नारायणीयं दशक 94 – तत्त्वज्ञानोत्पत्तिः
शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं ते
शुद्धं देहेंद्रियादिव्यपगतमखिलव्याप्तमावेदयंते ।
नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्संगतोऽध्यासितं ते
वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशांततादि ॥1॥
आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार-
ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।
कर्मालीवासनातत्कृततनुभुवनभ्रांतिकांतारपूरे
दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥2॥
एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो
नैकांतात्यंतिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।
दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता
मत्तास्त्वां विस्मरंतः प्रसजति पतने यांत्यनंतान् विषादान्॥3॥
त्वल्लोकादन्यलोकः क्वनु भयरहितो यत् परार्धद्वयांते
त्वद्भीतस्सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ ।
एवं भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां
तन्मे त्वं छिंधि बंधं वरद् कृपणबंधो कृपापूरसिंधो ॥4॥
याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बंधमोक्षौ
मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।
बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको
भुंक्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥5॥
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे
तन्नामाशुद्धबुद्धेर्न च लघु मनसश्शोधनं भक्तितोऽन्यत् ।
तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं
येन स्यां मंक्षु किंचिद् गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥6॥
शब्द्ब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानंति केचित्
कष्टं वंध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् ।
यस्यां विश्वाभिरामास्सकलमलहरा दिव्यलीलावताराः
सच्चित्सांद्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥7॥
यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम्-
न्नेवंचानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् ।
त्वल्लिंगानां त्वदंघ्रिप्रियजनसदसां दर्शनस्पर्शनादि-
र्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥8॥
यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहं
त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां
त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यंदतां भक्तियोगः ॥9॥
ऐक्यं ते दानहोमव्रतनियमतपस्सांख्ययोगैर्दुरापं
त्वत्संगेनैव गोप्यः किल सुकृतितमा प्रापुरानंदसांद्रम् ।
भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण वातालयेश ॥10॥
वारंवार विचारले जाणारे प्रश्न
What is नारायणीयं दशक 94 - तत्त्वज्ञानोत्पत्तिः?
नारायणीयं दशक 94 - तत्त्वज्ञानोत्पत्तिः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 94 - तत्त्वज्ञानोत्पत्तिः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 94 - तत्त्वज्ञानोत्पत्तिः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.