गौरी दशकं
लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरंतश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुंजां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 1 ॥
प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयंतीम् ।
सत्यज्ञानानंदमयीं तां तनुरूपां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 2 ॥
चंद्रापीडानंदितमंदस्मितवक्त्रां
चंद्रापीडालंकृतनीलालकभाराम् ।
इंद्रोपेंद्राद्यर्चितपादांबुजयुग्मां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 3 ॥
आदिक्षांतामक्षरमूर्त्या विलसंतीं
भूते भूते भूतकदंबप्रसवित्रीम् ।
शब्दब्रह्मानंदमयीं तां तटिदाभां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 4 ॥
मूलाधारादुत्थितवीथ्या विधिरंध्रं
सौरं चांद्रं व्याप्य विहारज्वलितांगीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 5 ॥
नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 6 ॥
यस्याः कुक्षौ लीनमखंडं जगदंडं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरंतीं
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 7 ॥
यस्यामोतं प्रोतमशेषं मणिमाला-
-सूत्रे यद्वत्कापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 8 ॥
नानाकारैः शक्तिकदंबैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 9 ॥
आशापाशक्लेशविनाशं विदधानां
पादांभोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धांगहरां तामभिरामां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 10 ॥
प्रातःकाले भावविशुद्धः प्रणिधाना-
-द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति ॥ 11 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गौरी दशकम् ।
वारंवार विचारले जाणारे प्रश्न
What is गौरी दशकं?
गौरी दशकं is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read गौरी दशकं online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गौरी दशकं as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.