गीतगोविंदं द्वितीयः सर्गः – अक्लेश केशवः


॥ द्वितीयः सर्गः ॥
॥ अक्लेशकेशवः ॥

विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।
क्वचिदपि लताकुंजे गुंजन्मधुव्रतमंडली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ 14 ॥

॥ गीतं 5 ॥

संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।
चलितदृगंचलचंचलमौलिकपोलविलोलवतंसम् ॥
रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ 1 ॥

चंद्रकचारुमयूरशिखंडकमंडलवलयितकेशम् ।
प्रचुरपुरंदरधनुरनुरंजितमेदुरमुदिरसुवेशम् ॥ 2 ॥

गोपकदंबनितंबवतीमुखचुंबनलंभितलोभम् ।
बंधुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ 3 ॥

विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ 4 ॥

जलदपटलवलदिंदुविनंदकचंदनतिलकललाटम् ।
पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ 5 ॥

मणिमयमकरमनोहरकुंडलमंडितगंडमुदारम् ।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ 6 ॥

विशदकदंबतले मिलितं कलिकलुषभयं शमयंतम् ।
मामपि किमपि तरंगदनंगदृशा मनसा रमयंतम् ॥ 7 ॥

श्रीजयदेवभणितमतिसुंदरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ 8 ॥

गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुंचति दूरतः ।
युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ 15 ॥

॥ गीतं 6 ॥

निभृतनिकुंजगृहं गतया निशि रहसि निलीय वसंतम् ।
चकितविलोकितसकलदिशा रतिरभसरसेन हसंतम् ॥
सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम् ॥ 1 ॥

प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ 2 ॥

किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
कृतपरिरंभणचुंबनया परिरभ्य कृताधरपानम् ॥ 3 ॥

अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।
श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ 4 ॥

कोकिलकलरवकूजितया जितमनसिजतंत्रविचारम् ।
श्लथकुसुमाकुलकुंतलया नखलिखितघनस्तनभारम् ॥ 5 ॥

चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् ।
मुखरविशृंखलमेखलया सकचग्रहचुंबनदानम् ॥ 6 ॥

रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ 7 ॥

श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
सुखमुत्कंठितगोपवधूकथितं वितनोतु सलीलम् ॥ 8 ॥

हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-वृंदोत्सारिदृगंतवीक्षितमतिस्वेदार्द्रगंडस्थलम् ।
मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविंदं व्रजसुंदरीगणवृतं पश्यामि हृष्यामि च ॥ 16 ॥

दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृंगीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ 17 ॥

॥ इति गीतगोविंदे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥

वारंवार विचारले जाणारे प्रश्न

What is गीतगोविंदं द्वितीयः सर्गः - अक्लेश केशवः?

गीतगोविंदं द्वितीयः सर्गः - अक्लेश केशवः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read गीतगोविंदं द्वितीयः सर्गः - अक्लेश केशवः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download गीतगोविंदं द्वितीयः सर्गः - अक्लेश केशवः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook