नारायणीयं दशक 58 – दावाग्निसंरक्षणं तथा ऋतुवर्णनम्
त्वयि विहरणलोले बालजालैः प्रलंब-
प्रमथनसविलंबे धेनवः स्वैरचाराः ।
तृणकुतुकनिविष्टा दूरदूरं चरंत्यः
किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥1॥
अनधिगतनिदाघक्रौर्यवृंदावनांतात्
बहिरिदमुपयाताः काननं धेनवस्ताः ।
तव विरहविषण्णा ऊष्मलग्रीष्मताप-
प्रसरविसरदंभस्याकुलाः स्तंभमापुः ॥2॥
तदनु सह सहायैर्दूरमन्विष्य शौरे
गलितसरणिमुंजारण्यसंजातखेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा-
त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृंभे ॥3॥
सकलहरिति दीप्ते घोरभांकारभीमे
शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनबंधो पाहि पाहीति सर्वे
शरणमुपगतास्त्वां तापहर्तारमेकम् ॥4॥
अलमलमतिभीत्या सर्वतो मीलयध्वं
दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
क्व नु दवदहनोऽसौ कुत्र मुंजाटवी सा
सपदि ववृतिरे ते हंत भांडीरदेशे ॥5॥
जय जय तव माया केयमीशेति तेषां
नुतिभिरुदितहासो बद्धनानाविलासः ।
पुनरपि विपिनांते प्राचरः पाटलादि-
प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥6॥
त्वयि विमुखमिवोच्चैस्तापभारं वहंतं
तव भजनवदंतः पंकमुच्छोषयंतम् ।
तव भुजवदुदंचद्भूरितेजःप्रवाहं
तपसमयमनैषीर्यामुनेषु स्थलेषु ॥7॥
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि-
र्विकसदमलविद्युत्पीतवासोविलासैः ।
सकलभुवनभाजां हर्षदां वर्षवेलां
क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥8॥
कुहरतलनिविष्टं त्वां गरिष्ठं गिरींद्रः
शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
स्फुटकुटजकदंबस्तोमपुष्पांजलिं च
प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥9॥
अथ शरदमुपेतां तां भवद्भक्तचेतो-
विमलसलिलपूरां मानयन् काननेषु ।
तृणममलवनांते चारु संचारयन् गाः
पवनपुरपते त्वं देहि मे देहसौख्यम् ॥10॥
वारंवार विचारले जाणारे प्रश्न
What is नारायणीयं दशक 58 - दावाग्निसंरक्षणं तथा ऋतुवर्णनम्?
नारायणीयं दशक 58 - दावाग्निसंरक्षणं तथा ऋतुवर्णनम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 58 - दावाग्निसंरक्षणं तथा ऋतुवर्णनम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 58 - दावाग्निसंरक्षणं तथा ऋतुवर्णनम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.