नारायणीयं दशक 89 – वृकासुरवधं – भृगुपरीक्षणम्


रमाजाने जाने यदिह तव भक्तेषु विभवो
न सद्यस्संपद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशांतिं कृत्वैव प्रदिशसि ततः काममखिलं
प्रशांतेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥1॥

सद्यः प्रसादरुषितान् विधिशंकरादीन्
केचिद्विभो निजगुणानुगुणं भजंतः ।
भ्रष्टा भवंति बत कष्टमदीर्घदृष्ट्या
स्पष्टं वृकासुर उदाहरणं किलास्मिन् ॥2॥

शकुनिजः स तु नारदमेकदा
त्वरिततोषमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं
न तु भवंतमबंधुमसाधुषु ॥3॥

तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने
शिरः छित्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥4॥

मोक्तारं बंधमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं
दैत्यात् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यंतमुद्वीक्ष्य शर्वं
दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥5॥

भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा
संदेहश्चेन्मदुक्तौ तव किमु न करोष्यंगुलीमंगमौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥6॥

भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
स्त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ
हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥7॥

सुप्तं रमांकभुवि पंकजलोचनं त्वां
विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य भवेत् सदा मे
त्वत्पादचिन्हमिह भूषणमित्यवादीः ॥8॥

निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत पुनश्च्युतिदोषहीनं
सत्त्वोच्चयैकतनुमेव वयं भजामः ॥9॥

जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वंदिभिरिव
स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन् पशुपवनिताभाग्यनिवहं
परितापश्रांत्यै पवनपुरवासिन् परिभजे ॥10॥

वारंवार विचारले जाणारे प्रश्न

What is नारायणीयं दशक 89 - वृकासुरवधं - भृगुपरीक्षणम्?

नारायणीयं दशक 89 - वृकासुरवधं - भृगुपरीक्षणम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 89 - वृकासुरवधं - भृगुपरीक्षणम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 89 - वृकासुरवधं - भृगुपरीक्षणम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook