नारायणीयं दशक 52 – वत्सस्तेयं तथा ब्रह्मगर्वशमनम्
अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥1॥
वत्सानवीक्ष्य विवशे पशुपोत्करे ता-
नानेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्तकबलो गतवांस्तदानीं
भुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥2॥
वत्सायितस्तदनु गोपगणायितस्त्वं
शिक्यादिभांडमुरलीगवलादिरूपः ।
प्राग्वद्विहृत्य विपिनेषु चिराय सायं
त्वं माययाऽथ बहुधा व्रजमाययाथ ॥3॥
त्वामेव शिक्यगवलादिमयं दधानो
भूयस्त्वमेव पशुवत्सकबालरूपः ।
गोरूपिणीभिरपि गोपवधूमयीभि-
रासादितोऽसि जननीभिरतिप्रहर्षात् ॥4॥
जीवं हि कंचिदभिमानवशात्स्वकीयं
मत्वा तनूज इति रागभरं वहंत्यः ।
आत्मानमेव तु भवंतमवाप्य सूनुं
प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥5॥
एवं प्रतिक्षणविजृंभितहर्षभार-
निश्शेषगोपगणलालितभूरिमूर्तिम् ।
त्वामग्रजोऽपि बुबुधे किल वत्सरांते
ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥6॥
वर्षावधौ नवपुरातनवत्सपालान्
दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
प्रादीदृशः प्रतिनवान् मकुटांगदादि
भूषांश्चतुर्भुजयुजः सजलांबुदाभान् ॥7॥
प्रत्येकमेव कमलापरिलालितांगान्
भोगींद्रभोगशयनान् नयनाभिरामान् ।
लीलानिमीलितदृशः सनकादियोगि-
व्यासेवितान् कमलभूर्भवतो ददर्श ॥8॥
नारायणाकृतिमसंख्यतमां निरीक्ष्य
सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
मायानिमग्नहृदयो विमुमोह याव-
देको बभूविथ तदा कबलार्धपाणिः ॥9॥
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
नत्वा च नूतवति धातरि धाम याते ।
पोतैः समं प्रमुदितैः प्रविशन् निकेतं
वातालयाधिप विभो परिपाहि रोगात् ॥10॥
वारंवार विचारले जाणारे प्रश्न
What is नारायणीयं दशक 52 - वत्सस्तेयं तथा ब्रह्मगर्वशमनम्?
नारायणीयं दशक 52 - वत्सस्तेयं तथा ब्रह्मगर्वशमनम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 52 - वत्सस्तेयं तथा ब्रह्मगर्वशमनम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 52 - वत्सस्तेयं तथा ब्रह्मगर्वशमनम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.