उद्धवगीता – द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः ।
श्रीशुकः उवाच ।
गोविंदभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः ॥ 1॥
को नु राजन् इंद्रियवान् मुकुंदचरणांबुजम् ।
न भजेत् सर्वतः मृत्युः उपास्यं अमरौत्तमैः ॥ 2॥
तं एकदा देवर्षिं वसुदेवः गृह आगतम् ।
अर्चितं सुखं आसीनं अभिवाद्य इदं अब्रवीत् ॥ 3॥
वसुदेवः उवाच ।
भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ 4॥
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखाय एव हि साधूनां त्वादृशां अच्युत आत्मनाम् ॥ 5॥
भजंति ये यथा देवान् देवाः अपि तथा एव तान् ।
छाया इव कर्मसचिवाः साधवः दीनवत्सलाः ॥ 6॥
ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात् ॥ 7॥
अहं किल पुरा अनंतं प्रजार्थः भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितः देवमायया ॥ 8॥
यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात् ।
मुच्येम हि अंजसा एव अद्धा तथा नः शाधि सुव्रत ॥ 9॥
श्रीशुकः उवाच ।
राजन् एवं कृतप्रश्नः वसुदेवेन धीमता ।
प्रीतः तं आह देवर्षिः हरेः संस्मारितः गुणैः ॥ 10॥
नारदः उवाच ।
सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥
11॥
श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः ।
सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि ॥ 12॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितः भगवान् अद्य देवः नारायणः मम ॥ 13॥
अत्र अपि उदाहरंति इमं इतिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ 14॥
प्रियव्रतः नाम सुतः मनोः स्वायंभुवस्य यः ।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः ॥ 15॥
तं आहुः वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम् ॥ 16॥
तेषां वै भरतः ज्येष्ठः नारायणपरायणः ।
विख्यातं वर्षं एतत् यत् नाम्ना भारतं अद्भुतम् ॥ 17॥
सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम् ।
उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः ॥ 18॥
तेषां नव नवद्वीपपतयः अस्य समंततः ।
कर्मतंत्रप्रणेतारः एकाशीतिः द्विजातयः ॥ 19॥
नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः ।
श्रमणाः वातः अशनाः आत्मविद्याविशारदाः ॥ 20॥
कविः हरिः अंतरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ 21॥
एते वै भगवद्रूपं विश्वं सदसद् आत्मकम् ।
आत्मनः अव्यतिरेकेण पश्यंतः व्यचरत् महीम् ॥ 22॥
अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य
गंधर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताः चरंति मुनिचारणभूतनाथ
विद्याधरद्विजगवां भुवनानि कामम् ॥ 23॥
तः एकदा निमेः सत्रं उपजग्मुः यत् ऋच्छया ।
वितायमानं ऋषिभिः अजनाभे महात्मनः ॥ 24॥
तान् दृष्ट्वा सूर्यसंकाशान् महाभगवतान् नृपः ।
यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे ॥ 25॥
विदेहः तान् अभिप्रेत्य नारायणपरायणान् ।
प्रीतः संपूजयान् चक्रे आसनस्थान् यथा अर्हतः ॥ 26॥
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव ।
पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः ॥ 27॥
विदेहः उवाच ।
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः ।
विष्णोः भूतानि लोकानां पावनाय चरंति हि ॥ 28॥
दुर्लभः मानुषः देहः देहिनां क्षणभंगुरः ।
तत्र अपि दुर्लभं मन्ये वैकुंठप्रियदर्शनम् ॥ 29॥
अतः आत्यंतिकं कहेमं पृच्छामः भवतः अनघाः ।
संसारे अस्मिन् क्षणार्धः अपि सत्संगः शेवधिः नृणाम् ॥
30॥
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानं अपि अजः ॥ 31॥
श्रीनारदः उवाच ।
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम् ॥ 32॥
कविः उवाच ।
मन्ये अकुतश्चित् भयं अच्युतस्य
पादांबुजौपासनं अत्र नित्यम् ।
उद्विग्नबुद्धेः असत् आत्मभावात्
विश्वात्मना यत्र निवर्तते भीः ॥ 33॥
ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये ।
अंजः पुंसां अविदुषां विद्धि भागवतान् हि तान् ॥ 34॥
यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह ॥ 35॥
कायेन वाचा मनसा इंद्रियैः वा
बुद्ध्या आत्मना वा अनुसृतस्वभावात् ।
करोति यत् यत् सकलं परस्मै
नारायणाय इति समर्पयेत् तत् ॥ 36॥
भयं द्वितीयाभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययः अस्मृतिः ।
तत् मायया अतः बुधः आभजेत् तं
भक्त्या एक ईशं गुरुदेवतात्मा ॥ 37।
अविद्यमानः अपि अवभाति हि द्वयोः
ध्यातुः धिया स्वप्नमनोरथौ यथा ।
तत् कर्मसंकल्पविकल्पकं मनः
बुधः निरुंध्यात् अभयं ततः स्यात् ॥ 38॥
श्रुण्वन् सुभद्राणि रथांगपाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तत् अर्थकानि
गायन् विलज्जः विचरेत् असंगः ॥ 39॥
एवं व्रतः स्वप्रियनामकीर्त्या
जातानुरागः द्रुतचित्तः उच्चैः ।
हसति अथः रोदिति रौति गायति
उन्मादवत् नृत्यति लोकबाह्यः ॥ 40॥
खं वायुं अग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशः द्रुमादीन् ।
सरित् समुद्रान् च हरेः शरीरं
यत्किंच भूतं प्रणमेत् अनन्यः ॥ 41॥
भक्तिः परेश अनुभवः विरक्तिः
अन्यत्र एष त्रिकः एककालः ।
प्रपद्यमानस्य यथा अश्नतः स्युः
तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम् ॥ 42॥
इति अच्युत अंघ्रिं भजतः अनुवृत्त्या
भक्तिः विरक्तिः भगवत् प्रबोधः ।
भवंति वै भागवतस्य राजन्
ततः परां शांतिं उपैति साक्षात् ॥ 43॥
राजा उवाच ।
अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम् ।
यथा चरति यत् ब्रूते यैः लिंगैः भगवत् प्रियः ॥ 44॥
हरिः उवाच ।
सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः ।
भूतानि भागवति आत्मनि एष भागवतौत्तमः ॥ 45॥
ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः ॥ 46॥
अर्चायां एव हरये पूजां यः श्रद्धया ईहते ।
न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥
47॥
गृहीत्वा अपि इंद्रियैः अर्थान्यः न द्वेष्टि न हृष्यति ।
विष्णोः मायां इदं पश्यन् सः वै भागवत उत्तमः ॥ 48॥
देहैंद्रियप्राणमनःधियां यः
जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः ।
संसारधर्मैः अविमुह्यमानः
स्मृत्या हरेः भागवतप्रधानः ॥ 49॥
न कामकर्मबीजानां यस्य चेतसि संभवः ।
वासुदेवेकनिलयः सः वै भागवत उत्तमः ॥ 50॥
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जते अस्मिन् अहंभावः देहे वै सः हरेः प्रियः ॥ 51॥
न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा ।
सर्वभूतसमः शांतः सः वौ भागवत उत्तमः ॥ 52॥
त्रिभुवनविभवहेतवे अपि अकुंठस्मृतिः
अजितात्मसुरादिभिः विमृग्यात् ।
न चलति भगवत् पद अरविंदात्
लवनिमिष अर्धं अपि यः सः वैष्णव अग्र्यः ॥ 53॥
भगवतः उरुविक्रम अंघ्रिशाखा
नखमणिचंद्रिकया निरस्ततापे ।
हृदि कथं उपसीदतां पुनः सः
प्रभवति चंद्रः इव उदिते अर्कतापः ॥ 54॥
विसृजति हृदयं न यस्य साक्षात्
हरिः अवश अभिहितः अपि अघौघनाशः ।
प्रणयः अशनया धृत अंघ्रिपद्मः
सः भवति भागवतप्रधानः उक्तः ॥ 55॥
इति श्रीमत् भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कंधे निमिजायंतसंवादे द्वितीयः
अध्यायः ॥
वारंवार विचारले जाणारे प्रश्न
What is उद्धवगीता - द्वितीयोऽध्यायः?
उद्धवगीता - द्वितीयोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read उद्धवगीता - द्वितीयोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download उद्धवगीता - द्वितीयोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.