श्री मनसा देवी स्तोत्रम् (महेंद्र कृतम्)


देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् ।
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ 1 ॥

स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ 2 ॥

शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता ।
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ 3 ॥

त्वं मया पूजिता साध्वी जननी च यथाऽदितिः ।
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ 4 ॥

त्वया मे रक्षिताः प्राणा पुत्रदाराः सुरेश्वरि ।
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ 5 ॥

नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदंबिके ।
तथापि तव पूजां वै वर्धयामि पुनः पुनः ॥ 6 ॥

ये त्वामाषाढसंक्रांत्यां पूजयिष्यंति भक्तितः ।
पंचम्यां मनसाख्यायां मासांते वा दिने दिने ॥ 7 ॥

पुत्रपौत्रादयस्तेषां वर्धंते च धनानि च ।
यशस्विनः कीर्तिमंतो विद्यावंतो गुणान्विताः ॥ 8 ॥

ये त्वां न पूजयिष्यंति निंदंत्यज्ञानतो जनाः ।
लक्ष्मीहीना भविष्यंति तेषां नागभयं सदा ॥ 9 ॥

त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुंठे कमलाकला ।
नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ 10 ॥

तपसा तेजसा त्वां च मनसा ससृजे पिता ।
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ 11 ॥

मनसा देवि तु शक्ता चात्मना सिद्धयोगिनी ।
तेन त्वं मनसादेवी पूजिता वंदिता भवे ॥ 12 ॥

यां भक्त्या मनसा देवाः पूजयंत्यनिशं भृशम् ।
तेन त्वां मनसादेवीं प्रवदंति पुराविदः ॥ 13 ॥

सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ 14 ॥

इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ 15 ॥

विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ।
पंचलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ 16 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखंडे षट्चत्वारिंशोऽध्याये महेंद्र कृत श्री मनसादेवी स्तोत्रम् ॥

आस्तीकमुनि मंत्रः
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष ।
जनमेजयस्य यज्ञांते आस्तीकवचनं स्मर ॥

वारंवार विचारले जाणारे प्रश्न

What is श्री मनसा देवी स्तोत्रम् (महेंद्र कृतम्)?

श्री मनसा देवी स्तोत्रम् (महेंद्र कृतम्) is a Devi Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read श्री मनसा देवी स्तोत्रम् (महेंद्र कृतम्) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री मनसा देवी स्तोत्रम् (महेंद्र कृतम्) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook