नारायणीयं दशक 20 – ऋषभयोगीश्वरचरितम्
प्रियव्रतस्य प्रियपुत्रभूता-
दाग्नीध्रराजादुदितो हि नाभिः ।
त्वां दृष्टवानिष्टदमिष्टिमध्ये
तवैव तुष्ट्यै कृतयज्ञकर्मा ॥1॥
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं
राज्ञः स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्येऽहमिति ब्रुवाण-
स्तिरोदधा बर्हिषि विश्वमूर्ते ॥2॥
नाभिप्रियायामथ मेरुदेव्यां
त्वमंशतोऽभूः ॠषभाभिधानः ।
अलोकसामान्यगुणप्रभाव-
प्रभाविताशेषजनप्रमोदः ॥3॥
त्वयि त्रिलोकीभृति राज्यभारं
निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी
गतः किलानंदपदं पदं ते ॥4॥
इंद्रस्त्वदुत्कर्षकृतादमर्षा-
द्ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या
स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥5॥
जितेंद्रदत्तां कमनीं जयंती-
मथोद्वहन्नात्मरताशयोऽपि ।
अजीजनस्तत्र शतं तनूजा-
नेषां क्षितीशो भरतोऽग्रजन्मा ॥6॥
नवाभवन् योगिवरा नवान्ये
त्वपालयन् भारतवर्षखंडान् ।
सैका त्वशीतिस्तव शेषपुत्र-
स्तपोबलात् भूसुरभूयमीयुः ॥7॥
उक्त्वा सुतेभ्योऽथ मुनींद्रमध्ये
विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहंस्यवृत्ति-
मधा जडोन्मत्तपिशाचचर्याम् ॥8॥
परात्मभूतोऽपि परोपदेशं
कुर्वन् भवान् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां
महीमहीनात्मरसाभिलीनः ॥9॥
शयुव्रतं गोमृगकाकचर्यां
चिरं चरन्नाप्य परं स्वरूपम् ।
दवाहृतांगः कुटकाचले त्वं
तापान् ममापाकुरु वातनाथ ॥10॥
वारंवार विचारले जाणारे प्रश्न
What is नारायणीयं दशक 20 - ऋषभयोगीश्वरचरितम्?
नारायणीयं दशक 20 - ऋषभयोगीश्वरचरितम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 20 - ऋषभयोगीश्वरचरितम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 20 - ऋषभयोगीश्वरचरितम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.