गीतगोविंदं अष्टमः सर्गः – विलक्ष्य लक्ष्मीपतिः


॥ अष्टमः सर्गः ॥
॥ विलक्ष्यलक्ष्मीपतिः ॥

अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदंतमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ 49 ॥

॥ गीतं 17 ॥

रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ 50 ॥

कज्जलमलिनविलोचनचुंबनविरचितनीलिमरूपम् ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ 2 ॥

वपुरनुहरति तव स्मरसंगरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ 3 ॥

चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ 4 ॥

दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ 5 ॥

बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वंचयसे जनमनुगतमसमशरज्वरदूनम् ॥ 6 ॥

भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ 7 ॥

श्रीजयदेवभणितरतिवंचितखंडितयुवतिविलापम् ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ 8 ॥

तदेवं पश्यंत्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।
ममाद्य प्रख्यातप्रणयभरभंगेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ 50 ॥

॥ इति गीतगोविंदे खंडितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥

वारंवार विचारले जाणारे प्रश्न

What is गीतगोविंदं अष्टमः सर्गः - विलक्ष्य लक्ष्मीपतिः?

गीतगोविंदं अष्टमः सर्गः - विलक्ष्य लक्ष्मीपतिः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read गीतगोविंदं अष्टमः सर्गः - विलक्ष्य लक्ष्मीपतिः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download गीतगोविंदं अष्टमः सर्गः - विलक्ष्य लक्ष्मीपतिः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook