श्री कृष्ण सहस्र नाम स्तोत्रम्
ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमंत्रस्य पराशर ऋषिः, अनुष्टुप् छंदः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शारंगीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥
न्यासः
पराशराय ऋषये नमः इति शिरसि,
अनुष्टुप् छंदसे नमः इति मुखे,
गोपालकृष्णदेवतायै नमः इति हृदये,
श्रीकृष्णाय बीजाय नमः इति गुह्ये,
श्रीवल्लभाय शक्त्यै नमः इति पादयोः,
शार्ङ्गधराय कीलकाय नमः इति सर्वांगे ॥
करन्यासः
श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यंतानि अंगुष्ठाभ्यां नमः ।
शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यंतानि तर्जनीभ्यां नमः ।
कृतात्मविद्याविन्यास इत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः,
बृंदावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यनामिकाभ्यां नमः,
रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः
द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः,
एवं हृदयादिन्यासः ॥
ध्यानम्
केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलांकितरसिकतनुर्वेणुवाद्येन देवम् ।
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ 1 ॥
क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पंडितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले ।
कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ 2 ॥
फुल्लेंदीवरकांतिमिंदुवदनं बर्हावतंसप्रियं
श्रीवत्सांकमुदारकौस्तुभधरं पीतांबरं सुंदरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं
गोविंदं कलवेणुवादनरतं दिव्यांगभूषं भजे ॥ 3 ॥
ओम् ।
कृष्णः श्रीवल्लभः शारंगी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ 1 ॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिंधुर्देवदेवशिखामणिः ॥ 2 ॥
सुखभावस्सुखाधारो मुकुंदो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ 3 ॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अंतर्यामी कलारूपः कालावयवसाक्षिकः ॥ 4 ॥
वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ 5 ॥
रौहिणेयकृतानंदो योगज्ञाननियोजकः ।
महागुहांतर्निक्षिप्तः पुराणवपुरात्मवान् ॥ 6 ॥
शूरवंशैकधीश्शौरिः कंसशंकाविषादकृत् ।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ 7 ॥
वसुदेवसुतः श्रीमांदेवकीनंदनो हरिः ।
आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ 8 ॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यंतसंभवः ।
प्राजापत्यर्क्षसंभूतो निशीथसमयोदितः ॥ 9 ॥
शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुंडलः ॥ 10 ॥
पीतवासा घनश्यामः कुंचितांचितकुंतलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ 11 ॥
कारागारांधकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ 12 ॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ 13 ॥
महर्षिमानसोल्लासो महीमंगलदायकः ।
संतोषितसुरव्रातः साधुचित्तप्रसादकः ॥ 14 ॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ 15 ॥
स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ 16 ॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसंभवः ॥ 17 ॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नंदगोपोत्सवस्फूर्तिर्व्रजानंदकरोदयः ॥ 18 ॥
सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ 19 ॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ 20 ॥
नंदाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यंकनिद्रालुर्मुखार्पितपदांगुलिः ॥ 21 ॥
अंजनस्निग्धनयनः पर्यायांकुरितस्मितः ।
लीलाक्षस्तरलालोकश्शकटासुरभंजनः ॥ 22 ॥
द्विजोदितस्वस्त्ययनो मंत्रपूतजलाप्लुतः ।
यशोदोत्संगपर्यंको यशोदामुखवीक्षकः ॥ 23 ॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ 24 ॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः ।
व्यालंबिचूलिकारत्नो घोषगोपप्रहर्षणः ॥ 25 ॥
स्वमुखप्रतिबिंबार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पंकानुलेपरुचिरो मांसलोरुकटीतटः ॥ 26 ॥
घृष्टजानुकरद्वंद्वः प्रतिबिंबानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥ 27 ॥
धात्रीकरसमालंबी प्रस्खलच्चित्रचंक्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ 28 ॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ 29 ॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥ 30 ॥
पीठोलूखलसोपानः क्षीरभांडविभेदनः ।
शिक्यभांडसमाकर्षी ध्वांतागारप्रवेशकृत् ॥ 31 ॥
भूषारत्नप्रकाशाढ्यो गोप्युपालंभभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ 32 ॥
बालोक्तमृत्कथारंभो मित्रांतर्गूढविग्रहः ।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः ॥ 33॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छंद्यमोहनः ॥ 34 ॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ 35 ॥
मृषाकोपप्रकंपोष्ठो गोष्ठांगणविलोकनः ।
दधिमंथघटीभेत्ता किंकिणीक्वाणसूचितः ॥ 36 ॥
हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः ।
जननीश्रमविज्ञाता दामबंधनियंत्रितः ॥ 37 ॥
दामाकल्पश्चलापांगो गाढोलूखलबंधनः ।
आकृष्टोलूखलोऽनंतः कुबेरसुतशापवित् ॥ । 38 ॥
नारदोक्तिपरामर्शी यमलार्जुनभंजनः ।
धनदात्मजसंघुष्टो नंदमोचितबंधनः ॥ 39 ॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ 40 ॥
प्रस्थानशकटारूढो बृंदावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ 41 ॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वानविडंबनः ॥ 42 ॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनस्सर्वजंतुरुतानुकृत् ॥ 43 ॥
भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः ॥ 44 ॥
भीतगोपार्भकाहूतो बकचंचुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ 45 ॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽद्भुतः ॥ 46 ॥
कंदुकक्रीडनो लुप्तनंदादिभववेदनः ।
सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ 47 ॥
गुंजाप्रालंबनच्छन्नः पिंछैरलकवेषकृत् ।
वन्याशनप्रियः शृंगरवाकारितवत्सकः ॥ 48 ॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः ।
मंजुशिंजितमंजीरचरणः करकंकणः ॥ 49 ॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ 50 ॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसंजीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ 51 ॥
कालिंदीपुलिनासीनस्सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ 52 ॥
भुजसंध्यंतरन्यस्तशृंगवेत्रः शुचिस्मितः ।
वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥ 53 ॥
अंगुल्यंतरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ 54 ॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः ॥ 55 ॥
स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ 56 ॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी ।
चिराद्वलोहितो दांतो ब्रह्मविज्ञातवैभवः ॥ 57 ॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥ 58 ॥
ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालंबनभावनः ॥ 59 ॥
प्रभविष्णुरतंत्रीको देवपक्षार्थरूपधृक् ।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥ 60 ॥
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः ।
छंदोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥ 61 ॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥ 62 ॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ 63 ॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानंदाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ 64 ॥
बलभद्रैकहृदयो नामाकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ 65 ॥
वृक्षच्छायाहताशांतिर्गोपोत्संगोपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥ 66।
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः ।
सुनंदसुहृदेकात्मा सुबलप्राणरंजनः ॥ 67 ॥
तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसंभाव्यो गोधूलिच्छुरितालकः ॥ 68 ॥
गोपीविरहसंतप्तो गोपिकाकृतमज्जनः ।
प्रलंबबाहुरुत्फुल्लपुंडरीकावतंसकः ॥ 69 ॥
विलासललितस्मेरगर्भलीलावलोकनः ।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ 70 ॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः ।
यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ 71 ॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारंगनटः कालियमर्दनः ॥ 72 ॥
नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः ॥ 73 ॥
सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः ।
अकुंठधामा चंद्रार्कदृष्टिराकाशनिर्मलः ॥ 74 ॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वांघ्रिमुद्रांकनागेंद्रमूर्धा कालियसंस्तुतः ॥ 75 ॥
अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ 76 ॥
नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिंगननिर्वृतः ॥ 77 ॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडालंपटो नृपचेष्टितः ॥ 78 ॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलंबो बलवत्सलः ॥ 79 ॥
मुंजाटव्यग्निशमनः प्रावृट्कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ 80 ॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालांको गोपिकावृतः ॥ 81 ॥
गोपीमनोहरापांगो वेणुवादनतत्परः ।
विन्यस्तवदनांभोजश्चारुशब्दकृताननः ॥ 82 ॥
बिंबाधरार्पितोदारवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः ॥ 83 ॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेंद्राद्यभिवंदितः ।
गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः ॥ 84 ॥
रागपल्लवितस्थाणुर्गीतानमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ 85 ॥
व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोबृंदप्रेमोत्कर्णिततर्णकः ॥ 86 ॥
निष्पंदयानब्रह्मादिवीक्षितो विश्ववंदितः ।
शाखोत्कर्णशकुंतौघश्छत्रायितबलाहकः ॥ 87 ॥
प्रसन्नः परमानंदश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुंकुममुद्रितः ॥ 88 ॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत् ।
स्कंधारोपितगोपस्त्रीवासाः कुंदनिभस्मितः ॥ 89 ॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवंदितः ॥ 90 ॥
गोप्यंजलिविशेषार्थी गोपक्रीडाविलोभितः ।
शांतवासस्फुरद्गोपीकृतांजलिरघापहः ॥ 91 ॥
गोपीकेलिविलासार्थी गोपीसंपूर्णकामदः ।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ 92 ॥
बृंदावनप्रियो गोपबंधुर्यज्वान्नयाचिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवांछितः ॥ 93 ॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥ 94 ॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ 95 ॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः ॥ 96 ॥
गोवर्धनधरो गोपगोबृंदत्राणतत्परः ।
गोवर्धनगिरिच्छत्रचंडदंडभुजार्गलः ॥ 97 ॥
सप्ताहविधृताद्रींद्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ 98 ॥
स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।
सुमनस्सुमनोवृष्टिहृष्टो वासववंदितः ॥ 99 ॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः ।
धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ 100 ॥
ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः ।
ऐरावतकरानीतवियद्गंगाप्लुतो विभुः ॥ 101 ॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः ।
सर्ववेदमयो मग्ननंदान्वेषिपितृप्रियः ॥ 102 ॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ 103 ॥
स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः ।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ 104 ॥
शरच्चंद्रविहारोत्कः श्रीपतिर्वशको क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ 105 ॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामानहरणो गोपिकाशतयूथपः ॥ 106 ॥
वैजयंतीस्रगाकल्पो गोपिकामानवर्धनः ।
गोपकांतासुनिर्देष्टा कांतो मन्मथमन्मथः ॥ 107 ॥
स्वात्मास्यदत्ततांबूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ 108 ॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः ।
रासक्रीडासमासक्तो गोपीमंडलमंडनः ॥ 109 ॥
गोपीहेममणिश्रेणिमध्येंद्रमणिरुज्ज्वलः ।
विद्याधरेंदुशापघ्नश्शंखचूडशिरोहरः ॥ 110 ॥
शंखचूडशिरोरत्नसंप्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ 111 ॥
सरसस्सस्मितमुखस्सुस्थिरो विरहाकुलः ।
संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ 112 ॥
अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ 113 ॥
सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ 114 ॥
मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्रांबरसंवीतो मालाकारवरप्रदः ॥ 115 ॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जांगरागसुरभिः कंसकोदंडखंडनः ॥ 116 ॥
धीरः कुवलयापीडमर्दनः कंसभीतिकृत् ।
दंतिदंतायुधो रंगत्रासको मल्लयुद्धवित् ॥ 117 ॥
चाणूरहंता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबंधविमोचनः ॥ 118 ॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः ॥ 119 ॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सांदीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः ॥ 120 ॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपंचजनप्राप्तपांचजन्यो यमार्चितः ॥ 121 ॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः ॥ 122 ॥
जामदग्न्यसमभ्यर्च्यो गोमंतगिरिसंचरः ।
गोमंतदावशमनो गरुडानीतभूषणः ॥ 123 ॥
चक्राद्यायुधसंशोभी जरासंधमदापहः ।
सृगालावनिपालघ्नस्सृगालात्मजराज्यदः ॥ 124 ॥
विध्वस्तकालयवनो मुचुकुंदवरप्रदः ।
आज्ञापितमहांभोधिर्द्वारकापुरकल्पनः ॥ 125 ॥
द्वारकानिलयो रुक्मिमानहंता यदूद्वहः ।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥ 126 ॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ 127 ॥
बाणासुरपुरीरोद्धा रक्षाज्वलनयंत्रजित् ।
धूतप्रमथसंरंभो जितमाहेश्वरज्वरः ॥ 128 ॥
षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शंभुत्रिशूलजिच्छंभुजृंभणश्शंभुसंस्तुतः ॥ 129 ॥
इंद्रियात्मेंदुहृदयस्सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥ 130 ॥
आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान् ।
इंद्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः ॥ 131 ॥
तुरीयसर्वधीसाक्षी द्वंद्वारामात्मदूरगः ।
अज्ञातपारो वश्यश्रीरव्याकृतविहारवान् ॥ 132 ॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेंद्रप्रीतिवर्धनः ॥ 133 ॥
अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः ।
जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः ॥ 134 ॥
प्रसेनान्वेषणोद्युक्तो जांबवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जांबवतीप्रियः ॥ 135 ॥
सत्यभामाप्रियः कामश्शतधन्वशिरोहरः ।
कालिंदीपतिरक्रूरबंधुरक्रूररत्नदः ॥ 136 ॥
कैकेयीरमणो भद्राभर्ता नाग्नजितीधवः ।
माद्रीमनोहरश्शैब्याप्राणबंधुरुरुक्रमः ॥ 137 ॥
सुशीलादयितो मित्रविंदानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ 138 ॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ 139 ॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ 140 ॥
गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ 141 ॥
प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः ॥ 142 ॥
स्वयंप्रभुरनिर्वेद्यस्स्वप्रकाशश्चिरंतनः ।
नादात्मा मंत्रकोटीशो नानावादनिरोधकः ॥ 143 ॥
कंदर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबंधमोचनः ॥ 144 ॥
षोडशस्त्रीसहस्रेशः कांतः कांतामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ 145 ॥
शक्राभिवंदितश्शक्रजननीकुंडलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्घुष्टचेष्टनः ॥ 146 ॥
पुराणस्संयमी जन्मालिप्तः षड्विंशकोऽर्थदः ।
यशस्यनीतिराद्यंतरहितस्सत्कथाप्रियः ॥ 147 ॥
ब्रह्मबोधः परानंदः पारिजातापहारकः ।
पौंड्रकप्राणहरणः काशिराजनिषूदनः ॥ 148 ॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
कंसविध्वंसनस्सांबजनको डिंभकार्दनः ॥ 149 ॥
मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ 150 ॥
सप्ताब्धिस्तंभनोद्भातो हरिस्सप्ताब्धिभेदनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ 151 ॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ 152 ॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घंटाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः ॥ 153 ॥
मुनिबृंदादिभिर्ध्येयो घंटाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिंगजटाधरः ॥ 154 ॥
प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ 155 ॥
बलसंरंभशमनो बलदर्शितपांडवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ 156 ॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खांडवप्रीणितार्चिष्मान्मयदानवमोचनः ॥ 157 ॥
सुलभो राजसूयार्हयुधिष्ठिरनियोजकः ।
भीमार्दितजरासंधो मागधात्मजराज्यदः ॥ 158 ॥
राजबंधननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः ॥ 159 ॥
सर्वात्मार्थसमाहर्ता मंदराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः ॥ 160 ॥
बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलांतकः ।
दशग्रीवांतको जेता रेवतीप्रेमवल्लभः ॥ 161 ॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ 162 ॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ 163 ॥
नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविंदः पुंडरीकाक्षो विष्णुश्च मधुसूदनः ॥ 164 ॥
त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् ।
हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ 165 ॥
दामोदरश्चतुर्व्यूहः पांचालीमानरक्षणः ।
साल्वघ्नस्समरश्लाघी दंतवक्त्रनिबर्हणः ॥ 166 ॥
दामोदरप्रियसखा पृथुकास्वादनप्रियः ॥
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ 167 ॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपांडवालोकनो जयी ॥ 168 ॥
पार्थसारथ्यनिरतः प्राज्ञः पांडवदूत्यकृत् ।
विदुरातिथ्यसंतुष्टः कुंतीसंतोषदायकः ॥ 169 ॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित् ।
विदुराभिष्ठुतो नित्यो वार्ष्णेयो मंगलात्मकः ॥ 170 ॥
पंचविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक् ।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः ॥ 171 ॥
अचिंत्यो मधुरालापस्साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेंद्रक्षयेक्षिता ॥ 172 ॥
उपेंद्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः ॥ 173 ॥
वरशीलश्शिवारंभस्सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः ॥ 174 ॥
धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनंजयः ॥ 175 ॥
सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ 176 ॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ 177 ॥
सुजातानंतमहिमा स्वप्नव्यापारितार्जुनः ।
अकालसंध्याघटनश्चक्रांतरितभास्करः ॥ 178 ॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिंधुराजशिरःपातस्थानवक्ता विवेकदृक् ॥ 179 ॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पांडवोत्सवदायकः ॥ 180 ॥
अंगुष्ठाक्रांतकौंतेयरथश्शक्तोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥ 181 ॥
अश्वत्थामवधायासत्रातपांडुसुतः कृती ।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ 182 ॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः ।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥ 183 ॥
भीष्मबुद्धिप्रदश्शांतश्शरच्चंद्रनिभाननः ।
गदाग्रजन्मा पांचालीप्रतिज्ञापरिपालकः ॥ 184 ॥
गांधारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः ॥ 185 ॥
शांतश्शांतनवोदीर्णसर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ 186 ॥
प्रसादपरमोदारो गांगेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ 187 ॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः ॥ 188 ॥
उत्तंकहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतस्सर्वभावनः ॥ 189 ॥
असोढयादवोद्रेको विहिताप्तादिपूजनः ॥
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ 190 ॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः ॥ 191 ॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ।
सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः ॥ 192 ॥
वेलाकाननसंचारी वेलानिलहृतश्रमः ।
कालात्मा यादवोऽनंतस्स्तुतिसंतुष्टमानसः ॥ 193 ॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः ॥ 194 ॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः ॥ 195 ॥
स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ 196 ॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः ॥ 197 ॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ 198 ॥
व्याधेषुविद्धपूज्यांघ्रिर्निषादभयमोचनः ।
पुलिंदस्तुतिसंतुष्टः पुलिंदसुगतिप्रदः ॥ 199 ॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुंदुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ 200 ॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ 201 ॥
श्रीपरमात्मा परात्परः ॐ नमः इति ।
फलश्रुतिः –
इदं सहस्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।
अनंतरूपी भगवान् व्याख्यातादौ स्वयंभुवे ॥ 202 ॥
तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः ।
व्यासाय तेन संप्रोक्तं शुको व्यासादवाप्तवान् ॥ 203 ॥
तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ 204 ॥
इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयंत्येनं तीर्थक्षेत्रादिदेवताः ॥ 205 ॥
प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम् ।
तानि पापानि नश्यंति सकृदस्य प्रशंसनात् ॥ 206 ॥
ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।
ऋषेस्त्रिमूर्तिरूपस्य फलं विंदेदिदं पठन् ॥ 207 ॥
इदं नामसहस्रं यः पठत्येतच्छृणोति च ।
शिवलिंगसहस्रस्य स प्रतिष्ठाफलं लभेत् ॥ 208 ॥
इदं किरीटी संजप्य जयी पाशुपतास्त्रभाक् ।
कृष्णस्य प्राणभूतस्सन् कृष्णं सारथिमाप्तवान् ॥ 209 ॥
द्रौपद्या दमयंत्या च सावित्र्या च सुशीलया ।
दुरितानि जितान्येतज्जपादाप्तं च वांछितम् ॥ 210 ॥
किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।
ब्रह्मानंदमवाप्यांते कृष्णसायूज्यमाप्नुयात् ॥ 211 ॥
वारंवार विचारले जाणारे प्रश्न
What is श्री कृष्ण सहस्र नाम स्तोत्रम्?
श्री कृष्ण सहस्र नाम स्तोत्रम् is a Sri Krishna Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read श्री कृष्ण सहस्र नाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री कृष्ण सहस्र नाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.