नारायणीयं दशक 81 – नरकासुरवधं तथा सुभद्राहरणम्
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां
यातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।
पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां
सशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥1॥
भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।
तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं
शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥2॥
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा
तां कालिंदीं नगरमगमः खांडवप्रीणिताग्निः ।
भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं
राज्ञां मध्ये सपदि जहृषे मित्रविंदामवंतीम् ॥3॥
सत्यां गत्वा पुनरुदवहो नग्नजिन्नंदनां तां
बध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् ।
भद्रां नाम प्रददुरथ ते देव संतर्दनाद्या-
स्तत्सोदर्या वरद भवतः साऽपि पैतृष्वसेयी ॥4॥
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
लक्षं छित्वा शफरमवृथा लक्ष्मणां मद्रकन्याम् ।
अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये
शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥5॥
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
वहन्नंके भामामुपवनमिवारातिभवनम् ।
विभिंदन् दुर्गाणि त्रुटितपृतनाशोणितरसैः
पुरं तावत् प्राग्ज्योतिषमकुरुथाः शोणितपुरम् ॥6॥
मुरस्त्वां पंचास्यो जलधिवनमध्यादुदपतत्
स चक्रे चक्रेण प्रदलितशिरा मंक्षु भवता ।
चतुर्दंतैर्दंतावलपतिभिरिंधानसमरं
रथांगेन छित्वा नरकमकरोस्तीर्णनरकम् ॥7॥
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
गजंचैकं दत्वा प्रजिघयिथ नागान्निजपुरीम् ।
खलेनाबद्धानां स्वगतमनसां षोडश पुनः
सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥8॥
भौमापाहृतकुंडलं तददितेर्दातुं प्रयातो दिवं
शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्रिया ।
हृत्वा कल्पतरुं रुषाभिपतितं जित्वेंद्रमभ्यागम-
स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥9॥
कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषाः
स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदैः ।
आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥10॥
वारंवार विचारले जाणारे प्रश्न
What is नारायणीयं दशक 81 - नरकासुरवधं तथा सुभद्राहरणम्?
नारायणीयं दशक 81 - नरकासुरवधं तथा सुभद्राहरणम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 81 - नरकासुरवधं तथा सुभद्राहरणम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 81 - नरकासुरवधं तथा सुभद्राहरणम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.