नारायणीयं दशक 17 – ध्रुवचरितम्
उत्तानपादनृपतेर्मनुनंदनस्य
जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुरनादृता सा
त्वामेव नित्यमगतिः शरणं गताऽभूत् ॥1॥
अंके पितुः सुरुचिपुत्रकमुत्तमं तं
दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।
आचिक्षिपे किल शिशुः सुतरां सुरुच्या
दुस्संत्यजा खलु भवद्विमुखैरसूया ॥2॥
त्वन्मोहिते पितरि पश्यति दारवश्ये
दूरं दुरुक्तिनिहतः स गतो निजांबाम् ।
साऽपि स्वकर्मगतिसंतरणाय पुंसां
त्वत्पादमेव शरणं शिशवे शशंस ॥3॥
आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा
मानी निरेत्य नगरात् किल पंचवर्षः ।
संदृष्टनारदनिवेदितमंत्रमार्ग-
स्त्वामारराध तपसा मधुकाननांते ॥4॥
ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसांत्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन
निन्ये कठोरतपसा किल पंचमासान् ॥5॥
तावत्तपोबलनिरुच्छ्-वसिते दिगंते
देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-
दाविर्बभूविथ विभो गरुडाधिरूढः ॥6॥
त्वद्दर्शनप्रमदभारतरंगितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे
संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥7॥
तावद्विबोधविमलं प्रणुवंतमेन-
माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः
सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥8॥
इत्यूचिषि त्वयि गते नृपनंदनोऽसा-
वानंदिताखिलजनो नगरीमुपेतः ।
रेमे चिरं भवदनुग्रहपूर्णकाम-
स्ताते गते च वनमादृतराज्यभारः ॥9॥
यक्षेण देव निहते पुनरुत्तमेऽस्मिन्
यक्षैः स युद्धनिरतो विरतो मनूक्त्या ।
शांत्या प्रसन्नहृदयाद्धनदादुपेता-
त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥10॥
अंते भवत्पुरुषनीतविमानयातो
मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं
वातालयाधिप निरुंधि ममामयौघान् ॥11॥
वारंवार विचारले जाणारे प्रश्न
What is नारायणीयं दशक 17 - ध्रुवचरितम्?
नारायणीयं दशक 17 - ध्रुवचरितम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 17 - ध्रुवचरितम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 17 - ध्रुवचरितम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.