नित्य पारायण श्लोकाः


प्रभात श्लोकः
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्​शनम् ॥
[पाठभेदः – करमूले तु गोविंदः प्रभाते करदर्​शनम् ॥]

प्रभात भूमि श्लोकः
समुद्र वसने देवी पर्वत स्तन मंडले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्​शं क्षमस्वमे ॥

सूर्योदय श्लोकः
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥

स्नान श्लोकः
गंगे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥

नमस्कार श्लोकः
त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥

भस्म धारण श्लोकः
श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥

भोजन पूर्व श्लोकाः
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ॥

अहं-वैँश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥

अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे ।
ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ॥

त्वदीयं-वँस्तु गोविंद तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥

भोजनानंतर श्लोकः
अगस्त्यं-वैँनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ॥

संध्या दीप दर्​शन श्लोकः
दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥

शुभं करोति कल्याणं आरोग्यं धनसंपदः ।
शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ॥

निद्रा/शयन श्लोकः
रामं स्कंदं हनुमंतं-वैँनतेयं-वृँकोदरम् ।
शयने यः स्मरेन्नित्यं दुस्वप्न-स्तस्यनश्यति ॥

अपराध क्षमापण स्तोत्रं
अपराध सहस्राणि, क्रियंतेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वर ॥

करचरण कृतं-वाँ कर्म वाक्कायजं-वाँ
श्रवण नयनजं-वाँ मानसं-वाँपराधम् ।
विहित मविहितं-वाँ सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शंभो ॥

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥

देवता स्तोत्राः

कार्य प्रारंभ स्तोत्राः
शुक्लां बरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥

यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नंतु सततं-विँष्वक्सेनं तमाश्रये ॥

गणेश स्तोत्रं
वक्रतुंड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदं-तं भक्तानाम्-एकदंत-मुपास्महे ॥

विष्णु स्तोत्रं
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं-योँगिहृद्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

गायत्रि मंत्रं
ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे᳚ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥

शिव स्तोत्रं
त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्-मृत्यो॑र्-मुक्षीय॒ माऽमृता᳚त् ॥

वंदे शंभुमुमापतिं सुरगुरुं-वंँदे जगत्कारणं
वंदे पन्नगभूषणं शशिधरं-वंँदे पशूनां पतिम्‌ ।
वंदे सूर्यशशांक वह्निनयनं-वंँदे मुकुंदप्रियं
वंदे भक्तजनाश्रयं च वरदं-वंँदे शिवं शंकरम्‌ ॥

सुब्रह्मण्य स्तोत्रं
शक्तिहस्तं-विँरूपाक्षं शिखिवाहं षडाननं
दारुणं रिपुरोगघ्नं भावये कुक्कुट ध्वजम् ।
स्कंदं षण्मुखं देवं शिवतेजं चतुर्भुजं
कुमारं स्वामिनाधं तं कार्तिकेयं नमाम्यहम् ॥

गुरु श्लोकः
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

हनुम स्तोत्राः
मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां-वँरिष्टम् ।
वातात्मजं-वाँनरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥

बुद्धिर्बलं-यँशोधैर्यं निर्भयत्वमरोगता ।
अजाड्यं-वाँक्पटुत्वं च हनुमस्स्मरणाद्-भवेत् ॥

जयत्यति बलो रामो लक्ष्मणस्य महाबलः ।
राजा जयति सुग्रीवो राघवेणाभि पालितः ॥

दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्ट कर्मणः ।
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥

श्रीराम स्तोत्रां
श्री राम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने

श्री रामचंद्रः श्रितपारिजातः समस्त कल्याण गुणाभिरामः ।
सीतामुखांभोरुहा-चंचरीको निरंतरं मंगलमातनोतु ॥

श्रीकृष्ण स्तोत्रं
मंदारमूले मदनाभिरामं
बिंबाधरापूरित वेणुनादम् ।
गोगोप गोपीजन मध्यसंस्थं
गोपं भजे गोकुल पूर्णचंद्रम् ॥

गरुड स्वामि स्तोत्रं
कुंकुमांकितवर्णाय कुंदेंदु धवलाय च ।
विष्णु वाह नमस्तुभ्यं पक्षिराजाय ते नमः ॥

दक्षिणामूर्ति स्तोत्रं
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ॥

सरस्वती श्लोकः
सरस्वती नमस्तुभ्यं-वँरदे कामरूपिणी ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥

या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता [वस्त्रान्विता] ।
या वीणा वरदंड मंडित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥

लक्ष्मी श्लोकः
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां-लोँकैक दीपांकुराम् ।
श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां-वंँदे मुकुंदप्रियाम् ॥

दुर्गा देवी स्तोत्रं
सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गेदेवि नमोस्तुते ॥

त्रिपुरसुंदरी स्तोत्रं
ॐकार पंजर शुकीं उपनिषदुद्यान केलि कलकंठीम् ।
आगम विपिन मयूरीं आर्यां अंतर्विभावयेद्गौरीम् ॥

देवी श्लोकः
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥

वेंकटेश्वर श्लोकः
श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेंकट निवासाय श्रीनिवासाय मंगलम् ॥

बौद्ध प्रार्थन
बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
संघं शरणं गच्छामि

शांति मंत्रं
असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतंगमया ।
ॐ शांतिः शांतिः शांतिः

सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥
ॐ शांतिः शांतिः शांतिः

ॐ सर्वेषां स्वस्तिर्भवतु,
सर्वेषां शांतिर्भवतु ।
सर्वेषां पूर्णं भवतु,
सर्वेषां मंगलं भवतु ।
ॐ शांतिः शांतिः शांतिः

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

स्वस्ति मंत्राः
स्वस्ति प्रजाभ्यः परिपालयंतां
न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं
लोका-स्समस्ता-स्सुखिनो भवंतु ॥

काले वर्​षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोयं क्षोभरहितो ब्राह्मणास्संतु निर्भयाः ॥

विशेष मंत्राः
पंचाक्षरी मंत्रं – ॐ नमश्शिवाय
अष्टाक्षरी मंत्रं – ॐ नमो नारायणाय
द्वादशाक्षरी मंत्रं – ॐ नमो भगवते वासुदेवाय

वारंवार विचारले जाणारे प्रश्न

What is नित्य पारायण श्लोकाः?

नित्य पारायण श्लोकाः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read नित्य पारायण श्लोकाः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नित्य पारायण श्लोकाः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook