देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः


रक्तबीजवधो नाम अष्टमोध्याय ॥

ध्यानं
अरुणां करुणा तरंगिताक्षीं धृतपाशांकुश पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥

ऋषिरुवाच ॥1॥

चंडे च निहते दैत्ये मुंडे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 2 ॥

ततः कोपपराधीनचेताः शुंभः प्रतापवान् ।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥3॥

अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ।
कंबूनां चतुरशीतिर्निर्यांतु स्वबलैर्वृताः ॥4॥

कोटिवीर्याणि पंचाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छंतु ममाज्ञया ॥5॥

कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यांतु आज्ञया त्वरिता मम ॥6॥

इत्याज्ञाप्यासुरापतिः शुंभो भैरवशासनः ।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥7॥

आयांतं चंडिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनांतरम् ॥8॥

ततःसिंहॊ महानादमतीव कृतवान्नृप ।
घंटास्वनेन तान्नादानंबिका चोपबृंहयत् ॥9॥

धनुर्ज्यासिंहघंटानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥10॥

तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः॥11॥

एतस्मिन्नंतरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहनामतिवीर्यबलान्विताः ॥12॥

ब्रह्मेशगुहविष्णूनां तथेंद्रस्य च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चंडिकां ययुः ॥13॥

यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥14॥

हंसयुक्तविमानाग्रे साक्षसूत्रक मंडलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥15॥

महेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ताचंद्ररेखाविभूषणा ॥16॥

कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानंबिका गुहरूपिणी ॥17॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शंखचक्रगधाशांखर् खड्गहस्ताभ्युपाययौ ॥18॥

यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥19॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥20॥

वज्र हस्ता तथैवैंद्री गजराजो परिस्थिता ।
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥21॥

ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ।
हन्यंतामसुराः शीघ्रं मम प्रीत्याह चंडिकां ॥22॥

ततो देवी शरीरात्तु विनिष्क्रांतातिभीषणा ।
चंडिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥23॥

सा चाह धूम्रजटिलं ईशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुंभनिशुंभयोः ॥24॥

ब्रूहि शुंभं निशुंभं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥25॥

त्रैलोक्यमिंद्रो लभतां देवाः संतु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥26॥

बलावलेपादथ चेद्भवंतो युद्धकांक्षिणः ।
तदा गच्छत तृप्यंतु मच्छिवाः पिशितेन वः ॥27॥

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ॥28॥

तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥29॥

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥30॥

सा च तान् प्रहितान् बाणान् ंछूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥31॥

तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वांगपोथितांश्चारीन्कुर्वंती व्यचरत्तदा ॥32॥

कमंडलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥33॥

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥34॥

ऐंद्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥35॥

तुंडप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥36॥

नखैर्विदारितांश्चान्यान् भक्षयंती महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगंबरा ॥37॥

चंडाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥38॥

इति मातृ गणं क्रुद्धं मर्द यंतं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥39॥

पलायनपरांदृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥40॥

रक्तबिंदुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥41॥

युयुधे स गदापाणिरिंद्रशक्त्या महासुरः ।
ततश्चैंद्री स्ववज्रेण रक्तबीजमताडयत् ॥42॥

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥43॥

यावंतः पतितास्तस्य शरीराद्रक्तबिंदवः ।
तावंतः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥44॥

ते चापि युयुधुस्तत्र पुरुषा रक्त संभवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥45॥

पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥46॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐंद्री तमसुरेश्वरम्॥47॥

वैष्णवी चक्रभिन्नस्य रुधिरस्राव संभवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥48॥

शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥49॥

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥50॥

तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ।
पपात यो वै रक्तौघस्तेनासंचतशोऽसुराः ॥51॥

तैश्चासुरासृक्संभूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥52॥

तान् विषण्णा न् सुरान् दृष्ट्वा चंडिका प्राहसत्वरम् ।
उवाच कालीं चामुंडे विस्तीर्णं वदनं कुरु ॥53॥

मच्छस्त्रपातसंभूतान् रक्तबिंदून् महासुरान् ।
रक्तबिंदोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥54॥

भक्षयंती चर रणो तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥55॥

भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यंति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥56॥

मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चंडिकां ॥57॥

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥58॥

यतस्ततस्तद्वक्त्रेण चामुंडा संप्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥59॥

तांश्चखादाथ चामुंडा पपौ तस्य च शोणितम् ॥60॥

देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ।
जघान रक्तबीजं तं चामुंडा पीत शोणितम् ॥61॥

स पपात महीपृष्ठे शस्त्रसंघसमाहतः ।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥62॥

ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप ।
तेषां मातृगणो जातो ननर्तासृंंगमदोद्धतः ॥63॥

॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥

आहुति
ॐ जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥

वारंवार विचारले जाणारे प्रश्न

What is देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः?

देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः is a Devi Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook