कठोपनिषद् – अध्याय 1, वल्ली 1
अध्याय 1
वल्ली 1
ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ।
तस्य ह नचिकेता नाम पुत्र आस ॥1॥
तं ह कुमारं संतं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत ॥2॥
पीतोदका जग्धतृणा दुग्धदोहा निरिंद्रियाः।
अनंदा नाम ते लोकास्तान्स गच्छति ता ददत् ॥3॥
स होवाच पितरं तत कस्मै मां दास्यसीति।
द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥4॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः।
किं स्विद्यमस्य कर्तव्यं-यँन्मयाद्य करिष्यति ॥5॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥6॥
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्।
तस्यैतां शांतिं कुर्वंति हर वैवस्वतोदकम् ॥7॥
आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान्।
एतद् वृंक्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥8॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः।
नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥9॥
शांतसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो।
त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं-वँरं-वृँणे ॥10॥
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥11॥
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥12॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्।
स्वर्गलोका अमृतत्वं भजंत एतद् द्वितीयेन वृणे वरेण ॥13॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्।
अनंतलोकाप्तिमथो प्रतिष्ठां-विँद्धि त्वमेतं निहितं गुहायाम् ॥14॥
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥15॥
तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः।
तवैव नाम्ना भविताऽयमग्निः सृंकां चेमामनेकरूपां गृहाण ॥16॥
त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञं देवमीड्यं-विँदित्वा निचाय्येमां शांतिमत्यंतमेति ॥17॥
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं-विँद्वांश्चिनुते नाचिकेतम्।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥18॥
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्निं तवैव प्रवक्ष्यंति जनासस्तृतीयं-वँरं नचिकेतो वृणीष्व ॥19॥
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाऽहं-वँराणामेष वरस्तृतीयः ॥20॥
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं-वँरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥21॥
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥22॥
शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्।
भूमेर्महदायतनं-वृँणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥23॥
एतत्तुल्यं-यँदि मन्यसे वरं-वृँणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वां कामभाजं करोमि ॥24॥
ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छंदतः प्रार्थयस्व।
इमा रामाः सरथाः सतूर्या न हीदृशा लंभनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्शीः ॥25॥
श्वोभावा मर्त्यस्य यदंतकैतत्सर्वेंद्रियाणां जरयंति तेजः।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥26॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं-वँरस्तु मे वरणीयः स एव ॥27॥
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥28॥
यस्मिन्निदं-विँचिकित्संति मृत्यो यत्सांपराये महति ब्रूहि नस्तत्।
योऽयं-वँरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥29॥
वारंवार विचारले जाणारे प्रश्न
What is कठोपनिषद् - अध्याय 1, वल्ली 1?
कठोपनिषद् - अध्याय 1, वल्ली 1 is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read कठोपनिषद् - अध्याय 1, वल्ली 1 online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download कठोपनिषद् - अध्याय 1, वल्ली 1 as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.