नारायणीयं दशक 33 – अंबरीषचरितम्


वैवस्वताख्यमनुपुत्रनभागजात-
नाभागनामकनरेंद्रसुतोऽंबरीषः ।
सप्तार्णवावृतमहीदयितोऽपि रेमे
त्वत्संगिषु त्वयि च मग्नमनास्सदैव ॥1॥

त्वत्प्रीतये सकलमेव वितन्वतोऽस्य
भक्त्यैव देव नचिरादभृथाः प्रसादम् ।
येनास्य याचनमृतेऽप्यभिरक्षणार्थं
चक्रं भवान् प्रविततार सहस्रधारम् ॥2॥

स द्वादशीव्रतमथो भवदर्चनार्थं
वर्षं दधौ मधुवने यमुनोपकंठे ।
पत्न्या समं सुमनसा महतीं वितन्वन्
पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥3॥

तत्राथ पारणदिने भवदर्चनांते
दुर्वाससाऽस्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्चस नृपेण परार्तिशीलो
मंदं जगाम यमुनां नियमान्विधास्यन् ॥4॥

राज्ञाऽथ पारणमुहूर्तसमाप्तिखेदा-
द्वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥5॥

कृत्यां च तामसिधरां भुवनं दहंती-
मग्रेऽभिवीक्ष्यनृपतिर्न पदाच्चकंपे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥6॥

धावन्नशेषभुवनेषु भिया स पश्यन्
विश्वत्र चक्रमपि ते गतवान् विरिंचम् ।
कः कालचक्रमतिलंघयतीत्यपास्तः
शर्वं ययौ स च भवंतमवंदतैव ॥7॥

भूयो भवन्निलयमेत्य मुनिं नमंतं
प्रोचे भवानहमृषे ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं
याह्यंबरीषपदमेव भजेति भूमन् ॥8॥

तावत्समेत्य मुनिना स गृहीतपादो
राजाऽपसृत्य भवदस्त्रमसावनौषीत् ।
चक्रे गते मुनिरदादखिलाशिषोऽस्मै
त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥9॥

राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
संभोज्य साधु तमृषिं विसृजन् प्रसन्नम् ।
भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभू-
त्सायुज्यमाप च स मां पवनेश पायाः ॥10॥

वारंवार विचारले जाणारे प्रश्न

What is नारायणीयं दशक 33 - अंबरीषचरितम्?

नारायणीयं दशक 33 - अंबरीषचरितम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 33 - अंबरीषचरितम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 33 - अंबरीषचरितम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook