उद्धवगीता – तृतीयोऽध्यायः
अथ तृतीयोऽध्यायः ।
परस्य विष्णोः ईशस्य मायिनाम अपि मोहिनीम् ।
मायां वेदितुं इच्छामः भगवंतः ब्रुवंतु नः ॥ 1॥
न अनुतृप्ये जुषन् युष्मत् वचः हरिकथा अमृतम् ।
संसारतापनिःतप्तः मर्त्यः तत् ताप भेषजम् ॥ 2॥
अंतरिक्षः उवाच ।
एभिः भूतानि भूतात्मा महाभूतैः महाभुज ।
ससर्जोत् च अवचानि आद्यः स्वमात्रप्रसिद्धये ॥ 3॥
एवं सृष्टानि भूतानि प्रविष्टः पंचधातुभिः ।
एकधा दशधा आत्मानं विभजन् जुषते गुणान् ॥ 4॥
गुणैः गुणान् सः भुंजानः आत्मप्रद्योदितैः प्रभुः ।
मन्यमानः इदं सृष्टं आत्मानं इह सज्जते ॥ 5॥
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
तत् तत् कर्मफलं गृह्णन् भ्रमति इह सुखैतरम् ॥ 6॥
इत्थं कर्मगतीः गच्छन् बह्वभद्रवहाः पुमान् ।
आभूतसंप्लवात् सर्गप्रलयौ अश्नुते अवशः ॥ 7॥
धातु उपप्लवः आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
अनादिनिधनः कालः हि अव्यक्ताय अपकर्षति ॥ 8॥
शतवर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि ।
तत् काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति ॥9॥
पातालतलं आरभ्य संकर्षणमुख अनलः ।
दहन् ऊर्ध्वशिखः विष्वक् वर्धते वायुना ईरितः ॥ 10॥
सांवर्तकः मेघगणः वर्षति स्म शतं समाः ।
धाराभिः हस्तिहस्ताभिः लीयते सलिले विराट् ॥ 11॥
ततः विराजं उत्सृज्य वैराजः पुरुषः नृप ।
अव्यक्तं विशते सूक्ष्मं निरिंधनः इव अनलः ॥ 12॥
वायुना हृतगंधा भूः सलिलत्वाय कल्पते ।
सलिलं तत् धृतरसं ज्योतिष्ट्वाय उपकल्पते ॥ 13॥
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
हृतस्पर्शः अवकाशेन वायुः नभसि लीयते ।
कालात्मना हृतगुणं नवः आत्मनि लीयते ॥ 14॥
इंद्रियाणि मनः बुद्धिः सह वैकारिकैः नृप ।
प्रविशंति हि अहंकारं स्वगुणैः अहं आत्मनि ॥ 15॥
एषा माया भगवतः सर्गस्थिति अंतकारिणी ।
त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुं इच्छसि ॥ 16॥
राजा उवाच ।
यथा एतां ऐश्वरीं मायां दुस्तरां अकृतात्मभिः ।
तरंति अंजः स्थूलधियः महर्षः इदं उच्यताम् ॥ 17॥
प्रबुद्धः उवाच ।
कर्माणि आरभमाणानां दुःखहत्यै सुखाय च ।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ 18॥
नित्यार्तिदेन वित्तेन दुर्लभेन आत्ममृत्युना ।
गृह अपत्याप्तपशुभिः का प्रीतिः साधितैः चलैः ॥
19॥
एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् ।
सतुल्य अतिशय ध्वंसं यथा मंडलवर्तिनाम् ॥ 20॥
तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मणि उपशमाश्रयम् ॥ 21॥
तत्र भागवतान् धर्मान् शिक्षेत् गुरुआत्मदैवतः ।
अमायया अनुवृत्या यैः तुष्येत् आत्मा आत्मदः हरिः ॥ 22॥
सर्वतः मनसः असंगं आदौ संगं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेषु अद्धा यथा उचितम् ॥ 23॥
शौचं तपः तितिक्षां च मौनं स्वाध्यायं आर्जवम् ।
ब्रह्मचर्यं अहिंसां च समत्वं द्वंद्वसंज्ञयोः ॥ 24॥
सर्वत्र आत्मेश्वर अन्वीक्षां कैवल्यं अनिकेतताम् ।
विविक्तचीरवसनं संतोषं येन केनचित् ॥ 25॥
श्रद्धां भागवते शास्त्रे अनिंदां अन्यत्र च अपि हि ।
मनोवाक् कर्मदंडं च सत्यं शमदमौ अपि ॥ 26॥
श्रवणं कीर्तनं ध्यानं हरेः अद्भुतकर्मणः ।
जन्मकर्मगुणानां च तदर्थे अखिलचेष्टितम् ॥ 27॥
इष्टं दत्तं तपः जप्तं वृत्तं यत् च आत्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ 28॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां च उभयत्र महत्सु नृषु साधुषु ॥ 29॥
परस्पर अनुकथनं पावनं भगवत् यशः ।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ 30॥
स्मरंतः स्मारयंतः च मिथः अघौघहरं हरिम् ।
भक्त्या संजातया भक्त्या बिभ्रति उत्पुलकां तनुम् ॥ 31॥
क्वचित् रुदंति अच्युतचिंतया क्वचित्
हसंति नंदंति वदंति अलौकिकाः ।
नृत्यंति गायंति अनुशीलयंति
अजं भवंति तूष्णीं परं एत्य निर्वृताः ॥ 32॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।
नारायणपरः मायं अंजः तरति दुस्तराम् ॥ 33॥
राजा उवाच ।
नारायण अभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठां अर्हथ नः वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ 34॥
पिप्पलायनः उवाच ।
स्थिति उद्भवप्रलयहेतुः अहेतुः अस्य
यत् स्वप्नजागरसुषुप्तिषु सत् बहिः च ।
देह इंद्रियासुहृदयानि चरंति येन
संजीवितानि तत् अवेहि परं नरेंद्र ॥ 35॥
न एतत् मनः विशति वागुत चक्षुः आत्मा
प्राणेंद्रियाणि च यथा अनलं अर्चिषः स्वाः ।
शब्दः अपि बोधकनिषेधतया आत्ममूलम्
अर्थ उक्तं आह यदृते न निषेधसिद्धिः ॥ 36॥
सत्वं रजः तमः इति त्रिवृदेकं आदौ
सूत्रं महान् अहं इति प्रवदंति जीवम् ।
ज्ञानक्रिया अर्थफलरूपतयोः उशक्ति
ब्रह्म एव भाति सत् असत् च तयोः परं यत् ॥ 37॥
न आत्मा जजान न मरिष्यति न एधते असौ
न क्षीयते सवनवित् व्यभिचारिणां हि ।
सर्वत्र शस्वदनपायि उपलब्धिमात्रं
प्राणः यथा इंद्रियवलेन विकल्पितं सत् ॥ 38॥
अंडेषु पेशिषु तरुषु अविनिश्चितेषु
प्राणः हि जीवं उपधावति तत्र तत्र ।
सन्ने यत् इंद्रियगणे अहमि च प्रसुप्ते
कूटस्थः आशयमृते तत् अनुस्मृतिः नः ॥ 39॥
यः हि अब्ज नाभ चरण एषणयोः उभक्त्या
चेतोमलानि विधमेत् गुणकर्मजानि ।
तस्मिन् विशुद्धः उपलभ्यतः आत्मतत्त्वम्
साक्षात् यथा अमलदृशः सवितृप्रकाशः ॥ 40॥
कर्मयोगं वदत नः पुरुषः येन संस्कृतः ।
विधूय इह आशु कर्माणि नैष्कर्म्यं विंदते परम् ॥ 41॥
एवं प्रश्नं ऋषिन् पूर्वं अपृच्छं पितुः अंतिके ।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणं उच्यताम् ॥ 42॥
आविर्होत्रः उवाच ।
कर्म अकर्मविकर्म इति वेदवादः न लौकिकः ।
वेदस्य च ईश्वरात्मत्वात् तत्र मुह्यंति सूरयः ॥ 43॥
परोक्षवादः वेदः अयं बालानां अनुशासनम् ।
कर्ममोक्षाय कर्माणि विधत्ते हि अगदं यथा ॥ 44॥
न आचरेत् यः तु वेद उक्तं स्वयं अज्ञः अजितेंद्रियः ।
विकर्मणा हि अधर्मेण मृत्योः मृत्युं उपैति सः ॥ 45॥
वेद उक्तं एव कुर्वाणः निःसंगः अर्पितं ईश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ 46॥
यः आशु हृदयग्रंथिं निर्जिहीषुः परात्मनः ।
विधिना उपचरेत् देवं तंत्र उक्तेन च केशवम् ॥ 47॥
लब्ध अनुग्रहः आचार्यात् तेन संदर्शितागमः ।
महापुरुषं अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ 48॥
शुचिः संमुखं आसीनः प्राणसंयमनादिभिः ।
पिंडं विशोध्य संन्यासकृतरक्षः अर्चयेत् हरिम् ॥ 49॥
अर्चादौ हृदये च अपि यथालब्ध उपचारकैः ।
द्रव्यक्षितिआत्मलिंगानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ 50॥
पाद्यादीन् उपकल्प्या अथ संनिधाप्य समाहितः ।
हृत् आदिभिः कृतन्यासः मूलमंत्रेण च अर्चयेत् ॥ 51॥
सांगोपांगां सपार्षदां तां तां मूर्तिं स्वमंत्रतः ।
पाद्य अर्घ्याचमनीयाद्यैः स्नानवासःविभूषणैः ॥ 52॥
गंधमाल्याक्षतस्रग्भिः धूपदीपहारकैः ।
सांगं संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ 53॥
आत्मां तन्मयं ध्यायन् मूर्तिं संपूजयेत् हरेः ।
शेषां आधाय शिरसि स्वधाम्नि उद्वास्य सत्कृतम् ॥ 54॥
एवं अग्नि अर्कतोयादौ अतिथौ हृदये च यः ।
यजति ईश्वरं आत्मानं अचिरात् मुच्यते हि सः ॥ 55॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे निमिजायंतसंवादे
मायाकर्मब्रह्मनिरूपणं तृतीयोऽध्यायः ॥
वारंवार विचारले जाणारे प्रश्न
What is उद्धवगीता - तृतीयोऽध्यायः?
उद्धवगीता - तृतीयोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read उद्धवगीता - तृतीयोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download उद्धवगीता - तृतीयोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.