श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम्
॥ पूर्वपीठिका ॥
मार्कंडेय उवाच ।
एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह ।
नृसिंहस्यांगसंभूतैर्नारसिंहैरनेकशः ॥ 1 ॥
दैत्यकोटिर्हतास्तत्र केचिद्भीताः पलायिताः ।
तं दृष्ट्वातीव संक्रुद्धो हिरण्यकशिपुः स्वयम् ॥ 2 ॥
भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः ।
ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ 3 ॥
द्वंद्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् ।
दैत्येंद्रे साहसं दृष्ट्वा देवाश्चेंद्रपुरोगमाः ॥ 4 ॥
श्रेयः कस्य भवेदत्र इति चिंतापरा भवन् ।
तदा क्रुद्धो नृसिंहस्तु दैत्येंद्रप्रहितान्यपि ॥ 5 ॥
विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् ।
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ 6 ॥
आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
भार्गवादि बहून्यस्त्राण्यभक्षयत कोपनः ॥ 7 ॥
संध्याकाले सभाद्वारे स्वांके निक्षिप्य भैरवः ।
ततः खड्गधरं दैत्यं जग्राह नरकेसरी ॥ 8 ॥
हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः ।
उद्धृत्य चांत्रमालानि नखैर्वज्रसमप्रभैः ॥ 9 ॥
मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत ।
हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ 10 ॥
देवदुंदुभयो नेदुर्विमलाश्च दिशोऽभवन् ।
नरसिंहमतीवोग्रं विकीर्णवदनं भृशम् ॥ 11 ॥
लेलिहानं च गर्जंतं कालानलसमप्रभम् ।
अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ 12 ॥
महासिंहं महारूपं दृष्ट्वा संक्षुभितं जगत् ।
सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ 13 ॥
आगंतुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः ।
गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ 14 ॥
ॐ नमः श्रीमद्दिव्यलक्ष्मीनृसिंह सहस्रनामस्तोत्रमहामंत्रस्य ब्रह्मा ऋषिः, श्रीलक्ष्मीनृसिंहो देवता, अनुष्टुप्छंदः, श्रीनृसिंहः परमात्मा बीजं, लक्ष्मीर्माया शक्तिः, जीवो बीजं, बुद्धिः शक्तिः, उदानवायुः बीजं, सरस्वती शक्तिः, व्यंजनानि बीजानि, स्वराः शक्तयः, ॐ क्ष्रौं ह्रीं इति बीजानि, ॐ श्रीं
अं आं इति शक्तयः, विकीर्णनखदंष्ट्रायुधायेति कीलकं, अकारादिति बोधकं, श्रीलक्ष्मीनृसिंह प्रसादसिद्ध्यर्थे श्रीलक्ष्मीनृसिंह सहस्रनामस्तोत्र मंत्रजपे विनियोगः ।
न्यासः –
ॐ श्रीलक्ष्मीनृसिंहाय नमः – अंगुष्ठाभ्यां नमः ।
ॐ वज्रनखाय नमः – तर्जनीभ्यां नमः ।
ॐ महारुद्राय नमः – मध्यमाभ्यां नमः ।
ॐ सर्वतोमुखाय नमः – अनामिकाभ्यां नमः ।
ॐ विकटास्याय नमः – कनिष्ठिकाभ्यां नमः ।
ॐ वीराय नमः – करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
दिग्बंधः –
ॐ ऐंद्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ नैरृतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अंतरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
अथ ध्यानम् ।
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविं
छत्रीभूतफणींद्रमिंदुधवलं लक्ष्मीनृसिंहं भजे ॥ 1 ॥
उपास्महे नृसिंहाख्यं ब्रह्म वेदांतगोचरम् ।
भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ 2 ॥
अथ स्तोत्रम् ।
ब्रह्मोवाच ।
ॐ ह्रीं श्रीं ऐं क्ष्रौम् ॥
ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ 1 ॥
वासुदेवाय वंद्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ 2 ॥
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ 3 ॥
परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ 4 ॥
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ 5 ॥
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शारंगिणे ॥ 6 ॥
सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ 7 ॥
भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ 8 ॥
नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनंजयाय धन्याय नमो मृत्युंजयाय च ॥ 9 ॥
शुभंजयाय सूत्राय नमः शत्रुंजयाय च ।
निरंजनाय नीराय निर्गुणाय गुणाय च ॥ 10 ॥
निष्प्रपंचाय निर्वाणप्रदाय निबिडाय च ।
निरालंबाय नीलाय निष्कलाय कलाय च ॥ 11 ॥
निमेषाय निबंधाय निमेषगमनाय च ।
निर्द्वंद्वाय निराशाय निश्चयाय निराय च ॥ 12 ॥
निर्मलाय निबंधाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ 13 ॥
सत्यध्वजाय मुंजाय मुंजकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ 14 ॥
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ 15 ॥
कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ 16 ॥
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ 17 ॥
प्रभंजनाय पांथाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्ज्वलाय च ॥ 18 ॥
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ 19 ॥
कालांतकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ 20 ॥
अक्रूराय कृतांताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ 21 ॥
संक्रमाय च क्रुद्धाय क्रांतलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ 22 ॥
अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥ 23 ॥
नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणाऽऽर्याय शंभवे ॥ 24 ॥
अमोघाय गुणौघाय अनघायाऽघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ 25 ॥
मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ 26 ॥
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ 27 ॥
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ 28 ॥
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ 29 ॥
विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वंभराय च ॥ 30 ॥
वीतरागाय विप्राय विटंकनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ 31 ॥
विडंबनाय वित्ताय विश्रुताय वियोनये । [चिदंबराय]
विह्वलाय विवादाय नमो व्याहृतये नमः ॥ 32 ॥
विलासाय विकल्पाय महाकल्पाय ते नमः ।
बहुकल्पाय कल्पाय कल्पातीताय शिल्पिने ॥ 33 ॥
कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्क्ष्याय तरुणाय तरस्विने ॥ 34 ॥
तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ 35 ॥
तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शांताय शतधाराय ते नमः ॥ 36 ॥
शतपत्रायताक्षाय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ 37 ॥
नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ 38 ॥
नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥ 39 ॥
सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ 40 ॥
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्णाय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ 41 ॥
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ 42 ॥
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ 43 ॥
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ 44 ॥
भूतपालाय भूताय भूतावासाय भूतिने ।
भूतवेतालघाताय भूताधिपतये नमः ॥ 45 ॥
भूतग्रहविनाशाय भूतसंयमते नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ 46 ॥
सर्वारिष्टविनाशाय सर्वसंपत्कराय च ।
सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥ 47 ॥
सर्वदुःखप्रशांताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनंताय सर्वशक्तिधराय च ॥ 48 ॥
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ 49 ॥
सर्वाभिचारहंत्रे च सर्वैश्वर्यविधायिने ।
पिंगाक्षायैकशृंगाय द्विशृंगाय मरीचये ॥ 50 ॥
बहुशृंगाय लिंगाय महाशृंगाय ते नमः ।
मांगल्याय मनोज्ञाय मंतव्याय महात्मने ॥ 51 ॥
महादेवाय देवाय मातुलिंगधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ 52 ॥
अनंतानंतरूपाय मायिने जलशायिने ।
महोदराय मंदाय मददाय मदाय च ॥ 53 ॥
मधुकैटभहंत्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥ 54 ॥
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ 55 ॥
महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमयनृसिंहाय नमस्ते चित्रभानवे ॥ 56 ॥
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ 57 ॥
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ 58 ॥
अष्टांगन्यस्तरूपाय सर्वदुष्टांतकाय च ।
वैकुंठाय विकुंठाय केशिकंठाय ते नमः ॥ 59 ॥
कंठीरवाय लुंठाय निश्शठाय हठाय च ।
सत्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ 60 ॥
ऋतुध्वजाय वज्राय मंत्रराजाय मंत्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ 61 ॥
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ 62 ॥
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनंताय अमितायामितौजसे ॥ 63 ॥
अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ 64 ॥
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय संघाय वैद्युताय नमो नमः ॥ 65 ॥
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवां पते ॥ 66 ॥
गंधर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ 67 ॥
पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ 68 ॥
पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ 69 ॥
शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ 70 ॥
ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ 71 ॥
परब्रह्मस्वरूपाय पंचब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥ 72 ॥
अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ 73 ॥
लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ 74 ॥
लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ 75 ॥
पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुंडलिनं सर्वांगं सर्वतोमुखम् ॥ 76 ॥
सर्वतः पाणिपादोरः सर्वतोऽक्षिशिरोमुखम् ।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ 77 ॥
बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्तांघ्रिं बहुयोजननासिकम् ॥ 78 ॥
महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ 79 ॥
आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।
आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतः शिवम् ॥ 80 ॥
नमोऽस्तु नारायणनारसिंह
नमोऽस्तु नारायणवीरसिंह ।
नमोऽस्तु नारायणक्रूरसिंह
नमोऽस्तु नारायणदिव्यसिंह ॥ 81 ॥
नमोऽस्तु नारायणव्याघ्रसिंह
नमोऽस्तु नारायणपुच्छसिंह ।
नमोऽस्तु नारायणपूर्णसिंह
नमोऽस्तु नारायणरौद्रसिंह ॥ 82 ॥
नमो नमो भीषणभद्रसिंह
नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह
नमो नमो निर्मलचित्रसिंह ॥ 83 ॥
नमो नमो निर्जितकालसिंह
नमो नमः कल्पितकल्पसिंह ।
नमो नमो कामदकामसिंह
नमो नमस्ते भुवनैकसिंह ॥ 84 ॥
द्यावापृथिव्योरिदमंतरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥ 85 ॥
अमी हित्वा सुरसंघा विशंति
केचिद्भीताः प्रांजलयो गृणंति ।
स्वस्तीत्युक्त्वा मुनयः सिद्धसंघाः
स्तुवंति त्वां स्तुतिभिः पुष्कलाभिः ॥ 86 ॥
रुद्रादित्यावसवो ये च साध्या
विश्वेदेवा मरुतश्चोष्मपाश्च ।
गंधर्वयक्षासुरसिद्धसंघा
वीक्षंति त्वां विस्मिताश्चैव सर्वे ॥ 87 ॥
लेलिह्यसे ग्रसमानः समंता-
-ल्लोकान् समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपंति विष्णो ॥ 88 ॥
भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च ।
पृथिवीमंतरिक्षं त्वं पर्वतारण्यमेव च ॥ 89 ॥
कलाकाष्ठाविलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसंध्या च पक्षमासर्तुवत्सराः ॥ 90 ॥
युगादिर्युगभेदस्त्वं संयुगो युगसंधयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ 91 ॥
करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानंदविग्रहः ॥ 92 ॥
प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परंज्योतिरात्मज्योतिः सनातनः ॥ 93 ॥
ज्योतिर्लोकस्वरूपस्त्वं ज्ञो ज्योतिर्ज्योतिषां पतिः । [ज्योतिर्ज्ञो]
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ 94 ॥
हंतकारो निराकारो वेगाकारश्च शंकरः ।
अकारादिहकारांत ॐकारो लोककारकः ॥ 95 ॥
एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्वेदमयोत्तमः ॥ 96 ॥
लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ 97 ॥
लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ 98 ॥
अनादिस्त्वमनंतस्त्वमभूतो भूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ 99 ॥
त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुः सखा ।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥ 100 ॥
नमस्ते मंत्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पंचरूपधराय च ॥ 101 ॥
भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ 102 ॥
योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ 103 ॥
धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च संधात्रे विधात्रे च धराय च ॥ 104 ॥
दामोदराय दांताय दानवांतकराय च ।
नमः संसारवैद्याय भेषजाय नमो नमः ॥ 105 ॥
सीरध्वजाय शीताय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्षमालिने ॥ 106 ॥
असिचर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥ 107 ॥
सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ 108 ॥
कवये पद्मगर्भाय भूतगर्भ घृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ 109 ॥
नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ 110 ॥
हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हंत्रे हिरण्यनयनाय च ॥ 111 ॥
हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यशृंगाय निःशृंगाय च शृंगिणे ॥ 112 ॥
भैरवाय सुकेशाय भीषणायांत्रमालिने ।
चंडाय रुंडमालाय नमो दंडधराय च ॥ 113 ॥
अखंडतत्त्वरूपाय कमंडलुधराय च ।
नमस्ते खंडसिंहाय सत्यसिंहाय ते नमः ॥ 114 ॥
नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ 115 ॥
नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ 116 ॥
पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय अंतरिक्षस्थिताय च ॥ 117 ॥
कालाग्निरुद्रसिंहाय चंडसिंहाय ते नमः ।
अनंतसिंहसिंहाय अनंतगतये नमः ॥ 118 ॥
नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयंकरसिंहाय नरसिंहाय ते नमः ॥ 119 ॥
नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥ 120 ॥
सप्तलोकांतरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ 121 ॥
सप्तवायुस्वरूपाय सप्तच्छंदोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छंदाय च ते नमः ॥ 122 ॥
श्रीवत्साय सुवेषाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रभाय सुधन्विने ॥ 123 ॥
शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥ 124 ॥
सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ 125 ॥
सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ 126 ॥
नमः खट्वांगहस्ताय खेटमुद्गरपाणये ।
खगेंद्राय मृगेंद्राय नागेंद्राय दृढाय च ॥ 127 ॥
नागकेयूरहाराय नागेंद्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥ 128 ॥
नागेश्वराय नागाय नमिताय नराय च ।
नागांतकरथायैव नरनारायणाय च ॥ 129 ॥
नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय ते नमः ॥ 130 ॥
विक्रमाक्रांतलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणांतकराय च ॥ 131 ॥
नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ 132 ॥
आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ 133 ॥
गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ 134 ॥
शालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ 135 ॥
योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ 136 ॥
नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ 137 ॥
रक्तमालाविभूषाय रक्तगंधानुलेपिने ।
धुरंधराय धूर्ताय दुर्धराय धराय च ॥ 138 ॥
दुर्मदाय दुरंताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ 139 ॥
दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ 140 ॥
उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय आरक्तरसनाय च ॥ 141 ॥
पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥ 142 ॥
ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शंखचक्रधराय च ॥ 143 ॥
गदापद्मधरायैव पंचबाणधराय च ।
कामेश्वराय कामाय कामपालाय कामिने ॥ 144 ॥
नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ 145 ॥
नमः सोमाय वामाय वामदेवाय ते नमः ।
सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ 146 ॥
कूष्मांडगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥ 147 ॥
मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्न्याय नमस्ते जातवेदसे ॥ 148 ॥
जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायांडजाय स्वेदजायोद्भिजाय च ॥ 149 ॥
जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥ 150 ॥
जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ 151 ॥
इंद्रियायेंद्रियज्ञाय नमोऽस्त्विंद्रानुजाय च ।
अतींद्रियाय साराय इंदिरापतये नमः ॥ 152 ॥
ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ 153 ॥
व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ 154 ॥
सुकुमाराय रामाय शुभाचाराय वै नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ 155 ॥
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ 156 ॥
चतुर्विंशतिरूपाय पंचविंशतिमूर्तये ।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ 157 ॥
धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ 158 ॥
प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च ।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥ 159 ॥
प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ 160 ॥
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ 161 ॥
उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥ 162 ॥
दुष्टग्रहनिहंत्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥ 163 ॥
उग्रश्रवाय शांताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ 164 ॥
नमस्ते पुंडरीकाक्ष नमस्ते दुरितक्षय ।
नमस्ते करुणासिंधो नमस्ते समितिंजय ॥ 165 ॥
नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्र नमस्तेऽस्तु कालध्वज जयध्वज ॥ 166 ॥
अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ 167 ॥
धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।
पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ 168 ॥
नमो नमस्ते जयसिंहरूप
नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप
नमो नमस्ते नरसिंहरूप ॥ 169 ॥
उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ 170 ॥
अतिरौद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वा तु शंकिताः सर्वा देवतास्त्वामुपागताः ॥ 171 ॥
एतान्पश्य महेशानं ब्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ 172 ॥
सर्वान् ऋषिगणान् सप्तमातृर्गौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगणान्यपि ॥ 173 ॥
प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शांतिभावं च धारय ॥ 174 ॥
इत्युक्त्वा दंडवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ 175 ॥
मार्कंडेय उवाच ।
दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ 176 ॥
अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान् सुरोत्तमान् ।
संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ 177 ॥
श्रीनृसिंह उवाच ।
भो भो देववराः सर्वे पितामहपुरोगमाः ।
शृणुध्वं मम वाक्यं च भवंतु विगतज्वराः ॥ 178 ॥
यद्धितं भवतां नूनं तत्करिष्यामि सांप्रतम् ।
एवं नामसहस्रं मे त्रिसंध्यं यः पठेत् शुचिः ॥ 179 ॥
शृणोति वा श्रावयति पूजांते भक्तिसंयुतः ।
सर्वान् कामानवाप्नोति जीवेच्च शरदां शतम् ॥ 180 ॥
यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ 181 ॥
सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ 182 ॥
सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ 183 ॥
भूतभेतालकूष्मांड पिशाचब्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ 184 ॥
दुष्टग्रहाश्च नश्यंति यक्षराक्षसपन्नगाः ।
ये च संध्याग्रहाः सर्वे चांडालग्रहसंज्ञिकाः ॥ 185 ॥
निशाचरग्रहाः सर्वे प्रणश्यंति च दूरतः ।
कुक्षिरोगं च हृद्रोगं शूलापस्मारमेव च ॥ 186 ॥
ऐकाहिकं द्व्याहिकं च चातुर्थिकमथ ज्वरम् ।
आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ 187 ॥
शीघ्रं नश्यंति ते सर्वे नृसिंहस्मरणात् सुराः ।
राजानो दासतां यांति शत्रवो यांति मित्रताम् ॥ 188 ॥
जलानि स्थलतां यांति वह्नयो यांति शीतताम् ।
विषाण्यप्यमृता यांति नृसिंहस्मरणात्सुराः ॥ 189 ॥
राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बंधनात् ॥ 190 ॥
व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ 191 ॥
सुपुत्रं धनधान्यं च भवंति विगतज्वराः ।
एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ 192 ॥
जलसंतरणे चैव पर्वतारण्यमेव च ।
वनेऽपि विचिरन्मर्त्यो दुर्गमे विषमे पथि ॥ 193 ॥
बिलप्रवेशने चापि नारसिंहं न विस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ 194 ॥
मुच्यते सर्वपापेभ्यः कृतघ्नः स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृविनिंदकः ॥ 195 ॥
असत्यस्तु तेथा यज्ञनिंदको लोकनिंदकः ।
स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बिषैः ॥ 196 ॥
बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ 197 ॥
गच्छन् तिष्ठन् स्वपन् भुंजन् जाग्रन्नपि हसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ 198 ॥
पुमान्न लिप्यते पापैर्भुक्तिं मुक्तिं च विंदति ।
नारी सुभगतामेति सौभाग्यं च स्वरूपताम् ॥ 199 ॥
भर्तुः प्रियत्वं लभते न वैधव्यं च विंदति ।
न सपत्नीं च जन्मांते सम्यक् ज्ञानी भवेद्विजः ॥ 200 ॥
भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ 201 ॥
मार्कंडेय उवाच ।
इत्युक्त्वा देवदेवेशो लक्ष्मीमालिंग्य लीलया ।
प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ 202 ॥
श्रीशैलस्य प्रसादे तु लोकानां च हिताय वै ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ 203 ॥
ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।
दैवतैः सह सुप्रीतो ह्यात्मलोकं ययौ स्वयम् ॥ 204 ॥
हिरण्यकशिपोर्भीत्या प्रपलाय्य शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिम् ॥ 205 ॥
नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।
दिक्पालाश्च सुसंप्राप्तः स्वस्वस्थानमनुत्तमम् ॥ 206 ॥
धर्मे मतिः समस्तानां प्रजानामभवत्तदा ।
एवं नामसहस्रं मे ब्रह्मणा निर्मितं पुरा ॥ 207 ॥
पुत्रानध्यापयामास सनकादीन्महामतिः ।
ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ 208 ॥
देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गंधर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ 209 ॥
यस्य स्तोत्रस्य पाठाद्धि विशुद्धमनसोऽभवन् ।
सनत्कुमारः संप्राप्तो भारद्वाजो महामतिः ॥ 210 ॥
तस्मादांगिरसः प्राप्तस्तस्मात्प्राप्तो महाक्रतुः ।
जग्राह भार्गवस्तस्मादग्निमित्राय सोऽब्रवीत् ॥ 211।
जैगीषव्याय स प्राह सोऽब्रवीच्च्यवनाय च ।
तस्मा उवाच शांडिल्यो गर्गाय प्राह वै मुनिः ॥ 212 ॥
क्रतुंजयाय स प्राह जतुकर्ण्याय संयमी ।
विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ॥ 213 ॥
क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ।
सिंहतेजाश्च तस्माच्च श्रीप्रियाय ददौ च नः ॥ 214 ॥ [सः]
उपदिष्टोऽस्मि तेनाहमिदं नामसहस्रकम् ।
तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न हि ॥ 215 ॥
मया च कथितं नारसिंहस्तोत्रमिदं तव ।
त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ॥ 216 ॥
सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ।
पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ॥ 217 ॥
प्राप्यसे महतीं सिद्धिं सर्वान् कामान्वरोत्तमान् ।
अयमेव परोधर्मस्त्विदमेव परं तपः ॥ 218 ॥
इदमेव परं ज्ञानमिदमेव महद्व्रतम् ।
अयमेव सदाचारस्त्वयमेव सदा मखः ॥ 219 ॥
इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ।
नृसिंहमंत्रादन्यच्च वैदिकं तु न विद्यते ॥ 220 ॥
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
कथितं ते नृसिंहस्य चरितं पापनाशनम् ॥ 221 ॥
सर्वमंत्रमयं तापत्रयोपशमनं परम् ।
सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ 222 ॥
इति श्रीनृसिंहपुराणे नृसिंहप्रादुर्भावे श्रीमद्दिव्य लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् ॥
वारंवार विचारले जाणारे प्रश्न
What is श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम्?
श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् is a Vishnu Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.