श्री शीतला देवी अष्टकम् (शीतलाष्टकम्)


अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः अनुष्टुप् छंदः शीतला देवता लक्ष्मीर्बीजं भवानी शक्तिः सर्वविस्फोटकनिवृत्यर्थे जपे विनियोगः ॥

ईश्वर उवाच ।
वंदेऽहं शीतलां देवीं रासभस्थां दिगंबराम् ।
मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥ 1 ॥

वंदेऽहं शीतलां देवीं सर्वरोगभयापहाम् ।
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ 2 ॥

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ 3 ॥

यस्त्वामुदकमध्ये तु ध्यात्वा संपूजयेन्नरः ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ 4 ॥

शीतले ज्वरदग्धस्य पूतिगंधयुतस्य च ।
प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ 5 ॥

शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् ।
विस्फोटकविदीर्णानां त्वमेकाऽमृतवर्षिणी ॥ 6 ॥

गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् ।
त्वदनुध्यानमात्रेण शीतले यांति संक्षयम् ॥ 7 ॥

न मंत्रो नौषधं तस्य पापरोगस्य विद्यते ।
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ 8 ॥

मृणालतंतुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।
यस्त्वां संचिंतयेद्देवि तस्य मृत्युर्न जायते ॥ 9 ॥

अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ 10 ॥

श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः ।
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ 11 ॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ 12 ॥

रासभो गर्दभश्चैव खरो वैशाखनंदनः ।
शीतलावाहनश्चैव दूर्वाकंदनिकृंतनः ॥ 13 ॥

एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।
तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ 14 ॥

शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् ।
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ 15 ॥

इति श्रीस्कांदपुराणे शीतलाष्टकम् ॥

वारंवार विचारले जाणारे प्रश्न

What is श्री शीतला देवी अष्टकम् (शीतलाष्टकम्)?

श्री शीतला देवी अष्टकम् (शीतलाष्टकम्) is a Devi Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read श्री शीतला देवी अष्टकम् (शीतलाष्टकम्) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री शीतला देवी अष्टकम् (शीतलाष्टकम्) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook