः – अपीषदपेक्षते सः)
स्वानंदसांद्ररसपानसुमत्तचित्तः ॥ 552॥

लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ 553॥

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् ॥ 554॥

शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ।
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ 555॥

यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् । (पाठभेदः – विशीर्णं पर्णमिव)
ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् ॥ 556॥

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
पूर्णाऽद्वयानंदमयात्मना सदा ।
न देशकालाद्युचितप्रतीक्षा
त्वङ्मांसविट्पिंडविसर्जनाय ॥ 557॥

देहस्य मोक्षो नो मोक्षो न दंडस्य कमंडलोः ।
अविद्याहृदयग्रंथिमोक्षो मोक्षो यतस्ततः ॥ 558॥

कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे ।
पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ 559॥

पत्रस्य पुष्पस्य फलस्य नाशवद्-
देहेंद्रियप्राणधियां विनाशः ।
नैवात्मनः स्वस्य सदात्मकस्या-
नंदाकृतेर्वृक्षवदस्ति चैषः ॥ 560॥ (पाठभेदः – वदास्त एषः)

प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् ।
अनूद्यौपाधिकस्यैव कथयंति विनाशनम् ॥ 561॥

अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः ।
प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ 562॥

पाषाणवृक्षतृणधान्यकडंकराद्या (पाठभेदः – कटांबराद्या)
दग्धा भवंति हि मृदेव यथा तथैव ।
देहेंद्रियासुमन आदि समस्तदृश्यं
ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ 563॥

विलक्षणं यथा ध्वांतं लीयते भानुतेजसि ।
तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ 564॥

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् ।
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥ 565॥

क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ।
संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ॥ 566॥

एवं विदेहकैवल्यं सन्मात्रत्वमखंडितम् ।
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥ 567॥

सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः ।
अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ॥ 568॥

मायाक्लृप्तौ बंधमोक्षौ न स्तः स्वात्मनि वस्तुतः ।
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ 569॥

आवृतेः सदसत्त्वाभ्यां वक्तव्ये बंधमोक्षणे ।
नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् ।
यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः ॥ 570॥

बंधंच मोक्षंच मृषैव मूढा
बुद्धेर्गुणं वस्तुनि कल्पयंति ।
दृगावृतिं मेघकृतां यथा रवौ
यतोऽद्वयाऽसंगचिदेतदक्षरम् ॥ 571॥ (पाठभेदः – चिदेकमक्षरम्)

अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ 572॥

अतस्तौ मायया क्लृप्तौ बंधमोक्षौ न चात्मनि ।
निष्कले निष्क्रिये शांते निरवद्ये निरंजने ।
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ 573॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ 574॥

सकलनिगमचूडास्वांतसिद्धांतरूपं
परमिदमतिगुह्यं दर्शितं ते मयाद्य ।
अपगतकलिदोषं कामनिर्मुक्तबुद्धिं (पाठभेदः – बुद्धिः)
स्वसुतवदसकृत्त्वां भावयित्वा मुमुक्षुम् ॥ 575॥

इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।
स तेन समनुज्ञातो ययौ निर्मुक्तबंधनः ॥ 576॥

गुरुरेव सदानंदसिंधौ निर्मग्नमानसः । (पाठभेदः – गुरुरेष)
पावयन्वसुधां सर्वां विचचार निरंतरः ॥ 577॥

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ 578॥

हितमिदमुपदेशमाद्रियंतां
विहितनिरस्तसमस्तचित्तदोषाः ।
भवसुखविरताः प्रशांतचित्ताः (पाठभेदः – सुखविमुखाः)
श्रुतिरसिका यतयो मुमुक्षवो ये ॥ 579॥

संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-
खिन्नानां जलकांक्षया मरुभुवि भ्रांत्या परिभ्राम्यताम् ।
अत्यासन्नसुधांबुधिं सुखकरं ब्रह्माद्वयं दर्शय-
त्येषा शंकरभारती विजयते निर्वाणसंदायिनी ॥ 580॥

॥ इति शंकराचार्यविरचितं विवेकचूडामणिः ॥

॥ ॐ तत्सत् ॥

वारंवार विचारले जाणारे प्रश्न

What is विवेक चूडामणि?

विवेक चूडामणि is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read विवेक चूडामणि online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download विवेक चूडामणि as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook