श्री सत्यनारायण स्वामि व्रत कथा
॥ श्री गणेशाय नमः ॥
॥ श्रीपरमात्मने नमः ॥
अथ कथा प्रारंभः ।
अथ प्रथमोऽध्यायः
श्रीव्यास उवाच ।
एकदा नैमिषारण्ये ऋषयः शौनकादयः ।
पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥ 1॥
ऋषय ऊचुः ।
व्रतेन तपसा किं-वाँ प्राप्यते वांछितं फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ 2॥
सूत उवाच ।
नारदेनैव संपृष्टो भगवान् कमलापतिः ।
सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥ 3॥
एकदा नारदो योगी परानुग्रहकांक्षया ।
पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥ 4॥
ततोदृष्ट्वा जनान्सर्वान् नानाक्लेशसमन्वितान् ।
नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ 5॥
केनोपायेन चैतेषां दुःखनाशो भवेद् ध्रुवम् ।
इति संचिंत्य मनसा विष्णुलोकं गतस्तदा ॥ 6॥
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् ।
शंख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ 7॥
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।
नारद उवाच ।
नमो वांगमनसातीतरूपायानंतशक्तये ।
आदिमध्यांतहीनाय निर्गुणाय गुणात्मने ॥ 8॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ 9॥
श्रीभगवानुवाच ।
किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते ।
कथयस्व महाभाग तत्सर्वं कथायामि ते ॥ 10॥
नारद उवाच ।
मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः ।
ननायोनिसमुत्पन्नाः पच्यंते पापकर्मभिः ॥ 11॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद ।
श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥ 12॥
श्रीभगवानुवाच ।
साधु पृष्टं त्वया वत्स लोकानुग्रहकांक्षया ।
यत्कृत्वा मुच्यते मोहत् तच्छृणुष्व वदामि ते ॥ 13॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥ 14॥
सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । (सत्यनारायणस्यैवं)
कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् ।
तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ 15॥
नारद उवाच ।
किं फलं किं-विँधानं च कृतं केनैव तद् व्रतम् ।
तत्सर्वं-विँस्तराद् ब्रूहि कदा कार्यं-व्रँतं प्रभो ॥ 16॥ (कार्यंहितद्व्रतम्)
श्रीभगवानुवाच ।
दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥ 17॥
सौभाग्यसंततिकरं सर्वत्र विजयप्रदम् ।
यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ 18॥
सत्यनारायणं देवं-यँजेच्चैव निशामुखे ।
ब्राह्मणैर्बांधवैश्चैव सहितो धर्मतत्परः ॥ 19॥
नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् ।
रंभाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥ 20॥
अभावे शालिचूर्णं-वाँ शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ 21॥
विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह ।
ततश्च बंधुभिः सार्धं-विँप्रांश्च प्रतिभोजयेत् ॥ 22॥
प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् ।
ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन्न् ॥ 23॥
एवं कृते मनुष्याणां-वांँछासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायोऽस्ति भूतले ॥ 24॥ (लघूपायोस्ति)
॥ इति श्रीस्कांदपुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां प्रथमोऽध्यायः ॥ 1 ॥
अथ द्वितीयोऽध्यायः
सूत उवाच ।
अथान्यत् संप्रवक्ष्यामि कृतं-येँन पुरा द्विजाः ।
कश्चित् काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धनः ॥ 1॥ (ह्यासीद्विप्रोतिनिर्धनः)
क्षुत्तृड्भ्यां-व्याँकुलोभूत्वा नित्यं बभ्राम भूतले ।
दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः ॥ 2॥
वृद्धब्राह्मण रूपस्तं पप्रच्छ द्विजमादरात् ।
किमर्थं भ्रमसे विप्र महीं नित्यं सुदुःखितः ।
तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विज सत्तम ॥ 3॥
ब्राह्मण उवाच ।
ब्राह्मणोऽति दरिद्रोऽहं भिक्षार्थं-वैँ भ्रमे महीम् ॥ 4॥ (ब्राह्मणोति)
उपायं-यँदि जानासि कृपया कथय प्रभो ।
वृद्धब्राह्मण उवाच ।
सत्यनारायणो विष्णुर्वांछितार्थफलप्रदः ॥ 5॥
तस्य त्वं पूजनं-विँप्र कुरुष्व व्रतमुत्तमम । (व्रतमुत्तमम्)
यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 6॥
विधानं च व्रतस्यापि विप्रायाभाष्य यत्नतः ।
सत्यनारायणो वृद्धस्तत्रैवांतरधीयत ॥ 7॥
तद् व्रतं संकरिष्यामि यदुक्तं ब्राह्मणेन वै ।
इति संचिंत्य विप्रोऽसौ रात्रौ निद्रा न लब्धवान् ॥ 8॥ (निद्रां)
ततः प्रातः समुत्थाय सत्यनारायणव्रतम् ।
करिष्य इति संकल्प्य भिक्षार्थमगमद्विजः ॥ 9॥ (भिक्षार्थमगमद्द्विजः)
तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान् ।
तेनैव बंधुभिः सार्धं सत्यस्यव्रतमाचरत् ॥ 10॥
सर्वदुःखविनिर्मुक्तः सर्वसंपत्समन्वितः ।
बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ 11॥
ततः प्रभृति कालं च मासि मासि व्रतं कृतम् ।
एवं नारायणस्येदं-व्रँतं कृत्वा द्विजोत्तमः ॥ 12॥
सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् ।
व्रतमस्य यदा विप्र पृथिव्यां संकरिष्यति ॥ 13॥ (विप्राः)
तदैव सर्वदुःखं तु मनुजस्य विनश्यति । (च मनुजस्य)
एवं नारायणेनोक्तं नारदाय महात्मने ॥ 14॥
मया तत्कथितं-विँप्राः किमन्यत् कथयामि वः ।
ऋषय ऊचुः ।
तस्माद् विप्राच्छ्रुतं केन पृथिव्यां चरितं मुने ।
तत्सर्वं श्रोतुमिच्छामः श्रद्धाऽस्माकं प्रजायते ॥ 15॥ (श्रद्धास्माकं)
सूत उवाच ।
शृणुध्वं मुनयः सर्वे व्रतं-येँन कृतं भुवि ।
एकदा स द्विजवरो यथाविभव विस्तरैः ॥ 16॥
बंधुभिः स्वजनैः सार्धं-व्रँतं कर्तुं समुद्यतः ।
एतस्मिन्नंतरे काले काष्ठक्रेता समागमत् ॥ 17॥
बहिः काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ ।
तृष्णाया पीडितात्मा च दृष्ट्वा विप्रं कृतं-व्रँतम् ॥ 18॥ (कृत)
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया ।
कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो ॥ 19॥ (विस्ताराद्)
विप्र उवाच ।
सत्यनारायणेस्येदं-व्रँतं सर्वेप्सितप्रदम् ।
तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥ 20॥
तस्मादेतद् व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षितः ।
पपौ जलं प्रसादं च भुक्त्वा स नगरं-यँयौ ॥ 21॥
सत्यनारायणं देवं मनसा इत्यचिंतयत् ।
काष्ठं-विँक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ 22॥ (प्राप्यतेमेऽद्य)
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ।
इति संचिंत्य मनसा काष्ठं धृत्वा तु मस्तके ॥ 23॥
जगाम नगरे रम्ये धनिनां-यँत्र संस्थितिः ।
तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥ 24॥
ततः प्रसन्नहृदयः सुपक्वं कदली फलम् ।
शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम् ॥ 25॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं-यँयौ ।
ततो बंधून् समाहूय चकार विधिना व्रतम् ॥ 26॥
तद् व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् । (धनपुत्रान्वितोभवत्)
इहलोके सुखं भुक्त्वा चांते सत्यपुरं-यँयौ ॥ 27॥
॥ इति श्रीस्कांदपुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां द्वितीयोऽध्यायः ॥ 2 ॥
अथ तृतीयोऽध्यायः
सूत उवाच ।
पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनि सत्तमाः ।
पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ 1॥
जितेंद्रियः सत्यवादी ययौ देवालयं प्रति ।
दिने दिने धनं दत्त्वा द्विजान् संतोषयत् सुधीः ॥ 2॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती ।
भद्रशीलानदी तीरे सत्यस्यव्रतमाचरत् ॥ 3॥
एतस्मिन्नंतरे तत्र साधुरेकः समागतः ।
वाणिज्यार्थं बहुधनैरनेकैः परिपूरितः ॥ 4॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति ।
दृष्ट्वा स व्रतिनं भूपं प्रपच्छ विनयान्वितः ॥ 5॥
साधुरुवाच ।
किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा ।
प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि सांप्रतम् ॥ 6॥
राजोवाच ।
पूजनं क्रियते साधो विष्णोरतुलतेजसः ।
व्रतं च स्वजनैः सार्धं पुत्राद्यावाप्ति काम्यया ॥ 7॥
भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् ।
सर्वं कथय मे राजन् करिष्येऽहं तवोदितम् ॥ 8॥
ममापि संततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् ।
ततो निवृत्त्य वाणिज्यात् सानंदो गृहमागतः ॥ 9॥
भार्यायै कथितं सर्वं-व्रँतं संतति दायकम् ।
तदा व्रतं करिष्यामि यदा मे संततिर्भवेत् ॥ 10॥
इति लीलावतीं प्राह पत्नीं साधुः स सत्तमः ।
एकस्मिन् दिवसे तस्य भार्या लीलावती सती ॥ 11॥ (भार्यां)
भर्तृयुक्तानंदचित्ताऽभवद् धर्मपरायणा ।
र्गभिणी साऽभवत् तस्य भार्या सत्यप्रसादतः ॥ 12॥ (साभवत्)
दशमे मासि वै तस्याः कन्यारत्नमजायत ।
दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ 13॥
नाम्ना कलावती चेति तन्नामकरणं कृतम् ।
ततो लीलावती प्राह स्वामिनं मधुरं-वँचः ॥ 14॥
न करोषि किमर्थं-वैँ पुरा संकल्पितं-व्रँतम् ।
साधुरुवाच ।
विवाह समये त्वस्याः करिष्यामि व्रतं प्रिये ॥ 15॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति ।
ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ 16॥
दृष्ट्वा कन्यां ततः साधुर्नगरे सखिभिः सह ।
मंत्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् ॥ 17॥
विवाहार्थं च कन्याया वरं श्रेष्ठं-विँचारय ।
तेनाज्ञप्तश्च दूतोऽसौ कांचनं नगरं-यँयौ ॥ 18॥
तस्मादेकं-वँणिक्पुत्रं समादायागतो हि सः ।
दृष्ट्वा तु सुंदरं बालं-वँणिक्पुत्रं गुणान्वितम् ॥ 19॥
ज्ञातिभिर्बंधुभिः सार्धं परितुष्टेन चेतसा ।
दत्तावान् साधुपुत्राय कन्यां-विँधिविधानतः ॥ 20॥ (साधुःपुत्राय)
ततोऽभाग्यवशात् तेन विस्मृतं-व्रँतमुत्तमम् । (ततोभाग्यवशात्)
विवाहसमये तस्यास्तेन रुष्टो भवत् प्रभुः ॥ 21॥ (रुष्टोऽभवत्)
ततः कालेन नियतो निजकर्म विशारदः ।
वाणिज्यार्थं ततः शीघ्रं जामातृ सहितो वणिक् ॥ 22॥
रत्नसारपुरे रम्ये गत्वा सिंधु समीपतः ।
वाणिज्यमकरोत् साधुर्जामात्रा श्रीमता सह ॥ 23॥
तौ गतौ नगरे रम्ये चंद्रकेतोर्नृपस्य च । (नगरेतस्य)
एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ 24॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ।
दारुणं कठिनं चास्य महद् दुःखं भविष्यति ॥ 25॥
एकस्मिंदिवसे राज्ञो धनमादाय तस्करः ।
तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ 26॥
तत्पश्चाद् धावकान् दूतान् दृष्टवा भीतेन चेतसा ।
धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ 27॥
ततो दूताःसमायाता यत्रास्ते सज्जनो वणिक् ।
दृष्ट्वा नृपधनं तत्र बद्ध्वाऽऽनीतौ वणिक्सुतौ ॥ 28॥ (बद्ध्वानीतौ)
हर्षेण धावमानाश्च प्रोचुर्नृपसमीपतः ।
तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ 29॥
राज्ञाऽऽज्ञप्तास्ततः शीघ्रं दृढं बद्ध्वा तु ता वुभौ ।
स्थापितौ द्वौ महादुर्गे कारागारेऽविचारतः ॥ 30॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वचः ।
अतस्तयोर्धनं राज्ञा गृहीतं चंद्रकेतुना ॥ 31॥
तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता ।
चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥ 32॥
आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । (क्षुत्पिपासाति)
अन्नचिंतापरा भूत्वा बभ्राम च गृहे गृहे ।
कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ 33॥
एकस्मिन् दिवसे याता क्षुधार्ता द्विजमंदिरम् । (दिवसे जाता)
गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च ॥ 34॥ (गत्वापश्यद्)
उपविश्य कथां श्रुत्वा वरं र्प्राथितवत्यपि ।
प्रसाद भक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥ 35॥
माता कलावतीं कन्यां कथयामास प्रेमतः ।
पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते ॥ 36॥
कन्या कलावती प्राह मातरं प्रति सत्वरम् ।
द्विजालये व्रतं मातर्दृष्टं-वांँछितसिद्धिदम् ॥ 37॥
तच्छ्रुत्वा कन्यका वाक्यं-व्रँतं कर्तुं समुद्यता ।
सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ 38॥
व्रतं चक्रे सैव साध्वी बंधुभिः स्वजनैः सह ।
भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ 39॥
अपराधं च मे भर्तुर्जामातुः क्षंतुमर्हसि ।
व्रतेनानेन तुष्टोऽसौ सत्यनारायणः पुनः ॥ 40॥ (तुष्टोसौ)
दर्शयामास स्वप्नं ही चंद्रकेतुं नृपोत्तमम् ।
बंदिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ 41॥
देयं धनं च तत्सर्वं गृहीतं-यँत् त्वयाऽधुना । (त्वयाधुना)
नो चेत् त्वां नाशयिष्यामि सराज्यधनपुत्रकम् ॥ 42॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः । (ध्यानगम्योभवत्)
ततः प्रभातसमये राजा च स्वजनैः सह ॥ 43॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति ।
बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ ॥ 44॥
इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ ।
समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ 45॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबंधनात् ।
ततो महाजनौ नत्वा चंद्रकेतुं नृपोत्तमम् ॥ 46॥
स्मरंतौ पूर्व वृत्तांतं नोचतुर्भयविह्वलौ ।
राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ 47॥
देवात् प्राप्तं महद्दुःखमिदानीं नास्ति वै भयम् ।
तदा निगडसंत्यागं क्षौरकर्माद्यकारयत् ॥ 48॥
वस्त्रालंकारकं दत्त्वा परितोष्य नृपश्च तौ ।
पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद् भृशम् ॥ 49॥ (वचसातोषयद्भृशम्)
पुरानीतं तु यद् द्रव्यं द्विगुणीकृत्य दत्तवान् ।
प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ 50॥ (प्रोवाचतौ)
राजानं प्रणिपत्याह गंतव्यं त्वत्प्रसादतः ।
इत्युक्त्वा तौ महावैश्यौ जग्मतुः स्वगृहं प्रति ॥ 51॥ (महावैश्यो)
॥ इति श्रीस्कांद पुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां तृतीयोऽध्यायः ॥ 3 ॥
अथ चतुर्थोऽध्यायः
सूत उवाच ।
यात्रां तु कृतवान् साधुर्मंगलायनपूर्विकाम् ।
ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं-यँयौ ॥ 1॥
कियद् दूरे गते साधो सत्यनारायणः प्रभुः ।
जिज्ञासां कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ 2॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । (मतौ)
कथं पृच्छसि भो दंडिन् मुद्रां नेतुं किमिच्छसि ॥ 3॥
लतापत्रादिकं चैव वर्तते तरणौ मम ।
निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः ॥ 4॥
एवमुक्त्वा गतः शीघ्रं दंडी तस्य समीपतः ।
कियद् दूरे ततो गत्वा स्थितः सिंधु समीपतः ॥ 5॥
गते दंडिनि साधुश्च कृतनित्यक्रियस्तदा ।
उत्थितां तरणीं दृष्ट्वा विस्मयं परमं-यँयौ ॥ 6॥
दृष्ट्वा लतादिकं चैव मूर्च्छितो न्यपतद् भुवि ।
लब्धसंज्ञो वणिक्पुत्रस्ततश्चिंतान्वितोऽभवत् ॥ 7॥ (वणिक्पुत्रस्ततश्चिंतान्वितोभवत्)
तदा तु दुहितुः कांतो वचनं चेदमब्रवीत् ।
किमर्थं क्रियते शोकः शापो दत्तश्च दंडिना ॥ 8॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशयः । (शक्यतेने न)
अतस्तच्छरणं-याँमो वांछतार्थो भविष्यति ॥ 9॥ (वांछितार्थो)
जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा ।
दृष्ट्वा च दंडिनं भक्त्या नत्वा प्रोवाच सादरम् ॥ 10॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ ।
एवं पुनः पुनर्नत्वा महाशोकाकुलोऽभवत् ॥ 11॥ (महाशोकाकुलोभवत्)
प्रोवाच वचनं दंडी विलपंतं-विँलोक्य च ।
मा रोदीः शृणुमद्वाक्यं मम पूजाबहिर्मुखः ॥ 12॥
ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः ।
तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यतः ॥ 13॥
साधुरुवाच ।
त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः ।
न जानंति गुणान् रूपं तवाश्चर्यमिदं प्रभो ॥ 14॥
मूढोऽहं त्वां कथं जाने मोहितस्तवमायया । (मूढोहं)
प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ 15॥
पुरा वित्तं च तत् सर्वं त्राहि मां शरणागतम् ।
श्रुत्वा भक्तियुतं-वाँक्यं परितुष्टो जनार्दनः ॥ 16॥
वरं च वांछितं दत्त्वा तत्रैवांतर्दधे हरिः ।
ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ 17॥
कृपया सत्यदेवस्य सफलं-वांँछितं मम ।
इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधि ॥ 18॥
हर्षेण चाभवत् पूर्णःसत्यदेवप्रसादतः ।
नावं संयोँज्य यत्नेन स्वदेशगमनं कृतम् ॥ 19॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम ।
दूतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥ 20॥
ततोऽसौ नगरं गत्वा साधुभार्यां-विँलोक्य च । (दूतोसौ)
प्रोवाच वांछितं-वाँक्यं नत्वा बद्धांजलिस्तदा ॥ 21॥
निकटे नगरस्यैव जामात्रा सहितो वणिक् ।
आगतो बंधुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ 22॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ।
सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ॥ 23॥
व्रजामि शीघ्रमागच्छ साधुसंदर्शनाय च ।
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ॥ 24॥
प्रसादं च परित्यज्य गता साऽपि पतिं प्रति । (सापि)
तेन रुष्टाः सत्यदेवो भर्तारं तरणिं तथा ॥ 25॥ (रुष्टः, तरणीं)
संहृत्य च धनैः सार्धं जले तस्यावमज्जयत् ।
ततः कलावती कन्या न विलोक्य निजं पतिम् ॥ 26॥
शोकेन महता तत्र रुदंती चापतद् भुवि । (रुदती)
दृष्ट्वा तथाविधां नावं कन्यां च बहुदुःखिताम् ॥ 27॥
भीतेन मनसा साधुः किमाश्चर्यमिदं भवेत् ।
चिंत्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ 28॥
ततो लीलावती कन्यां दृष्ट्वा सा विह्वलाऽभवत् ।
विललापातिदुःखेन भर्तारं चेदमब्रवीत ॥ 29॥
इदानीं नौकया सार्धं कथं सोऽभूदलक्षितः ।
न जाने कस्य देवस्य हेलया चैव सा हृता ॥ 30॥
सत्यदेवस्य माहात्म्यं ज्ञातुं-वाँ केन शक्यते ।
इत्युक्त्वा विललापैव ततश्च स्वजनैः सह ॥ 31॥
ततो लीलावती कन्यां क्रौडे कृत्वा रुरोद ह ।
ततःकलावती कन्या नष्टे स्वामिनि दुःखिता ॥ 32॥
गृहीत्वा पादुके तस्यानुगतुं च मनोदधे । (पादुकां)
कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनो वणिक् ॥ 33॥
अतिशोकेन संतप्तश्चिंतयामास धर्मवित् ।
हृतं-वाँ सत्यदेवेन भ्रांतोऽहं सत्यमायया ॥ 34॥
सत्यपूजां करिष्यामि यथाविभवविस्तरैः ।
इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ 35॥
नत्वा च दंडवद् भूमौ सत्यदेवं पुनः पुनः ।
ततस्तुष्टः सत्यदेवो दीनानां परिपालकः ॥ 36॥
जगाद वचनं चैनं कृपया भक्तवत्सलः ।
त्यक्त्वा प्रसादं ते कन्या पतिं द्रष्टुं समागता ॥ 37॥
अतोऽदृष्टोऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् ।
गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुनः ॥ 38॥ (सायाति)
लब्धभर्त्री सुता साधो भविष्यति न संशयः ।
कन्यका तादृशं-वाँक्यं श्रुत्वा गगनमंडलात् ॥ 39॥
क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा ।
पश्चात् सा पुनरागत्य ददर्श स्वजनं पतिम् ॥ 40॥ (सापश्चात्पुनरागत्य, सजनं)
ततः कलावती कन्या जगाद पितरं प्रति ।
इदानीं च गृहं-याँहि विलंबं कुरुषे कथम् ॥ 41॥
तच्छ्रुत्वा कन्यकावाक्यं संतुष्टोऽभूद्वणिक्सुतः ।
पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ 42॥
धनैर्बंधुगणैः सार्धं जगाम निजमंदिरम् ।
पौर्णमास्यां च संक्रांतौ कृतवान् सत्यस्य पूजनम् ॥ 43॥ (सत्यपूजनम्)
इहलोके सुखं भुक्त्वा चांते सत्यपुरं-यँयौ ॥ 44॥
॥ इति श्रीस्कांद पुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां चतुर्थोऽध्यायः ॥ 4 ॥
अथ पंचमोऽध्यायः
सूत उवाच ।
अथान्यच्च प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः ।
आसीत् तुंगध्वजो राजा प्रजापालनतत्परः ॥ 1॥
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ।
एकदा स वनं गत्वा हत्वा बहुविधान् पशून् ॥ 2॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् । (चापश्यत्)
गोपाः कुर्वंति संतुष्टा भक्तियुक्ताः स बांधवाः ॥ 3॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः ।
ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ ॥ 4॥
संस्थाप्य पुनरागत्य भुक्तत्वा सर्वे यथेप्सितम् ।
ततः प्रसादं संत्यज्य राजा दुःखमवाप सः ॥ 5॥
तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् ।
सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥ 6॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ।
मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ 7॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणैःसह ।
भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ 8॥
सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् ।
इहलोके सुखं भुक्तत्वा चांते सत्यपुरं-यँयौ ॥ 9॥
य इदं कुरुते सत्यव्रतं परमदुर्लभम् ।
शृणोति च कथां पुण्यां भक्तियुक्तः फलप्रदाम् ॥ 10॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः ।
दरिद्रो लभते वित्तं बद्धो मुच्येत बंधनात् ॥ 11॥
भीतो भयात् प्रमुच्येत सत्यमेव न संशयः ।
ईप्सितं च फलं भुक्त्वा चांते सत्यपुरंव्रँजेत् ॥ 12॥
इति वः कथितं-विँप्राः सत्यनारायणव्रतम् ।
यत् कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 13॥
विशेषतः कलियुगे सत्यपूजा फलप्रदा ।
केचित् कालं-वँदिष्यंति सत्यमीशं तमेव च ॥ 14॥
सत्यनारायणं केचित् सत्यदेवं तथापरे ।
नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ 15॥ (सर्वेषामीप्सितप्रदः)
भविष्यति कलौ सत्यव्रतरूपी सनातनः ।
श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ 16॥
य इदं पठते नित्यं शृणोति मुनिसत्तमाः ।
तस्य नश्यंति पापानि सत्यदेवप्रसादतः ॥ 17॥
व्रतं-यैँस्तु कृतं पूर्वं सत्यनारायणस्य च ।
तेषां त्वपरजन्मानि कथयामि मुनीश्वराः ॥ 18॥
शतानंदोमहाप्राज्ञःसुदामाब्राह्मणो ह्यभूत् ।
तस्मिंजन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥ 19॥
काष्ठभारवहो भिल्लो गुहराजो बभूव ह ।
तस्मिंजन्मनि श्रीरामं सेव्य मोक्षं जगाम वै ॥ 20॥
उल्कामुखो महाराजो नृपो दशरथोऽभवत् ।
श्रीरंगनाथं संपूज्य श्रीवैकुंठं तदागमत् ॥ 21॥ (श्रीरामचंद्रसंप्राप्य)
र्धामिकः सत्यसंधश्च साधुर्मोरध्वजोऽभवत् । (साधुर्मोरध्वजोभवत्)
देहार्धं क्रकचैश्छित्त्वा दत्वा मोक्षमवाप ह ॥ 22॥
तुंगध्वजो महाराजः स्वायंभुवोऽभवत् किल । (स्वायंभूरभवत्)
सर्वान् भागवतान् कृत्वा श्रीवैकुंठं तदाऽगमत् ॥ 23॥ (कृत्त्वा, तदागमत्)
भूत्वा गोपाश्च ते सर्वे व्रजमंडलवासिनः ।
निहत्य राक्षसान् सर्वान् गोलोकं तु तदा ययुः ॥ 24॥
॥ इति श्रीस्कांदपुराणे रेवाखंडे श्रीसत्यनारायण व्रतकथायां पंचमोऽध्यायः ॥ 5 ॥
वारंवार विचारले जाणारे प्रश्न
What is श्री सत्यनारायण स्वामि व्रत कथा?
श्री सत्यनारायण स्वामि व्रत कथा is a Vishnu Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read श्री सत्यनारायण स्वामि व्रत कथा online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री सत्यनारायण स्वामि व्रत कथा as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.