गीतगोविंदं द्वादशः सर्गः – सुप्रीत पीतांबरः
॥ द्वादशः सर्गः ॥
॥ सुप्रीतपीतांबरः ॥
गतवति सखीवृंदेऽमंदत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ 68 ॥
॥ गीतं 23 ॥
किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ 1 ॥
करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ 2 ॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ 3 ॥
प्रियपरिरंभणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ 4 ॥
अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ 5 ॥
शशिमुखि मुखरय मणिरशनागुणमनुगुणकंठनिदानम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ 6 ॥
मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ 7 ॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ 8 ॥
मारंके रतिकेलिसंकुलरणारंभे तया साहस-प्रायं कांतजयाय किंचिदुपरि प्रारंभि यत्संभ्रमात् ।
निष्पंदा जघनस्थली शिथिलता दोर्वल्लिरुत्कंपितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ 69 ॥
अथ कांतं रतिक्लांतमपि मंडनवांछया ।
निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ 70 ॥
॥ गीतं 24 ॥
कुरु यदुनंदन चंदनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमंगलकलशसहोदरे ।
निजगाद सा यदुनंदने क्रीडति हृदयानंदने ॥ 1 ॥
अलिकुलगंजनमंजनकं रतिनायकसायकमोचने ।
त्वदधरचुंबनलंबितकज्जलमुज्ज्वलय प्रिय लोचने ॥ 2 ॥
नयनकुरंगतरंगविकासनिरासकरे श्रुतिमंडले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुंडले ॥ 3 ॥
भ्रमरचयं रचहयंतमुपरि रुचिरं सुचिरं मम संमुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ 4 ॥
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलंककलं कमलानन विश्रमितश्रमशीकरे ॥ 5 ॥
मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखंडिशिखंडकडामरे ॥ 6 ॥
सरसघने जघने मम शंबरदारणवारणकंदरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुंदरे ॥ 7 ॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मंडने ।
हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखंडने ॥ 8 ॥
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने कांचीमंच स्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीतांबरोऽपि तथाकरोत् ॥ 71 ॥
यद्गांध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृंगारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
तत्सर्वं जयदेवपंडितकवेः कृष्णैकतानात्मनः सानंदाः परिशोधयंतु सुधियः श्रीगीतगोविंदतः ॥ 72 ॥
श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकंठे श्रीगीतगोविंदकवित्वमस्तु ॥ 73 ॥
॥ इति श्रीजयदेवकृतौ गीतगोविंदे सुप्रीतपीतांबरो नाम द्वादशः सर्गः ॥
॥ इति गीतगोविंदं समाप्तम् ॥
वारंवार विचारले जाणारे प्रश्न
What is गीतगोविंदं द्वादशः सर्गः - सुप्रीत पीतांबरः?
गीतगोविंदं द्वादशः सर्गः - सुप्रीत पीतांबरः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read गीतगोविंदं द्वादशः सर्गः - सुप्रीत पीतांबरः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गीतगोविंदं द्वादशः सर्गः - सुप्रीत पीतांबरः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.