नारायणीयं दशक 19 – प्रचेतृणां चरितम्
पृथोस्तु नप्ता पृथुधर्मकर्मठः
प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतसः सुता-
नजीजनत्त्वत्करुणांकुरानिव ॥1॥
पितुः सिसृक्षानिरतस्य शासनाद्-
भवत्तपस्याभिरता दशापि ते
पयोनिधिं पश्चिममेत्य तत्तटे
सरोवरं संददृशुर्मनोहरम् ॥2॥
तदा भवत्तीर्थमिदं समागतो
भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसा-
मुपादिशत् भक्ततमस्तव स्तवम् ॥3॥
स्तवं जपंतस्तममी जलांतरे
भवंतमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान्
बभूव कालो ध्रुववन्न शीघ्रता ॥4॥
तपोभिरेषामतिमात्रवर्धिभिः
स यज्ञहिंसानिरतोऽपि पावितः ।
पिताऽपि तेषां गृहयातनारद-
प्रदर्शितात्मा भवदात्मतां ययौ ॥5॥
कृपाबलेनैव पुरः प्रचेतसां
प्रकाशमागाः पतगेंद्रवाहनः ।
विराजि चक्रादिवरायुधांशुभि-
र्भुजाभिरष्टाभिरुदंचितद्युतिः ॥6॥
प्रचेतसां तावदयाचतामपि
त्वमेव कारुण्यभराद्वरानदाः ।
भवद्विचिंताऽपि शिवाय देहिनां
भवत्वसौ रुद्रनुतिश्च कामदा ॥7॥
अवाप्य कांतां तनयां महीरुहां
तया रमध्वं दशलक्षवत्सरीम् ।
सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां
प्रयास्यथेति न्यगदो मुदैव तान् ॥8॥
ततश्च ते भूतलरोधिनस्तरून्
क्रुधा दहंतो द्रुहिणेन वारिताः ।
द्रुमैश्च दत्तां तनयामवाप्य तां
त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥9॥
अवाप्य दक्षं च सुतं कृताध्वराः
प्रचेतसो नारदलब्धया धिया ।
अवापुरानंदपदं तथाविध-
स्त्वमीश वातालयनाथ पाहि माम् ॥10॥
वारंवार विचारले जाणारे प्रश्न
What is नारायणीयं दशक 19 - प्रचेतृणां चरितम्?
नारायणीयं दशक 19 - प्रचेतृणां चरितम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 19 - प्रचेतृणां चरितम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 19 - प्रचेतृणां चरितम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.