मुंडक उपनिषद् – प्रथम मुंडक, प्रथम कांडः


ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

॥ ॐ ब्रह्मणे नमः ॥

॥ प्रथममुंडके प्रथमः खंडः ॥

ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता
भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय
ज्येष्ठपुत्राय प्राह ॥ 1॥

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां
पुरोवाचांगिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवाहाय प्राह
भारद्वाजोऽंगिरसे परावराम् ॥ 2॥

शौनको ह वै महाशालोऽंगिरसं-विँधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं-विँज्ञातं भवतीति ॥ 3॥

तस्मै स होवाच ।
द्वे विद्ये वेदितव्ये इति ह स्म
यद्ब्रह्मविदो वदंति परा चैवापरा च ॥ 4॥

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः
शिक्षा कल्पो व्याकरणं निरुक्तं छंदो ज्योतिषमिति ।
अथ परा यया तदक्षरमधिगम्यते ॥ 5॥

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-
मचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं-विँभुं सर्वगतं सुसूक्ष्मं
तदव्ययं-यँद्भूतयोनिं परिपश्यंति धीराः ॥ 6॥

यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः संभवंति ।
यथा सतः पुरुषात् केशलोमानि
तथाऽक्षरात् संभवतीह विश्वम् ॥ 7॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात् प्राणो मनः सत्यं-लोँकाः कर्मसु चामृतम् ॥ 8॥

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ 9॥

॥ इति मुंडकोपनिषदि प्रथममुंडके प्रथमः खंडः ॥

वारंवार विचारले जाणारे प्रश्न

What is मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः?

मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः is a Upanishads available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook