शत रुद्रीयम्


व्यास उवाच

प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1

ईशानां वरदं पार्थ दृष्णवानसि शंकरम् ।
तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2

महादेवं महात्मान मीशानं जटिलं शिवम् ।
त्य्रक्षं महाभुजं रुद्रं शिखिनं चीरवासनम् ॥ 3

महादेवं हरं स्थाणुं वरदं भवनेश्वरम् ।
जगत्र्पाधानमधिकं जगत्प्रीतमधीश्वरम् ॥ 4

जगद्योनिं जगद्द्वीपं जयनं जगतो गतिम् ।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ 5

विश्वेश्वरं विश्ववरं कर्माणामीश्वरं प्रभुम् ।
शंभुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम् ॥ 6

योगं योगेश्वरं शर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्टं जगच्छ्रेष्टं वरिष्टं परमेष्ठिनम् ॥ 7

लोकत्रय विधातारमेकं लोकत्रयाश्रयम् ।
सुदुर्जयं जगन्नाथं जन्ममृत्यु जरातिगम् ॥ 8

ज्ञानात्मानां ज्ञानगम्यं ज्ञानश्रेष्ठं सुदर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ 9

तस्य पारिषदा दिव्यारूपै र्नानाविधै र्विभोः ।
वामना जटिला मुंडा ह्रस्वग्रीव महोदराः ॥ 10

महाकाया महोत्साहा महाकर्णास्तदा परे ।
आननैर्विकृतैः पादैः पार्थवेषैश्च वैकृतैः ॥ 11

ईदृशैस्स महादेवः पूज्यमानो महेश्वरः ।
सशिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ 12

तस्मिन् घोरे सदा पार्थ संग्रामे रोमहर्षिणे ।
द्रौणिकर्ण कृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ 13

कस्तां सेनां तदा पार्ध मनसापि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ 14

प्थातुमुत्सहते कश्चिन्नतस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 15

गंधे नापि हि संग्रामे तस्य कृद्दस्य शत्रवः ।
विसंज्ञा हत भूयिष्टा वेपंतिच पतंति च ॥ 16

तस्मै नमस्तु कुर्वंतो देवा स्तिष्ठंति वैदिवि ।
ये चान्ये मानवा लोके येच स्वर्गजितो नराः ॥ 17

ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
इह लोके सुखं प्राप्यते यांति परमां गतिम् ॥ 18

नमस्कुरुष्व कौंतेय तस्मै शांताय वै सदा ।
रुद्राय शितिकंठाय कनिष्ठाय सुवर्चसे ॥ 19

कपर्दिने करलाय हर्यक्षवरदायच ।
याम्यायरक्तकेशाय सद्वृत्ते शंकरायच ॥ 20

काम्याय हरिनेत्राय स्थाणुवे पुरुषायच ।
हरिकेशाय मुंडाय कनिष्ठाय सुवर्चसे ॥ 21

भास्कराय सुतीर्थाय देवदेवाय रंहसे ।
बहुरूपाय प्रियाय प्रियवाससे ॥ 22

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीडुषे ।
गिरीशीय सुशांताय पतये चीरवाससे ॥ 23

हिरण्यबाहवे राजन्नुग्राय पतयेदिशाम् ।
पर्जन्यपतयेचैव भूतानां पतये नमः ॥ 24

वृक्षाणां पतयेचैव गवां च पतये तथा ।
वृक्षैरावृत्तकायाय सेनान्ये मध्यमायच ॥ 25

स्रुवहस्ताय देवाय धन्विने भार्गवाय च ।
बहुरूपाय विश्वस्य पतये मुंजवाससे ॥ 26

सहस्रशिरसे चैव सहस्र नयनायच ।
सहस्रबाहवे चैव सहस्र चरणाय च ॥ 27

शरणं गच्छ कौंतेय वरदं भुवनेश्वरम् ।
उमापतिं विरूपाक्षं दक्षं यज्ञनिबर्हणम् ॥ 28

प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ।
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ 29

वृषदर्पं वृषपतिं वृषशृंगं वृषर्षभम् ।
वृषाकं वृषभोदारं वृषभं वृषभेक्षणम् ॥ 30

वृषायुधं वृषशरं वृषभूतं महेश्वरम् ।
महोदरं महाकायं द्वीपचर्मनिवासिनम् ॥ 31

लोकेशं वरदं मुंडं ब्राह्मण्यं ब्राह्मणप्रियम् ।
त्रिशूलपाणिं वरदं खड्गचर्मधरं शुभम् ॥ 32

पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम् ।
प्रपद्ये शरणं देवं शरण्यं चीरवासनम् ॥ 33

नमस्तस्मै सुरेशाय यस्य वैश्रवणस्सखा ।
सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ 34

धनुर्धराय देवाय प्रियधन्वाय धन्विने ।
धन्वंतराय धनुषे धन्वाचार्याय ते नमः ॥ 35

उग्रायुधाय देवाय नमस्सुरवराय च ।
नमोऽस्तु बहुरूपाय नमस्ते बहुदन्विने ॥ 36

नमोऽस्तु स्थाणवे नित्यंनमस्तस्मै सुधन्विने ।
नमोऽस्तु त्रिपुरघ्नाय भवघ्नाय च वै नमः ॥ 37

वनस्पतीनां पतये नराणां पतये नमः ।
मातॄणां पतये चैव गणानां पतये नमः ॥ 38

गवां च पतये नित्यं यज्ञानां पतये नमः ।
अपां च पतये नित्यं देवानां पतये नमः ॥ 39

पूष्णो दंतविनाशाय त्र्यक्षाय वरदायच ।
हराय नीलकंठाय स्वर्णकेशाय वै नमः ॥ 40

ॐ शांतिः ॐ शांतिः ॐ शांतिः

वारंवार विचारले जाणारे प्रश्न

What is शत रुद्रीयम्?

शत रुद्रीयम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read शत रुद्रीयम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download शत रुद्रीयम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook