विदुर नीति – उद्योग पर्वम्, अध्यायः 35


॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरहितवाक्ये पंचत्रिंशोऽध्यायः ॥

धृतराष्ट्र उवाच ।

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ 1॥

विदुर उवाच ।

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् ।
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ 2॥

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 3॥

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते ।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ 4॥

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ 5॥

केशिन्युवाच ।

किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन ।
अथ केन स्म पर्यंकं सुधन्वा नाधिरोहति ॥ 6॥

विरोचन उवाच ।

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः ।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ 7॥

केशिन्युवाच ।

इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन ।
सुधन्वा प्रातरागंता पश्येयं वां समागतौ ॥ 8॥

विरोचन उवाच ।

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ ॥ 9॥

विदुर उवाच ।

अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् ।
एकत्वमुपसंपन्नो न त्वासेयं त्वया सह ॥ 10॥

विरोचन उवाच ।

अन्वाहरंतु फलकं कूर्चं वाप्यथ वा बृसीम् ।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ 11॥

सुधन्वोवाच ।
पितापि ते समासीनमुपासीतैव मामधः ।
बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे ॥ 12॥

विरोचन उवाच ।

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ 13॥

सुधन्वोवाच ।
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ 14॥

विरोचन उवाच ।
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् ॥ 15॥

सुधन्वोवाच ।
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ 16॥

प्रह्लाद उवाच ।

इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह ।
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ 17॥

किं वै सहैव चरतो न पुरा चरतः सह ।
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ 18॥

विरोचन उवाच ।

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।
प्रह्राद तत्त्वामृप्च्छामि मा प्रश्नमनृतं वदीः ॥ 19॥

प्रह्लाद उवाच ।

उदकं मधुपर्कं चाप्यानयंतु सुधन्वने ।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ 20॥

सुधन्वोवाच ।
उदकं मधुपर्कं च पथ एवार्पितं मम ।
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥ 21॥

प्रह्लाद उवाच ।

पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् ॥ 22॥

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् ।
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥ 23॥

सुधन्वोवाच ।
यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः ।
यां च भाराभितप्तांगो दुर्विवक्ता स्म तां वसेत् ॥ 24॥

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयसः पश्यंदुर्विवक्ता स्म तां वसेत् ॥ 25॥

पंच पश्वनृते हंति दश हंति गवानृते ।
शतमश्वानृते हंति सहस्रं पुरुषानृते ॥ 26॥

हंति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् ।
सर्वं भूम्यनृते हंति मा स्म भूम्यनृतं वदीः ॥ 27॥

प्रह्लाद उवाच ।

मत्तः श्रेयानंगिरा वै सुधन्वा त्वद्विरोचन ।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ 28॥

विरोचन सुधन्वायं प्राणानामीश्वरस्तव ।
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ 29॥

सुधन्वोवाच ।
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ 30॥

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः ।
पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥ 31॥

विदुर उवाच ।

तस्माद्राजेंद्र भूम्यर्थे नानृतं वक्तुमर्हसि ।
मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ 32॥

न देवा यष्टिमादाय रक्षंति पशुपालवत् ।
यं तु रक्षितुमिच्छंति बुद्ध्या संविभजंति तम् ॥ 33॥

यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।
तथा तथास्य सर्वार्थाः सिध्यंते नात्र संशयः ॥ 34॥

न छंदांसि वृजिनात्तारयंति
आयाविनं मायया वर्तमानम् ।
नीडं शकुंता इव जातपक्षाश्
छंदांस्येनं प्रजहत्यंतकाले ॥ 35॥

मत्तापानं कलहं पूगवैरं
भार्यापत्योरंतरं ज्ञातिभेदम् ।
राजद्विष्टं स्त्रीपुमांसोर्विवादं
वर्ज्यान्याहुर्यश्च पंथाः प्रदुष्ठः ॥ 36॥

सामुद्रिकं वणिजं चोरपूर्वं
शलाक धूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च
नैतान्साख्येष्वधिकुर्वीत सप्त ॥ 37॥

मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयंकराणि
भयं प्रयच्छंत्ययथा कृतानि ॥ 38॥

अगार दाही गरदः कुंडाशी सोमविक्रयी ।
पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः ॥ 39॥

भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च काकश्च नास्तिको वेद निंदकः ॥ 40॥

स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः ॥ 41॥

तृणोक्लया ज्ञायते जातरूपं
युगे भद्रो व्यवहारेण साधुः ।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः
कृच्छ्रास्वापत्सु सुहृदश्चारयश् च ॥ 42॥

जरा रूपं हरति हि धैर्यमाशा
मृत्युः प्राणांधर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्य सेवा
ह्रियं कामः सर्वमेवाभिमानः ॥ 43॥

श्रीर्मंगलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ 44॥

अष्टौ गुणाः पुरुषं दीपयंति
प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहु भाषिता च
दानं यथाशक्ति कृतज्ञता च ॥ 45॥

एतान्गुणांस्तात महानुभावान्
एको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं
सर्वान्गुणानेष गुणोऽतिभाति ॥ 46॥

अष्टौ नृपेमानि मनुष्यलोके
स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येषामन्ववेतानि सद्भिश्
चत्वार्येषामन्ववयंति संतः ॥ 47॥

यज्ञो दानमध्ययनं तपश् च
चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं
चत्वार्येतान्यन्ववयंति संतः ॥ 48॥

न सा सभा यत्र न संति वृद्धा
न ते वृद्धा ये न वदंति धर्मम् ।
नासौ हर्मो यतन सत्यमस्ति
न तत्सत्यं यच्छलेनानुविद्धम् ॥ 49॥

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः ॥ 50॥

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् ।
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ 51॥

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः ।
नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ 52॥

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ।
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ 53॥

असूयको दंद शूको निष्ठुरो वैरकृन्नरः ।
स कृच्छ्रं महदाप्नोतो नचिरात्पापमाचरन् ॥ 54॥

अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा ।
अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ 55॥

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पंडितः ।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ 56॥

दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् ।
अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ 57॥

पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् ।
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ 58॥

जीर्णमन्नं प्रशंसंति भार्यं च गतयौवनाम् ।
शूरं विगतसंग्रामं गतपारं तपस्विनम् ॥ 59॥

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ 60॥

गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ 61॥

ऋषीणां च नदीनां च कुलानां च महामनाम् ।
प्रभवो नाधिगंतव्यः स्त्रीणां दुश्चरितस्य च ॥ 62॥

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ 63॥

सुवर्णपुष्पां पृथिवीं चिन्वंति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ 64॥

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जंघा जघन्यानि भारप्रत्यवराणि च ॥ 65॥

दुर्योधने च शकुनौ मूढे दुःशासने तथा ।
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ 66॥

सर्वैर्गुणैरुपेताश्च पांडवा भरतर्षभ ।
पितृवत्त्वयि वर्तंते तेषु वर्तस्व पुत्रवत् ॥ 67॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरहितवाक्ये पंचत्रिंशोऽध्यायः ॥ 35॥

वारंवार विचारले जाणारे प्रश्न

What is विदुर नीति - उद्योग पर्वम्, अध्यायः 35?

विदुर नीति - उद्योग पर्वम्, अध्यायः 35 is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read विदुर नीति - उद्योग पर्वम्, अध्यायः 35 online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download विदुर नीति - उद्योग पर्वम्, अध्यायः 35 as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook