महाशाश्ता अनुग्रह कवचम्
श्रीदेव्युवाच-
भगवन् देवदेवेश सर्वज्ञ त्रिपुरांतक ।
प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ 1
महाव्याधि महाव्याल घोरराजैः समावृते ।
दुःस्वप्नशोकसंतापैः दुर्विनीतैः समावृते ॥ 2
स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा ।
तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषद्वज ॥ 3
ईश्वर उवाच-
शृणु देवि महाभागे सर्वकल्याणकारणे ।
महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ 4
अग्निस्तंभ जलस्तंभ सेनास्तंभ विधायकम् ।
महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ 5
महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् ।
सर्वरक्षोत्तमं पुंसां आयुरारोग्यवर्धनम् ॥ 6
किमतो बहुनोक्तेन यं यं कामयते द्विजः ।
तं तमाप्नोत्यसंदेहो महाशास्तुः प्रसादनात् ॥ 7
कवचस्य ऋषिर्ब्रह्मा गायत्रीः छंद उच्यते ।
देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ 8
षडंगमाचरेद्भक्त्या मात्रया जातियुक्तया ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ 9
अस्य श्री महाशास्तुः कवचमंत्रस्य । ब्रह्मा ऋषिः । गायत्रीः छंदः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ह्रां इत्यादि षडंगन्यासः ॥
ध्यानम्-
तेजोमंडलमध्यगं त्रिनयनं दिव्यांबरालंकृतं
देवं पुष्पशरेक्षुकार्मुक लसन्माणिक्यपात्राऽभयम् ।
बिभ्राणं करपंकजैः मदगज स्कंधाधिरूढं विभुं
शास्तारं शरणं भजामि सततं त्रैलोक्य संमोहनम् ॥
महाशास्ता शिरः पातु फालं हरिहरात्मजः ।
कामरूपी दृशं पातु सर्वज्ञो मे श्रुतिं सदा ॥ 1
घ्राणं पातु कृपाध्यक्षः मुखं गौरीप्रियः सदा ।
वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ 2
कंठं पातु विशुद्धात्मा स्कंधौ पातु सुरार्चितः ।
बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ 3
भूताधिपो मे हृदयं मध्यं पातु महाबलः ।
नाभिं पातु महावीरः कमलाक्षोऽवतु कटिम् ॥ 4
सनीपं पातु विश्वेशः गुह्यं गुह्यार्थवित्सदा ।
ऊरू पातु गजारूढः वज्रधारी च जानुनी ॥ 5
जंघे पात्वंकुशधरः पादौ पातु महामतिः ।
सर्वांगं पातु मे नित्यं महामायाविशारदः ॥ 6
इतीदं कवचं पुण्यं सर्वाघौघनिकृंतनम् ।
महाव्याधिप्रशमनं महापातकनाशनम् ॥ 7
ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् ।
आयुरारोग्यजननं महावश्यकरं परम् ॥ 8
यं यं कामयते कामं तं तमाप्नोत्यसंशयः ।
त्रिसंध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥
इति श्री महाशास्ता अनुग्रह कवचम् ।
वारंवार विचारले जाणारे प्रश्न
What is महाशाश्ता अनुग्रह कवचम्?
महाशाश्ता अनुग्रह कवचम् is a Kavachams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read महाशाश्ता अनुग्रह कवचम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download महाशाश्ता अनुग्रह कवचम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.