एकात्मता स्तोत्रम्


ॐ सच्चिदानंद रूपाय नमोस्तु परमात्मने ।
ज्योतिर्मय स्वरूपाय विश्वमांगल्यमूर्तये ॥

प्रकृतिः पंच भूतानि ग्रहालोकाः स्वरा स्तधा ।
दिशः कालश्च सर्वेषां सदा कुर्वंतु मंगलम्‌ ॥

रत्नाकरा धौतपदां हिमालय किरीटिनीम्‌ ।
ब्रह्मराजर्षि रत्नाढ्यां वंदे भारत मातरम्‌ ॥

महेंद्रो मलयः सह्यो देवतात्मा हिमालयः ।
ध्येयो रैवतको विंध्यो गिरिश्चारावलिस्तधा ॥

गंगा सरस्वती सिंधुर्‌ ब्रह्मपुत्रश्च गंडकी ।
कावेरी यमुना रेवा कृष्णागोदा महानदी ॥

अयोध्या मधुरा माया काशीकांची अवंतिका ।
वैशाली द्वारिका ध्येया पुरी तक्षशिला गया ॥

प्रयागः पाटली पुत्रं विजयानगरं महत्‌ ।
इंद्रप्रस्धं सोमनाधः तधामृतसरः प्रियम्‌ ॥

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तधा ।
रामायणं भारतं च गीता षड्दर्शनानि च ॥

जैनागमा स्त्रिपिटका गुरुग्रंधः सतां गिरः ।
एषः ज्ञाननिधिः श्रेष्ठः हृदि सर्वदा ॥

अरुंधत्यनसूय च सावित्री जानकी सती ।
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तधा ॥

लक्ष्मी रहल्या चॆन्नम्मा रुद्रमांबा सुविक्रमा ।
निवेदिता शारदा च प्रणम्याः मातृदेवताः ॥

श्रीरामो भरतः कृष्णो भीष्मो धर्म स्तधार्जुनः ।
मार्कंडेया हरिश्चंद्रः प्रह्लादो नारदो ध्रुवः ॥

हनुमान्‌ जनको व्यासो वशिष्ठश्च शुको बलिः ।
दधीचि विश्वकर्माणौ पृधु वाल्मीकि भार्गवाः ॥

भगीरधश्चैकलव्यो मनुर्धन्वंतरिस्तधा ।
शिबिश्च रंतिदेवश्च पुराणोद्गीत कीर्तयः ॥

बुद्धोजिनेंद्रा गोरक्षः तिरुवल्लुवरस्तधा ।
नायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥

देवलो रविदासश्च कबीरो गुरुनानकः ।
नरसिस्तुलसीदासो दशमेशो दृढव्रतः ॥

श्रीमत्‌ शंकरदेवश्च बंधू सायणमाधवौ ।
ज्ञानेश्वर स्तुकारामो रामदासः पुरंदरः ॥

विरजा सहजानंदो रामासंद्स्तधा महान्‌ ।
वितरस्तु सदैवैते दैवीं सद्गुण संपदम्‌ ॥

भरतर्षिः कालिदासः श्रीभोजो जकणस्तधा ।
सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥

रविवर्मा भारतखंडे भाग्यचंद्रः स भूपतिः ।
कलावंतश्च विख्याताः स्मरणीय निरंतरम्‌ ॥

अगस्त्यः कंबुकौंडिन्यौ राजेंद्रश्चोलवंशजः ।
अशोकः पुष्यमित्रश्च खारवेलाः सुनीतिमान्‌ ॥

चाणक्य चंद्रगुप्तौ च विक्रमः शालिवाहनः ।
समुद्र गुप्तः श्री हर्षःशैलेंद्रो बप्परावलः ॥

लाचित्‌ भास्करवर्माच यशोधर्मा च हूणजित्‌ ।
श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥

मुसुनूरि नायका तौ प्रतापः शिवभूपतिः ।
रणजित्‌ सिंह इत्येते वीरा विख्यात विक्रमाः ॥

वैज्ञानिकाश्च कपिलः कणादः शुश्रत स्तधा ।
चरको भास्कराचार्यो वराहमिहरः सुधीः ॥

नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्भुधः ।
ध्येयो वेंकटरामश्च विज्ञा रामानुजादयः ॥

रामकृष्णो दयानंदो रवींद्रो राममोहनः ।
रामतीर्धो रविंदश्च विवेकानंद उड्यशाः ॥

दादाभायी गोपबंधुः तिलको गांधिरादृताः ।
रमणो मालवीयश्च श्री सुब्रह्मण्य भारती ॥

सुभाषः प्रणवानंदः क्रांतिवीरो विनायकः ।
ठक्करो भीमरावश्च पुलेनारायणो गुरुः ॥

संघशक्तिः प्रणेतारौ केशवो माधवश्तधा ।
स्मरणीया सदैवैते नवचैतन्यदायकाः ॥

अनुक्ता ये भक्ताः प्रभुचरण संसक्त हृदयाः ।
अविज्ञाता वीराः अधिसमरमुद्ध्वस्तरिपवः ॥

समाजोद्धर्तारः सुहितकरविज्ञान निपुणाः ।
नम स्तेभ्यो भूयात्‌ सकल सुजनेभ्यः प्रतिदिनम्‌ ॥

इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्‌ ।
स राष्ट्र धर्म निष्टावान्‌ अखंडं भारतं स्मरेत्‌ ॥

वारंवार विचारले जाणारे प्रश्न

What is एकात्मता स्तोत्रम्?

एकात्मता स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read एकात्मता स्तोत्रम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download एकात्मता स्तोत्रम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook