गीतगोविंदं पंचमः सर्गः – साकांक्ष पुंडरीकाक्षः


॥ पंचमः सर्गः ॥
॥ साकांक्षपुंडरीकाक्षः ॥

अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 31 ॥

॥ गीतं 10 ॥

वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तव विरहे वनमाली सखि सीदति ॥ 1 ॥

दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥ 2 ॥

ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ 3 ॥

वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥ 4 ॥

रणति पिकसमवाये प्रतिदिशमनुयाति ।
हसति मनुजनिचये विरहमपलपति नेति ॥ 5 ॥

स्फुरति कलरवरावे स्मरति मणितमेव।
तवरतिसुखविभवे गणयति सुगुणमतीव ॥ 6 ॥

त्वदभिधशुभदमासं वदति नरि शृणोति ।
तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ 7 ॥

भणति कविजयदेवे विरहविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 8 ॥

पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुंजमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमंत्रावलीं भूयस्त्वत्कुचकुंभनिर्भरपरीरंभामृतं वांछति ॥ 32 ॥

॥ गीतं 11 ॥

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितंबिनि गमनविलंबनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ 1 ॥

नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ 2 ॥

पतति पतत्रे विचलति पत्रे शंकितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पंथानम् ॥ 3 ॥

मुखरमधीरं त्यज मंजीरं रिपुमिव केलिषुलोलम् ।
चल सखि कुंजं सतिमिरपुंजं शीलय नीलनिचोलम् ॥ 4 ॥

उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ 5 ॥

विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पंकजनयने निधिमिव हर्षनिदानम् ॥ 6 ॥

हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 7 ॥

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ 8 ॥

विकिरति मुहुः श्वासांदिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुंजं गुंजन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लांतः कांते प्रियस्तव वर्तते ॥ 33 ॥

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविंदस्य मनोरथेन च समं प्राप्तं तमः सांद्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलंबनमसौ रम्योऽभिसारक्षणः ॥ 34 ॥

आश्लेषादनु चुंबनादनु नखोल्लेखादनु स्वांतज-प्रोद्बोधादनु संभ्रमादनु रतारंभादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः संभाषणैर्जानतो-र्दंपत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 35 ॥

सभयचकितं विन्यस्यंतीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मंदं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामंगैरनंगतरंगिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ 36 ॥

राधामुग्धमुखारविंदमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारांतकः।
स्वच्छंदं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वां देवकीनंदनः॥ 36 + 1 ॥

॥ इति श्रीगीतगोविंदेऽभिसारिकवर्णने साकांक्षपुंडरीकाक्षो नाम पंचमः सर्गः ॥

वारंवार विचारले जाणारे प्रश्न

What is गीतगोविंदं पंचमः सर्गः - साकांक्ष पुंडरीकाक्षः?

गीतगोविंदं पंचमः सर्गः - साकांक्ष पुंडरीकाक्षः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read गीतगोविंदं पंचमः सर्गः - साकांक्ष पुंडरीकाक्षः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download गीतगोविंदं पंचमः सर्गः - साकांक्ष पुंडरीकाक्षः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook