मंत्र मातृका पुष्प माला स्तव


कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-
-द्वीपे कल्पकवाटिकापरिवृते कादंबवाट्युज्ज्वले ।
रत्नस्तंभसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिंतारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ 1 ॥

एणांकानलभानुमंडललसच्छ्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशांकुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुंभवस्त्रान्वितां
तां त्वां चंद्रकलावतंसमकुटां चारुस्मितां भावये ॥ 2 ॥

ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभं
पाद्यं कुंकुमचंदनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ॥ 3 ॥

लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयांबुपटीरकुंकुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मंत्रितैः
स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ 4 ॥

ह्रीं‍कारांकितमंत्रलक्षिततनो हेमाचलात्संचितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुंभवर्णांशुकम् ।
मुक्तासंततियज्ञसूत्रममलं सौवर्णतंतूद्भवं
दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ 5 ॥

हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिंदोलद्युतिहीरपूरिततरे हेमांगदे कंकणे ।
मंजीरौ मणिकुंडले मकुटमप्यर्धेंदुचूडामणिं
नासामौक्तिकमंगुलीयकटकौ कांचीमपि स्वीकुरु ॥ 6 ॥

सर्वांगे घनसारकुंकुमघनश्रीगंधपंकांकितं
कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।
गंडादर्शनमंडले नयनयोर्दिव्यांजनं तेऽंचितं
कंठाब्जे मृगनाभिपंकममलं त्वत्प्रीतये कल्पताम् ॥ 7 ॥

कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपंकेरुहै-
-र्जातीचंपकमालतीवकुलकैर्मंदारकुंदादिभिः ।
केतक्या करवीरकैर्बहुविधैः क्लुप्ताः स्रजो मालिकाः
संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ 8 ॥

हंतारं मदनस्य नंदयसि यैरंगैरनंगोज्ज्वलै-
-र्यैर्भृंगावलिनीलकुंतलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवांब कोमलतराण्यामोदलीलागृहा-
-ण्यामोदाय दशांगगुग्गुलुघृतैर्धूपैरहं धूपये ॥ 9 ॥

लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मंदिरे
मालारूपविलंबितैर्मणिमयस्तंभेषु संभावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै-
-र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥ 10 ॥

ह्रीं‍कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
माषापूपसहस्रमंब सफलं नैवेद्यमावेदये ॥ 11 ॥

सच्छायैर्वरकेतकीदलरुचा तांबूलवल्लीदलैः
पूगैर्भूरिगुणैः सुगंधिमधुरैः कर्पूरखंडोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्रांबुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ 12 ॥

कन्याभिः कमनीयकांतिभिरलंकारामलारार्तिका
पात्रे मौक्तिकचित्रपंक्तिविलसत्कर्पूरदीपालिभिः ।
तत्तत्तालमृदंगगीतसहितं नृत्यत्पदांभोरुहं
मंत्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ 13 ॥

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्त्रं तु धत्ते रसा-
-दिंद्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यंति तद्रागव-
-द्भावैरांगिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ 14 ॥

ह्रीं‍कारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-
-र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेतांबिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ 15 ॥

श्रीमंत्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
संध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्तांभोरुहमंटपे गिरिसुता नृत्तं विधत्ते रसा-
-द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मंगला ॥ 16 ॥

इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयंती सूक्तिसौरभ्यसारैः ।
शिवपदमकरंदस्यंदिनीयं निबद्धा
मदयतु कविभृंगान्मातृकापुष्पमाला ॥ 17 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मंत्रमातृकापुष्पमाला स्तवः ।

वारंवार विचारले जाणारे प्रश्न

What is मंत्र मातृका पुष्प माला स्तव?

मंत्र मातृका पुष्प माला स्तव is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read मंत्र मातृका पुष्प माला स्तव online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download मंत्र मातृका पुष्प माला स्तव as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook