श्री महान्यासम् – 0. कलश प्रतिष्ठापन मंत्राः


ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ ।

नाके॑ सुप॒र्ण मुप॒यत् पतं॑तग्ं हृ॒दा वेनं॑तो अ॒भ्यच॑क्ष-तत्वा ।
हिर॑ण्यपक्षं॒-वँरु॑णस्य दू॒तं-यँ॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ।

आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ।
यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒
भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । 1 (अप उपस्पृश्य)
इ॒दं-विँष्णु॒ र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे ।
इंद्रं॒-विँश्वा॑ अवीवृधंथ् समु॒द्रव्य॑चसं॒ गिरः॑ ।
र॒थीत॑मग्ं रथी॒नां-वाँजा॑ना॒ग्ं॒ सत्प॑तिं॒ पति᳚म् ।
आपो॒ वा इ॒दंग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापो-ऽमृ॑त॒माप॑-स्स॒म्राडापो॑ वि॒राडाप॑-स्स्व॒राडाप॒-श्छंदा॒ग्॒श्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्याप॑-स्स॒त्यमाप॒-स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओम् । 2
अ॒पः प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति ।
य॒ज्ञो वा आपः॑ । य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति ।
वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति ।
आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अ॒पः प्रण॑यति ।
आपो॒ वै दे॒वानां᳚ प्रि॒यं धाम॑ । दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति ।
आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति ।
आपो॒ वै शां॒ताः । शां॒ताभि॑रे॒वास्य॒ शुचग्ं॑ शमयति । दे॒वो वः॑
सवि॒तोत् पु॑ना॒त्व-च्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ॥ 3

कूर्चाग्रै र्राक्षसान् घोरान् छिंधि कर्मविघातिनः ।
त्वामर्पयामि कुंभेऽस्मिन् साफल्यं कुरु कर्मणि ।
वृक्षराज समुद्भूताः शाखायाः पल्लवत्व चः ।
युष्मान् कुंभेष्वर्पयामि सर्वपापापनुत्तये ।
नालिकेर-समुद्भूत त्रिनेत्र हर सम्मित ।
शिखया दुरितं सर्वं पापं पीडां च मे नुद ।
स॒ हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।
तं भा॒गं चि॒त्रमी॑महे । (ऋग्वेद मंत्रः)

तत्वा॑ यामि॒ ब्रह्म॑णा॒ वंद॑मान॒-स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥

ॐ भूर्भुव॒स्सुव॒रोम् । अस्मिन् कुंभे वरुणमावाहयामि ।
वरुणस्य इदमासनम् । वरुणाय नमः । सकलाराधनैः स्वर्चितम् ।
रत्नसिंहासनं समर्पयामि । पाद्यं समर्पयामि ।
अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
मधुपर्क्कं समर्पयामि । स्नानं समर्पयामि ।
स्नानानंतरं आचमनीयं समर्पयामि ।
वस्त्रोत्तरीयं समर्पयामि । उपवीतं समर्पयामि ।
गंधान् धारयामि । अक्षतान् समर्पयामि ।
पुष्पाणि समर्पयामि ।
1. ॐ-वँरुणाय नमः
2. ॐ प्रचेतसे नमः
3. ॐ सुरूपिणे नमः
4. ॐ अपांपतये नमः
5. ॐ मकरवाहनाय नमः
6. जलाधिपतये नमः
7. ॐ पाशहस्ताय नमः
8. ॐ तीर्थराजाय नमः

ॐ-वँरुणाय नमः । नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
धूपं आघ्रापयामि । दीपं दर्​शयामि ।
धूपदीपानंतरं आचमनीयं समर्पयामि ।
ॐ भूर्भुवस्सुवः । तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ योन॑ प्रचो॒दया᳚त् ।
देव सवितः प्रसुवः । सत्यं त्वर्तेन परिषिंचामि ।
(रात्रौ – ऋतं त्वा सत्येन परिषिंचामि) ।
ॐ-वँरुणाय नमः । अमृतं भवतु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ-व्याँनाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा ।
कदलीफलं निवेदयामि । मद्ध्येमद्ध्ये अमृतपानीयं समर्पयामि । अमृतापिधानमसि । नैवेद्यानंतरं आचमनीयं समर्पयामि ।
तांबूलं समर्पयामि । कर्पूर नीराजनं प्रदर्​शयामि ।
नीराजनानंतरं आचमनीयं समर्पयामि । मंत्र पुष्पं समर्पयामि ।
सुवर्ण पुष्पं समर्पयामि । समस्तोपचारान् समर्पयामि ॥

वारंवार विचारले जाणारे प्रश्न

What is श्री महान्यासम् - 0. कलश प्रतिष्ठापन मंत्राः?

श्री महान्यासम् - 0. कलश प्रतिष्ठापन मंत्राः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read श्री महान्यासम् - 0. कलश प्रतिष्ठापन मंत्राः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री महान्यासम् - 0. कलश प्रतिष्ठापन मंत्राः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook